देव्या कृष्णशोकायनोदनम्
व्यास उवाच
प्रातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः ।
किंवदन्त्यथ कंसेन श्रुता चारमुखादपि
॥१॥जानाति वसुदेवस्य दारास्तत्र वसन्ति हि ।
पशवो दासवर्गश्च सर्वे ते नन्दगोकुले
॥२॥तेन शङ्कासमाविष्टो गोकुलं प्रति भारत ।
नारदेनापि तत्सर्वं कथितं कारणं पुरा
॥३॥गोकुले ये च नन्दाद्यास्तत्पत्न्यश्च सुरांशजाः ।
देवकीवसुदेवाद्याः सर्वे ते शत्रवः किल
॥४॥इति नारदवाक्येन बोधितोऽसौ कुलाधमः ।
जातः कोपमना राजन् कंसः परमपापकृत्
॥५॥पूतना निहता तत्र कृष्णेनामिततेजसा ।
बको वत्सासुरश्चापि धेनुकश्च महाबलः
॥६॥प्रलम्बो निहतस्तेन तथा गोवर्धनो धृतः ।
श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः
॥७॥तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः ।
धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे
॥८॥अक्रूरं प्रेषयामास क्रूरः पापमतिस्तदा ।
आनेतुं रामकृष्णौ च वधायामितविक्रमौ
॥९॥रथमारोप्य गोपालौ गोकुलाद् गान्दिनीसुतः ।
आगतो मथुरायां तु कंसादेशे स्थितः किल
॥१०॥तावागत्य तदा तत्र धनुर्भङ्गञ्च चक्रतुः ।
हत्वाथ रजकं कामं गजं चाणूरमुष्टिकम्
॥११॥शलं च तोशलं चैव निजघान हरिस्तदा ।
जघान कंसं देवेशः केशेष्वाकृष्य लीलया
॥१२॥पितरौ मोचयित्वाथ गतदुःखौ चकार ह ।
उग्रसेनाय राज्यं तद्ददावरिनिषूदनः
॥१३॥वसुदेवस्तयोस्तत्र मौञ्जीबन्धनपूर्वकम् ।
कारयामास विधिवद् व्रतबन्धं महामनाः
॥१४॥उपनीतौ तदा तौ तु गतौ सान्दीपनालयम् ।
विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः
॥१५॥जातौ द्वादशवर्षीयौ कृतविद्यौ महाबलौ ।
मथुरायां स्थितौ वीरौ सुतावानकदुन्दुभेः
॥१६॥मागधस्तु जरासन्धो जामातृवधदुःखितः ।
कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम्
॥१७॥स सप्तदशवारं तु कृष्णेन कृतबुद्धिना ।
जितः संग्राममासाद्य मधुपुर्यां निवासिना
॥१८॥पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः ।
सर्वम्लेच्छाधिपः शूरो यादवानां भयङ्करः
॥१९॥श्रुत्वा यवनमायान्तं कृष्णः सर्वान् यदूत्तमान् ।
आनाय्य च तथा राममुवाच मधुसूदनः
॥२०॥भयं नोऽत्र समुत्पन्नं जरासन्धान्महाबलात् ।
किं कर्तव्यं महाभाग यवनः समुपैति वै
॥२१॥प्राणत्राणं प्रकर्तव्यं त्यक्त्वा गेहं बलं धनम् ।
सुखेन स्थीयते यत्र स देशः खलु पैतृकः
॥२२॥सदोद्वेगकरः कामं किं कर्तव्यः कुलोचितः ।
शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता
॥२३॥यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पण्डितैः ।
शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे
॥२४॥तथैव च भयाद्भीतः कैलासे त्रिपुरार्दनः ।
तस्मान्नात्रैव स्थातव्यमस्माभिः शत्रुतापितैः
॥२५॥द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै ।
कथिता गरुडेनाद्य रम्या द्वारवती पुरी
॥२६॥रैवताचलसानिध्ये सिन्धुकूले मनोहरा ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं तथ्यं सर्वे यादवपुङ्गवाः
॥२७॥गमनाय मतिं चक्रुः सकुटुम्बाः सवाहनाः ।
शकटानि तथोष्ट्राश्च वाम्यश्च महिषास्तथा
॥२८॥धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्बहिः ।
रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छदाः
॥२९॥अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः ।
कतिचिद्दिवसैः प्रापुः पुरीं द्वारवतीं किल
॥३०॥शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः ।
संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवौ
॥३१॥तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम् ।
तदा तत्रैव सम्प्राप्तो बलवान् यवनाधिपः
॥३२॥ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्बहिः ।
पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः
॥३३॥पीताम्बरधरः श्रीमान्प्राहसन्मधुसूदनः ।
तं दृष्ट्वा पुरतो यान्तं कृष्णं कमललोचनम्
॥३४॥यवनोऽपि पदातिः सन्पृष्ठतोऽनुगतः खलः ।
प्रसुप्तो यत्र राजर्षिर्मुचुकुन्दो महाबलः
॥३५॥प्रययौ भगवांस्तत्र सकालयवनो हरिः ।
तत्रैवान्तर्दधे विष्णुर्मुचुकुन्दं समीक्ष्य च
॥३६॥तत्रैव यवनः प्राप्तः सुप्तभूतमपश्यत ।
मत्वा तं वासुदेवं स पादेनाताडयन्नृपम्
॥३७॥प्रबुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः ।
तं दग्ध्वा मुचुकुन्दोऽथ ददर्श कमलेक्षणम्
॥३८॥वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् ।
जगाम द्वारकां कृष्णो बलदेवसमन्वितः
॥३९॥उग्रसेनं नृपं कृत्वा विजहार यथारुचि ।
अहरद्रुक्मिणी कामं शिशुपालस्वयंवरात्
॥४०॥राक्षसेन विवाहेन चक्रे दारविधिं हरिः ।
ततो जाम्बवतीं सत्यां मित्रविन्दाञ्च भामिनीम्
॥४१॥कालिन्दीं लक्षणां भद्रां तथा नाग्नजितीं शुभाम् ।
पृथक्पृथक्समानीयाप्युपयेमे जनार्दनः
॥४२॥अष्टावेव महीपाल पत्न्यः परमशोभनाः ।
प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम्
॥४३॥जातकर्मादिकं तस्य चकार मधुसूदनः ।
हृतोऽसौ सूतिकागेहाच्छम्बरेण बलीयसा
॥४४॥नीतश्च स्वपुरीं बालो मायावत्यै समर्पितः ।
वासुदेवो हृतं दृष्ट्वा पुत्रं शोकसमन्वितः
॥४५॥जगाम शरणं देवीं भक्तियुक्तेन चेतसा ।
वृत्रासुरादयो दैत्या लीलयैव यया हताः
॥४६॥ततोऽसौ योगमायायाश्चकार परमां स्मृतिम् ।
वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः
॥४७॥श्रीकृष्ण उवाच
मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरर्चितासि ।
धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः
॥४८॥सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाप्यथ कौतुकाद्वा ।
मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता
॥४९॥दुर्गो महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे ।
अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममैव दोषात्
॥५०॥नाहं गतः परपुरं न च यादवाश्च रक्षावतीव नगरी किल वीरवर्यैः ।
माया तवैव जननि प्रकटप्रभावा मे बालकः परिहृतः कुहकेन केन
॥५१॥नो वेद्म्यहं जननि ते चरितं सुगुप्तं को वेद मन्दमतिरल्पविदेव देही ।
क्वासौ गतो मम भटैर्न च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम्
॥५२॥चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययासौ ।
यं रोहिणी हलधरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनापि
॥५३॥सृष्टिं करोषि जगतामनुपालनं च नाशं तथैव पुनरप्यनिशं गुणैस्त्वम् ।
को वेद तेऽम्ब चरितं दुरितान्तकारि प्रायेण सर्वमखिलं विहितं त्वयैतत्
॥५४॥उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम् ।
त्वं क्रीडसे सुललितैः खलु तैर्विहारै- र्नो चेत्कथं मम सुताप्तिरतिर्वृथा स्यात्
॥५५॥मातास्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव ।
कष्टं न वेत्सि ललितेऽप्रमितप्रभावे मातस्त्वमेव शरणं भवपीडितानाम्
॥५६॥सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति ।
तत्किं करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः
॥५७॥यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमथाखिलदुःखहा त्वम् ।
मातः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय
॥५८॥व्यास उवाच
एवं स्तुता तदा देवी कृष्णेनाक्लिष्टकर्मणा ।
प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम्
॥५९॥श्रीदेव्युवाच
शोकं मा कुरु देवेश शापोऽयं ते पुरातनः ।
तस्य योगेन पुत्रस्ते शम्बरेण हृतो बलात्
॥६०॥अतस्ते षोडशे वर्षे हत्वा तं शम्बरं बलात् ।
आगमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः
॥६१॥व्यास उवाच
इत्युक्त्वान्तर्दधे देवी चण्डिका चण्डविक्रमा ।
भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी
॥६२॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देव्या कृष्णशोकापनोदनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥