कंसं प्रति योगमायावाक्यम्
व्यास उवाच
हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना ।
सप्तमे पतिते गर्भे वचनान्नारदस्य च
॥१॥अष्टमस्य च गर्भस्य रक्षणार्थमतन्द्रितः ।
प्रयत्नमकरोद्राजा मरणं स्वं विचिन्तयन्
॥२॥समये देवकीगर्भे प्रवेशमकरोद्धरिः ।
अंशेन वसुदेवे तु समागत्य यथाक्रमम्
॥३॥तदेयं योगमाया च यशोदायां यथेच्छया ।
प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये
॥४॥रोहिण्यास्तनयो रामो गोकुले समजायत ।
यतः कंसभयोद्विग्ना संस्थिता सा च कामिनी
॥५॥कारागारे ततः कंसो देवकीं देवसंस्तुताम् ।
स्थापयामास रक्षार्थं सेवकान्समकल्पयत्
॥६॥वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः ।
पुत्रोत्पत्तिं च सञ्चिन्त्य प्रविष्टः सह भार्यया
॥७॥देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये ।
संस्तुतोऽमरसङ्घैश्च व्यवर्धत यथाक्रमम्
॥८॥सञ्जाते दशमे तत्र मासेऽथ श्रावणे शुभे ।
प्राजापत्यर्क्षसंयुक्ते कृष्णपक्षेऽष्टमीदिने
॥९॥कंसस्तु दानवान्सर्वानुवाच भयविह्वलः ।
रक्षणीया भवद्भिश्च देवकी गर्भमन्दिरे
॥१०॥अष्टमो देवकीगर्भः शत्रुर्मे प्रभविष्यति ।
रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः
॥११॥हत्वैनं बालकं दैत्याः सुखं स्वप्स्यामि मन्दिरे ।
निवृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुते
॥१२॥खड्गप्रासधराः सर्वे तिष्ठन्तु धृतकार्मुकाः ।
निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः
॥१३॥व्यास उवाच
इत्यादिश्यासुरगणान् कृशोऽतिभयविह्वलः ।
मन्दिरं स्वं जगामाशु न लेभे दानवः सुखम्
॥१४॥निशीथे देवकी तत्र वसुदेवमुवाच ह ।
किं करोमि महाराज प्रसवावसरो मम
॥१५॥बहवो रक्षपालाश्च तिष्ठन्त्यत्र भयानकाः ।
नन्दपत्न्या मया सार्धं कृतोऽस्ति समयः पुरा
॥१६॥प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि ।
पालयिष्याम्यहं तत्र तवातिमनसा किल
॥१७॥अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै ।
किं कर्तव्यं प्रभो चात्र विषमे समुपस्थिते
॥१८॥व्यत्ययः सन्ततेः शौरे कथं कर्तुं क्षमो भवेः ।
दूरे तिष्ठस्व कान्ताद्य लज्जा मेऽतिदुरत्यया
॥१९॥परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् ।
इत्युक्त्वा तं महाभागं देवकी देवसम्मतम्
॥२०॥बालकं सुषुवे तत्र निशीथे परमाद्भुतम् ।
तं दृष्ट्वा विस्मयं प्राप देवकी बालकं शुभम्
॥२१॥पतिं प्राह महाभागा हर्षोत्कुल्लकलेवरा ।
पश्य पुत्रमुखं कान्त दुर्लभं हि तव प्रभो
॥२२॥अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः ।
वसुदेवस्तथेत्युक्त्वा तमादाय करे सुतम्
॥२३॥अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः ।
वीक्ष्य पुत्रमुखं शौरिश्चिन्ताविष्टो बभूव ह
॥२४॥किं करोमि कथं न स्याद्दुःखमस्य कृते मम ।
एवं चिन्तातुरे तस्मिन्वागुवाचाशरीरिणी
॥२५॥वसुदेवं समाभाष्य गगने विशदाक्षरा ।
वसुदेव गृहीत्वैनं गोकुलं नय सत्वरः
॥२६॥रक्षपालास्तथा सर्वे मया निद्राविमोहिताः ।
विवृतानि कृतान्यष्ट कपाटानि च शृङ्खलाः
॥२७॥मुक्त्वैनं नन्दगेहे त्वं योगमायां समानय ।
श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः
॥२८॥विवृतं द्वारमालोक्य बभूव तरसा नृप ।
तमादाय ययावाशु द्वारपालैरलक्षितः
॥२९॥कालिन्दीतटमासाद्य पूरं दृष्ट्वा सुनिश्चितम् ।
तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा
॥३०॥योगमायाप्रभावेण ततारानकदुन्दुभिः ।
गत्वा तु गोकुलं शौरिर्निशीथे निर्जने पथि
॥३१॥नन्दद्वारे स्थितः पश्यन्विभूतिं पशुसंज्ञिताम् ।
तदैव तत्र सञ्जाता यशोदा गर्भसम्भवा
॥३२॥योगमायांशजा देवी त्रिगुणा दिव्यरूपिणी ।
जातां तां बालिकां दिव्यां गृहीत्वा करपङ्कजे
॥३३॥तत्रागत्य ददौ देवी सैरन्ध्रीरूपधारिणी ।
वसुदेवः सुतं दत्त्वा सैरन्ध्रीकरपङ्कजे
॥३४॥तामादाय ययौ शीघ्रं बालिकां मुदिताशयः ।
कारागारे ततो गत्वा देवक्याः शयने सुताम्
॥३५॥निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टो भयातुरः ।
रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः
॥३६॥उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि ।
तमूचुर्भूपतिं गत्वा त्वरितास्तेऽतिविह्वलाः
॥३७॥देवक्याश्च सुतो जातः शीघ्रमेहि महामते ।
तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ
॥३८॥प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत् ।
कंस उवाच ।
सुतमानय देवक्या वसुदेव महामते
॥३९॥मृत्युर्मे चाष्टमो गर्भस्तन्निहन्मि रिपुं हरिम् ।
व्यास उवाच ।
श्रुत्वा कंसवचः शौरिर्भयत्रस्तविलोचनः
॥४०॥तामादाय सुतां पाणौ ददौ चाशु रुदन्निव ।
दृष्ट्वाथ दारिकां राजा विस्मयं परमं गतः
॥४१॥देववाणी वृथा जाता नारदस्य च भाषितम् ।
वसुदेवः कथं कुर्यादनृतं सङ्कटे स्थितः
॥४२॥रक्षपालाश्च मे सर्वे सावधाना न संशयः ।
कुतोऽत्र कन्यका कामं क्व गतः स सुतः किल
॥४३॥सन्देहोऽत्र न कर्तव्यः कालस्य विषमा गतिः ।
इति सञ्चिन्त्य तां बालां गृहीत्वा पादयोः खलः
॥४४॥पोथयामास पाषाणे निर्घृणः कुलपांसनः ।
सा करान्निःसृता बाला ययावाकाशमण्डलम्
॥४५॥दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना ।
किं मया हतया पाप जातस्ते बलवान् रिपुः
॥४६॥हनिष्यति दुराराध्यः सर्वथा त्वां नराधमम् ।
इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा
॥४७॥कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा ।
आनाय्य दानवान्सर्वानिदं वचनमब्रवीत्
॥४८॥बकधेनुकवत्सादीन्क्रोधाविष्टो भयातुरः ।
गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये
॥४९॥जातमात्राश्च हन्तव्या बालका यत्र कुत्रचित् ।
पूतनैषा व्रजत्वद्य बालघ्नी नन्दगोकुलम्
॥५०॥जातमात्रान्विनिघ्नन्ती शिशूंस्तत्र ममाज्ञया ।
धेनुको वत्सकः केशी प्रलम्बो बक एव च
॥५१॥सर्वे तिष्ठन्तु तत्रैव मम कार्यचिकीर्षया ।
इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः
॥५२॥चिन्ताविष्टोऽतिदीनात्मा चिन्तयित्वैव तं पुनः
॥५३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे कंसं प्रति योगमायावाक्यं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥