मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १४

3
चतुर्थस्कन्धः · 14

प्रह्लादेन शुक्रकोपसान्त्वनम्

व्यास उवाच

इति संचिंत्य मनसा तानुवाच हसन्निव ।

वंचिता मत्स्वरूपेण दैत्याः किं गुरुणा किल

॥१॥

अहं काव्यो गुरुश्चाऽयं देवकार्यप्रसादकः ।

अनेन वंचिता यूयं मद्याज्या नात्र संशयः

॥२॥

मा श्रद्धध्वं वचोऽस्याऽऽर्या दाभिकोऽयं मदा कृतिः ।

अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम्

॥३॥

इत्याकर्ण्य वचस्तस्य दृष्ट्वा तौ सदृशौ पुनः ।

विस्मयं परमं जग्मुः काव्योऽयमिति निश्चिताः

॥४॥

स तान्वीक्ष्य सुसंभ्रातान्गुरुर्वाक्यमुवाच ह ।

गुरुर्वो वंचयत्येव मद्रूपोऽयं बृहस्पतिः

॥५॥

प्राप्तो वंचयितुं युष्मान्देवकार्यार्थसिद्धये ।

मा विश्वासं वचस्यस्य कुरुध्वं दैत्यसत्तमाः

॥६॥

प्राप्ता विद्या मया शंभोर्युष्मानध्याप यामि ताम् ।

देवेभ्यो विजयं नूनं करिष्यामि न संशयः

॥७॥

इति श्रुत्वा गुरोर्वाक्यं काव्यं रूपधरस्य ते ।

निश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात्

॥८॥

काव्येन बहुधा तत्र बोधिताः किल दानवाः ।

बुबुधुर्न गुरोर्मायामोहिताः काल पर्ययात्

॥९॥

एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् ।

अयं गुरुर्नो धर्मात्मा बुद्धिदश्च हिते रतः

॥१०॥

दशवर्षाणि सततमयं नः शास्ति भार्गवः ।

गच्छ त्वं कुहको भासि नाऽस्माकं गुरुरप्युत

॥११॥

इत्युक्त्वा भार्गवं मूढा निर्भर्त्स्य च पुनः पुनः ।

जगृहुस्तं गुरुं प्रीत्या प्रणिपत्या ऽभिवाद्य च

॥१२॥

काव्यस्तु तन्मयान्दृष्ट्वा चुकोपाऽथ शशाप च ।

दैत्यान्विबोधि तान्मत्वा गुरुणा चातिवंचितान्

॥१३॥

यस्मान्मया बोधिता वै गृह्णीयुर्न च मे वचः ।

तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ

॥१४॥

मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ ।

तदाऽस्य कपटं सर्वं परिज्ञातं भविष्यति

॥१५॥

व्यास उवाच

इत्युक्त्वाऽसौ जगामाऽशु भार्गवः क्रोधसंयुतः ।

बृहस्पतिर्मुदं प्राप्य तस्थौ तत्र समाहितः

॥१६॥

ततः शप्तान्गुरु र्ज्ञात्वा दैत्यांस्तान्भार्गवेण हि ।

जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च

॥१७॥

गत्वोवाच तदा शक्रं कृतं कार्यं मया धुवम् ।

शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः पुनः

॥१८॥

निराधारा कृता नूनं यतध्वं सुरसत्तमाः ।

संग्रामार्थं महाभाग शापदग्धा मया कृताः

॥१९॥

इति श्रुत्वा गुरोर्वाक्यं मघवा मुदमाप्तवान् ।

जहृषुश्च सुराः सर्वे प्रतिपूज्य बृहस्पतिम्

॥२०॥

संग्रामाय मतिं चक्रुः संविचार्य मिथः पुनः ।

निर्ययुर्मिलिता सर्वे दानवाऽभिमुखाः सुराः

॥२१॥

सुरान्समुद्यतान्ज्ञात्वा कृतोद्योगान्महाबलान् ।

अंतर्हितं गुरुं चैव बभूवुश्चिंतयाऽन्विताः

॥२२॥

परस्परमथोचुस्ते मोहितास्तस्य मायया ।

संप्रसाद्यो महात्मा च यातोऽसौ रुष्टमानसः

॥२३॥

वंचयित्वा गतः पापो गुरुः कपटपंडितः ।

भ्रातृस्त्रीलंभनः प्रायो मलिनोंऽतर्बहिः शुचिः

॥२४॥

किं कुर्मः क्व च गच्छामः कथं काव्यं प्रकोपितम् ।

कूर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम्

॥२५॥

इति संचिंत्य ते सर्वे मिलिता भयकंपिताः ।

प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः

॥२६॥

प्रणेमुश्चरणौ तस्य मुनेर्मौनभृतस्तदा ।

भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः

॥२७॥

मया प्रबोधिता यूयं मोहिता गुरुमायया ।

न गृहीतं वचो योग्यं तदा याज्या हितं शुचि

॥२८॥

तदाऽवगणितश्चाहं भवद्भिस्तद्वशं गतैः ।

प्राप्तं नूनं मदोन्मत्तैर्ममाऽवमानजं फलम्

॥२९॥

तत्र गच्छत सद्भ्रष्टा यत्रासौ कपटाकृतिः ।

वंचकः सुरकार्यार्थी नाहं तद्वद्धि वंचकः

॥३०॥

व्यास उवाच

एवं ब्रुवतं शुक्रं तु वाक्यं संदिग्धया गिरा ।

प्रह्लादस्तं तदोवाच गृहीत्वा चरणौ ततः

॥३१॥

प्रह्लाद उवाच

भार्गवाऽद्य समायातान्याज्यानस्मांस्तथाऽऽतुरान् ।

त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितांस्तनयान्हि नः

॥३२॥

गते त्वयि तु मंत्रार्थं शैलूषेण दुरात्मना ।

त्वद्वेषमधुराऽऽलापैर्वयं तेन प्रवंचिताः

॥३३॥

अज्ञानकृतदोषेण नैव कुप्यति शांतिमान् ।

सर्वज्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वयि

॥३४॥

ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते ।

ब्रुवंति मुनयः सर्वे क्षणकोपाहि साधवः

॥३५॥

जलं स्वभावत शीतं वह्न्यातप समाग मात् ।

भवत्युष्णं वियोगाच्च शीतत्वमनुगच्छति

॥३६॥

क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधैः ।

तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत

॥३७॥

यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान् ।

त्वया त्यक्ता महाभाग गमिष्यामो रसातलम्

॥३८॥

व्यास उवाच

प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा ।

विलोक्य सुमना भूत्वा तानुवाच हसन्निव

॥३९॥

न भेतव्यं न गंतव्यं दानवा वा रसातलम् ।

रक्षयिष्यामि वो याज्यान्मंत्रैरवितथैः किल

॥४०॥

हितं सत्यं ब्रवीम्यद्य शृणुध्वं तत्तु निश्चयम् ।

वचनं मम धर्मज्ञाः श्रुतं यद्ब्रह्मणः पुरा

॥४१॥

अवश्यंभाविनो भावाः प्रभवंति शुभाऽशुभाः ।

देवं न चाऽन्यथा कर्तुं क्षमः कोऽपि धरातले

॥४२॥

अद्य मंदबला यूयं कालयोगादसंशयम् ।

देवैर्जिताः सकृच्चाऽपि पातालं प्रतिपत्स्यथ

॥४३॥

प्राप्तः पर्यायकालो वै इति ब्रह्माऽभ्यभाषत ।

भुक्तं राज्यं भवद्भिश्च पूर्णं सर्वं समृद्धिमत्

॥४४॥

युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि ।

दैवयोगाच्च युस्माभिर्भुक्तं त्रैलोक्यमूर्जितम्

॥४५॥

सावर्णिके मनौ राज्यं पुनस्तत्तु भविष्यति ।

पौत्रस्त्रैलोक्य विजयी राज्यं प्राप्स्यति ते बलिः

॥४६॥

यदा वामनरूपेण हृतं देवेन विष्णुना ।

तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना

॥४७॥

हृतं येन बले राज्यं देववांछार्थ सिद्धये ।

त्वमिंद्रो भविता चाग्रे स्थिते सावर्णिके मनौ

॥४८॥

भार्गव उवाच

इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद सांप्रतम् ।

अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत्

॥४९॥

एकदा वासवेनासौ बलिर्गर्दभरूपभाक् ।

शून्ये गृहे स्थितः कामं भयभीतः शतक्रतो

॥५०॥

पृष्टश्च बहुधा तेन वासवेन बलिस्तदा ।

किमर्थं गार्दभं रूपं कृतवान्दैत्यपुंगव

॥५१॥

भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता ।

न लज्जा खररूपेण तव राक्षससत्तम ।

तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा

॥५२॥

प्रोवाच वचनं शक्रं कोऽत्र शोकः शतक्रतो ।

यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः

॥५३॥

तथाऽहं खररूपेण संस्थितः कालयोगतः ।

यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया

॥५४॥

पीडितश्च तथा ह्यद्य स्थितोऽहं खररूपधृक् ।

दैवाधीनस्य किं दुःखं किं सुखं पाकशासन

॥५५॥

कालः करोति वै नूनं यदिच्छति यथा तथा ।

भार्गव उवाच ।

इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम्

॥५६॥

प्रबोधं प्रापतुः कामं यथास्थानं च जग्मतुः ।

इत्येतत्ते समाख्याता मया दैवबलिष्ठता

॥५७॥

दैवाधीनं जगत्सर्वं सदेवासुरमानुषम्

॥५८॥

इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे चतुर्दशोऽध्यायः ॥ १४ ॥