अधमजगतः स्थितिवर्णनम्
राजोवाच
विस्मितोऽस्मि महाभाग श्रुत्वाख्यानं महामते ।
संसारोऽयं पापरूपः कथं मुच्येत बन्धनात्
॥१॥कश्यपस्यापि दायादस्त्रिलोकीविभवे सति ।
कृतवानीदृशं कर्म को न कुर्याञ्चुगुप्सितम्
॥२॥गर्भे प्रविश्य बालस्य हननं दारुणं किल ।
सेवामिषेण मातुश्च कृत्वा शपथमद्भुतम्
॥३॥शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत ।
कृतवानीदृशं कर्म को न कुर्यादसाम्प्रतम्
॥४॥पितामहा मे संग्रामे कुरुक्षेत्रेऽतिदारुणम् ।
कृतवन्तस्तथाश्चर्यं दुष्टं कर्म जगद्गुरो
॥५॥भीष्मोद्रोणः कृपः कर्णो धर्माशोऽपि युधिष्ठिरः ।
सर्वे विरुद्धधर्मेण वासुदेवेन नोदिताः
॥६॥असारतां विजानन्तः संसारस्य सुमेधसः ।
देवांशाश्च कथं चकुर्निन्दितं धर्मतत्पराः
॥७॥कास्था धर्मस्य विप्रेन्द्र प्रमाणं किं विनिश्चितम् ।
चलचित्तोऽस्मि सञ्जातः श्रुत्वा चैतत्कथानकम्
॥८॥आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् ।
पुरुषो विषयासक्तो रागी भवति सर्वथा
॥९॥रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम् ।
द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये
॥१०॥जरासन्धविघातार्थं हरिणा सत्त्वमूर्तिना ।
छलेन रचितं रूपं ब्राह्मणस्य विजानता
॥११॥तदाप्तः कः प्रमाणं किं सत्त्वमूर्तिरपीदृशः ।
अर्जुनोऽपि तथैवात्र कार्ये यज्ञविनिर्मिते
॥१२॥कीदृशोऽयं कृतो यज्ञः किमर्थं शमवर्जितः ।
परलोकपदार्थं वा यशसे वान्यथा किल
॥१३॥धर्मस्य प्रथमः पादः सत्यमेतच्छ्रुतेर्वचः ।
द्वितीयस्तु तथा शौचं दया पादस्तृतीयकः
॥१४॥दानं पादश्चतुर्थश्च पुराणज्ञा वदन्ति वै ।
तैर्विहीनः कथं धर्मस्तिष्ठेदिह सुसम्मतः
॥१५॥धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् ।
धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते
॥१६॥छलार्थञ्च यदा विष्णुर्वामनोऽभूञ्चगत्प्रभुः ।
येन वामनरूपेण वञ्चितोऽसौ बलिर्नृपः
॥१७॥विहर्ता शतयज्ञस्य वेदाज्ञापरिपालकः ।
धर्मिष्ठो दानशीलश्च सत्यवादी जितेन्द्रियः
॥१८॥स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना ।
जितं केन तयोः कृष्ण बलिना वामनेन वा
॥१९॥छलकर्मविदा चायं सन्देहोऽत्र महान्मम ।
वञ्चयित्वा वञ्चितेन सत्यं वद द्विजोत्तम
॥२०॥पुराणकर्ता त्वमसि धर्मज्ञश्च महामतिः ।
व्यास उवाच ।
जितं वै बलिना राजन् दत्ता येन च मेदिनी
॥२१॥त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत् ।
छलनार्थमिदं राजन्वामनत्वं नराधिप
॥२२॥सम्प्राप्तं हरिणा भूयो द्वारपालत्वमेव च ।
सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्थिव
॥२३॥दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल ।
माया बलवती भूप त्रिगुणा बहुरूपिणी
॥२४॥ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः ।
तस्माच्छलवता सत्यं कुतोऽविद्धं भवेन्नृप
॥२५॥मिश्रेण जनिता चैव स्थितिरेषा सनातनी ।
वैखानसाश्च मुनयो निःसङ्गा निष्प्रतिग्रहाः
॥२६॥सत्ययुक्ता भवन्त्यत्र वीतरागा गतस्पृहाः ।
दृष्टान्तदर्शनार्थाय निर्मितास्ते च तादृशाः
॥२७॥अन्यत्सर्वं शबलितं गुणैरेभिस्त्रिभिनृप ।
नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम
॥२८॥धर्मशास्त्रेषु चाङ्गेषु सगुणै रचितेष्विह ।
सगुणः सगुणं कुर्यान्निर्गुणो न करोति वै
॥२९॥गुणास्ते मिश्रिताः सर्वे न पृथग्भावसङ्गताः ।
निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा
॥३०॥भवोद्भवे महाराज मायया मोहितस्य वै ।
इन्द्रियाणि प्रमाथीनि तदासक्तं मनस्तथा
॥३१॥करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् ।
ब्रह्मादिस्तम्बपर्यन्ताः प्राणिनः स्थिरजङ्गमाः
॥३२॥सर्वे मायावशा राजन् सानुक्रीडति तैरिह ।
सर्वान्वै मोहयत्येषा विकुर्वत्यनिशं जगत्
॥३३॥असत्यो जायते राजन्कार्यवान्प्रथमं नरः ।
इन्द्रियार्थांश्चिन्तयानो न प्राप्नोति यदा नरः
॥३४॥तदर्थं छलमादत्ते छलात्पापे प्रवर्तते ।
कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः
॥३५॥कृताकृतं न जानन्ति प्राणिनस्तद्वशं गताः ।
विभवे सत्यहङ्कारः प्रबलः प्रभवत्यपि
॥३६॥अहङ्काराद्भवेन्मोहो मोहान्मरणमेव च ।
सङ्कल्पा बहवस्तत्र विकल्पाः प्रभवन्ति च
॥३७॥ईर्ष्यासूया तथा द्वेषः प्रादुर्भवति चेतसि ।
आशा तृष्णा तथा दैन्यं दम्भोऽधर्ममतिस्तथा
॥३८॥प्राणिनां प्रभवन्त्येते भावा मोहसमुद्भवाः ।
यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा
॥३९॥अहङ्काराभिभूतस्तु करोति पुरुषोऽन्वहम् ।
अहंभावकृतं सर्वं प्रभवेद्वै न शौचवत्
॥४०॥रागलोभात्कृतं कर्म सर्वाङ्गं शुद्धिवर्जितम् ।
प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या विबुधैः किल
॥४१॥अद्रोहेणार्जितं द्रव्यं प्रशस्तं धर्मकर्मणि ।
द्रोहार्जितेन द्रव्येण यत्करोति शुभं नरः
॥४२॥विपरीतं भवेत्तत्तु फलकाले नृपोत्तम ।
मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत्
॥४३॥तस्मिन्विकारयुक्ते तु न यथार्थफलं लभेत् ।
कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः
॥४४॥स्युस्ते विशुद्धमनसस्तदा पूर्णं भवेत्फलम् ।
देशकालक्रियाद्रव्यकर्तॄणां शुद्धता यदि
॥४५॥मन्त्राणां च तदा पूर्णं कर्मणां फलमश्नुते ।
शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा
॥४६॥करोति सुकृतं तद्वद्विपरीतं भवेत्किल ।
स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम्
॥४७॥दैवाधीनः सदा कुर्यात्पापमेव न सत्कृतम् ।
प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्भवाः
॥४८॥सर्वे ते स्वार्थनिरताः परस्परविरोधिनः ।
सत्त्वोद्भवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः
॥४९॥रजोद्भवास्तामसास्तु तिर्यंचः परिकीर्तिताः ।
सत्त्वोद्भवानां तैर्वैरं परस्परमनारतम्
॥५०॥तिरश्चामत्र किं चित्रं जातिवैरसमुद्भवे ।
सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा
॥५१॥असन्तुष्टा द्वेषपराः परस्परविरोधिनः ।
अहङ्कारसमुद्भूतः संसारोऽयं यतो नृप
॥५२॥रागद्वेषविहीनस्तु स कथं जायते नृप
॥५३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे अधमजगतः स्थितिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥