मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १८

3
चतुर्थस्कन्धः · 18

ब्रह्माणं प्रति विष्णुवाक्यम्

व्यास उवाच

शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् ।

अवतारकारणं चैव देव्याश्चरितमद्भुतम्

॥१॥

धरैकदा भराक्रान्ता रुदती चातिकर्शिता ।

गोरूपधारिणी दीना भीतागच्छत्त्रिविष्टपम्

॥२॥

पृष्टा शक्रेण किं तेऽद्य वर्तते भयमित्यथ ।

केन वै पीडितासि त्वं किं ते दुःखं वसुन्धरे

॥३॥

तच्छ्रुत्वेला तदोवाच शृणु देवेश मेऽखिलम् ।

दुःखं पृच्छसि यत्त्वं मे भाराक्रान्तोऽस्मि मानद

॥४॥

जरासन्धो महापापी मागधेषु पतिर्मम ।

शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान्

॥५॥

रुक्मी च बलवान्कंसो नरकश्च महाबलः ।

शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सकौ

॥६॥

सर्वे धर्मविहीनाश्च परस्परविरोधिनः ।

पापाचारा मदोन्मत्ताः कालरूपाश्च पार्थिवाः

॥७॥

तैरहं पीडिता शक्र भाराक्रान्ताक्षमा विभो ।

किं करोमि क्व गच्छामि चिन्ता मे महती स्थिता

॥८॥

पीडिताहं वराहेण विष्णुना प्रभविष्णुना ।

शक्र जानीहि हरिणा दुःखाद्दुःखतरं गता

॥९॥

यतोऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै ।

हृताहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे

॥१०॥

तदा सूकररूपेण विष्णुना निहतोऽप्यसौ ।

उद्धृताहं वराहेण स्थापिता हि स्थिरा कृता

॥११॥

नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी ।

न शक्तास्म्यद्य देवेश भारं वोढुं दुरात्मनाम्

॥१२॥

अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः ।

तदाहं पीडिता शक्र गन्तास्म्याशु रसातलम्

॥१३॥

तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च ।

पारदो भव भारं मे हर पादौ नमामि ते

॥१४॥

इंद्र उवाच

इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज ।

अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति

॥१५॥

तच्छ्रुत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा ।

शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः

॥१६॥

सुरभीमागतां तत्र दृष्ट्वोवाच प्रजापतिः ।

महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम्

॥१७॥

कस्माद्रुदसि कल्याणि किं ते दुःखं वदाधुना ।

पीडितासि च केन त्वं पापाचारेण भूर्वद

॥१८॥

धरोवाच

कलिरायाति दुष्टोऽयं बिभेमि तद्भयादहम् ।

पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते

॥१९॥

राजानश्च दुराचाराः परस्परविरोधिनः ।

चौरकर्मरताः सर्वे राक्षसाः पूर्णवैरिणः

॥२०॥

तान्हत्वा नृपतीन्भारं हर मेऽद्य पितामह ।

पीडितास्मि महाराज सैन्यभारेण भूभृताम्

॥२१॥

ब्रह्योवाच

नाहं शक्तस्तथा देवि भारावतरणे तव ।

गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः

॥२२॥

स ते भारापनोदं वै करिष्यति जनार्दनः ।

पूर्वं मयापि ते कार्यं चिन्तितं सुविचार्य च

॥२३॥

तत्र गच्छ सुरश्रेष्ठ यत्र देवो जनार्दनः ।

व्यास उवाच ।

इत्युक्त्वा वेदकर्तासौ पुरस्कृत्य सुरांश्च गाम्

॥२४॥

जगाम विष्णुसदनं हंसारूढश्चतुर्मुखः ।

तुष्टाव वेदवाक्यैश्च भक्तिप्रवणमानसः

॥२५॥

ब्रह्मोवाच

सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् ।

त्वं वेदपुरुषः पूर्वं देवदेवः सनातनः

॥२६॥

भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो ।

अमरत्वं त्वया दत्तमस्माकं च रमापते

॥२७॥

एतावान्महिमा तेऽस्ति को न वेत्ति जगत्त्रये ।

त्वं कर्ताप्यविता हन्ता त्वं सर्वगतिरीश्वरः

॥२८॥

व्यास उवाच

इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडध्वजः ।

दर्शनञ्च ददौ तेभ्यो ब्रह्मादिभ्योऽमलाशयः

॥२९॥

पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः ।

ततस्त्वागमने तेषां कारणञ्च सविस्तरम्

॥३०॥

तमुवाचाब्जजो नत्वा धरादुःखञ्च संस्मरन् ।

भारावतरणं विष्णो कर्तव्यं ते जनार्दन

॥३१॥

भुवि धृत्वावतारं त्वं द्वापरान्ते समागते ।

हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे

॥३२॥

विष्णुरुवाच

नाहं स्वतन्त्र एवात्र न ब्रह्मा न शिवस्तथा ।

नेन्द्रोऽग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा

॥३३॥

योगमायावशे सर्वमिदं स्थावरजङ्गमम् ।

ब्रह्मादिस्तम्बपर्यन्तं ग्रथितं गुणसूत्रतः

॥३४॥

यथा सा स्वेच्छया पूर्वं कर्तुमिच्छति सुव्रत ।

तथा करोति सुहिता वयं सर्वेऽपि तद्वशाः

॥३५॥

यद्यहं स्यां स्वतन्त्रो वै चिन्तयन्तु धिया किल ।

कुतोऽभवं मत्स्यवपुः कच्छपो वा महार्णवे

॥३६॥

तिर्यग्योनिषु को भोगः का कीर्तिः किं सुखं पुनः ।

किं पुण्यं किं फलं तत्र क्षुद्रयोनिगतस्य मे

॥३७॥

कोलो वाथ नृसिंहो वा वामनो वाभवं कुतः ।

जमदग्निसुतः कस्मात्सम्भवेयं पितामह

॥३८॥

नृशंसं वा कथं कर्म कृतवानस्मि भूतले ।

क्षतजैस्तु ह्रदान्सर्वान्पूरयेयं कथं पुनः

॥३९॥

तत्कथं जमदग्नेश्च पुत्रो भूत्वा द्विजोत्तमः ।

क्षत्रियान्हतवानाजौ निर्दयो गर्भगानपि

॥४०॥

रामो भूत्वाथ देवेन्द्र प्राविशद्दण्डकं वनम् ।

पदातिश्चीरवासाश्च जटावल्कलवान्पुनः

॥४१॥

असहायो ह्यपाथेयो भीषणे निर्जने वने ।

कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः

॥४२॥

न ज्ञातवान्मृगं हैमं मायया पिहितस्तदा ।

उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः

॥४३॥

लक्ष्मणोऽपि च तां त्यक्त्वा निर्गतो मत्पदानुगः ।

वारितोऽपि मयात्यर्थं मोहितः प्राकृतैर्गुणैः

॥४४॥

भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः ।

जहार तरसा रक्षो जानकीं शोककर्शिताम्

॥४५॥

दुःखार्तेन मया तत्र रुदितञ्च वने वने ।

सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया

॥४६॥

अन्यायेन हतो वाली शापाच्चैव निवारितः ।

सहायान्वानरान् कृत्वा लङ्कायां चलितः पुनः

॥४७॥

बद्धोऽहं नागपाशैश्च लक्ष्मणश्च ममानुजः ।

विसंज्ञौ पतितौ दृष्ट्वा वानरा विस्मयं गताः

॥४८॥

गरुडेन तदाऽऽगत्य मोचितौ भ्रातरौ किल ।

चिन्ता मे महती जाता दैवं किं वा करिष्यति

॥४९॥

हृतं राज्यं वने वासो मृतस्तातः प्रिया हृता ।

युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति

॥५०॥

प्रथमं तु महद्दुःखमराज्यस्य वनाश्रयम् ।

राजपुत्र्यान्वितस्यैव धनहीनस्य मे सुराः

॥५१॥

वराटिकापि पित्रा मे न दत्ता वननिर्गमे ।

पदातिरसहायोऽहं धनहीनश्च निर्गतः

॥५२॥

चतुर्दशैव वर्षाणि नीतानि च तदा मया ।

क्षात्रं धर्मं परित्यज्य व्याधवृत्त्या महावने

॥५३॥

दैवाद्युद्धे जयः प्राप्तो निहतोऽसौ महासुरः ।

आनीता च पुनः सीता प्राप्तायोध्या मया तथा

॥५४॥

वर्षाणि कतिचित्तत्र सुखं संसारसम्भवम् ।

प्राप्तं राज्यञ्च सम्पूर्णं कोसलानधितिष्ठता

॥५५॥

पुरैवं वर्तमानेन प्राप्तराज्येन वै तदा ।

लोकापवादभीतेन त्यक्ता सीता वने मया

॥५६॥

कान्ताविरहजं दुःखं पुनः प्राप्तं दुरासदम् ।

पातालं सा गता पश्चाद्धरां भित्त्वा धरात्मजा

॥५७॥

एवं रामावतारेऽपि दुःखं प्राप्तं निरन्तरम् ।

परतन्त्रेण मे नूनं स्वतन्त्रः को भवेत्तदा

॥५८॥

पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह ।

परतन्त्रस्य का वार्ता वक्तव्या विबुधेन वै

॥५९॥

परतन्त्रोऽत्म्यहं नूनं पद्मयोने निशामय ।

तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः

॥६०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां चतुर्थस्कन्धे ब्रह्माणं प्रति विष्णुवाक्यं नामाष्टादशोऽध्यायः ॥ १८ ॥