मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १५

3
चतुर्थस्कन्धः · 15

देवीकथनेन दानवानां रसातलं प्रति गमनम्

व्यास उवाच

इति तस्य वचः श्रुत्वा भार्गवस्य महात्मनः ।

प्रह्लादस्तु सुसंहृष्टो बभूव नृपनन्दनः

॥१॥

ज्ञात्वा दैवं बलिष्ठञ्च प्रह्लादस्तानुवाच ह ।

कृतेऽपि युद्धे न जयो भविष्यति कदाचन

॥२॥

तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः ।

संग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे

॥३॥

निरुद्यमानां दैवं हि प्रधानमसुराधिप ।

केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम्

॥४॥

तस्माद्युद्धं करिष्यामो बलमास्थाय साम्प्रतम् ।

भवाग्रे दैत्यवर्य त्वं सर्वज्ञोऽसि महामते

॥५॥

इत्युक्तस्तैस्तदा राजन् प्रह्लादः प्रबलारिहा ।

सेनानीश्च तदा भूत्वा देवान्युद्धे समाह्वयत्

॥६॥

तेऽपि तत्रासुरान्दृष्ट्वा संग्रामे समुपस्थितान् ।

सर्वे सम्भृतसम्भारा देवास्तान्समयोधयन्

॥७॥

संग्रामस्तु तदा घोरः शक्रप्रह्लादयोरभूत् ।

पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः

॥८॥

वर्तमाने महायुद्धे शुक्रेण प्रतिपालिताः ।

जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप

॥९॥

तदैवेन्द्रो गुरोर्वाक्यात्सर्वदुःखविनाशिनीम् ।

सस्मार मनसा देवीं मुक्तिदां परमां शिवाम्

॥१०॥

इन्द्र उवाच

जय देवि महामाये शूलधारिणि चाम्बिके ।

शङ्खचक्रगदापद्मखड्गहस्तेऽभयप्रदे

॥११॥

नमस्ते भुवनेशानि शक्तिदर्शननायिके ।

दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि

॥१२॥

महाकुण्डलिनीरूपे सच्चिदानन्दरूपिणि ।

प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके

॥१३॥

पञ्चकोशान्तरगते पुच्छब्रह्मस्वरूपिणि ।

आनन्दकलिके मातः सर्वोपनिषदर्चिते

॥१४॥

मातः प्रसीद सुमुखी भव हीनसत्त्वां- स्त्रायस्व नो जननि दैत्यपराजितान् वै ।

त्वं देवि नः शरणदा भुवने प्रमाणा शक्तासि दुःखशमनेऽखिलवीर्ययुक्ते

॥१५॥

ध्यायन्ति येऽपि सुखिनो नितरां भवन्ति दुःखान्विताविगतशोकभयास्तथान्ये ।

मोक्षार्थिनो विगतमानविमुक्तसङ्गाः संसारवारिधिजलं प्रतरन्ति सन्तः

॥१६॥

त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमुदितार्तिहरप्रतापा ।

संहर्तुमेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मन्दबुद्धिः

॥१७॥

ब्रह्मा हरश्च हरिदश्वरथो हरिश्च इन्द्रो यमोऽथ वरुणोऽग्निसमीरणौ च ।

ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्च

॥१८॥

धन्यास्त एव तव भक्तिपरा महान्तः संसारदुःखरहिताः सुखसिन्धुमग्नाः ।

ये भक्तिभावरहिता न कदापि दुःखा- ।

म्भोधिं जनिक्षयतरङ्गमुमे तरन्ति

॥१९॥

ये वीज्यमानाः सितचामरैश्च क्रीडन्ति धन्याः शिबिकाधिरूढाः ।

तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि

॥२०॥

ये पूज्यमाना वरवारणस्था विलासिनीवृन्दविलासयुक्ताः ।

सामन्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजितासि

॥२१॥

व्यास उवाच

एवं स्तुता मघवता देवी विश्वेश्वरी तदा ।

प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा

॥२२॥

शङ्खचक्रगदापद्मान्बिभ्रती चारुलोचना ।

रक्ताम्बरधरा देवी दिव्यमाल्यविभूषणा

॥२३॥

तानुवाच सुरान्देवी प्रसन्नवदना गिरा ।

भयं त्यजन्तु भो देवाः शं विधास्ये किलाधुना

॥२४॥

इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी ।

जगाम तरसा तत्र यत्र दैत्या मदान्विताः

॥२५॥

प्रह्लादप्रमुखाः सर्वे दृष्ट्वा देवीं पुरःस्थिताम् ।

ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा

॥२६॥

देवं नारायणं चात्र सम्प्राप्ता चण्डिका किल ।

महिषान्तकरी नूनं चण्डमुण्डविनाशिनी

॥२७॥

निहनिष्यति नः सर्वानम्बिका नात्र संशयः ।

वक्रदृष्ट्या यया पूर्वं निहतौ मधुकैटभौ

॥२८॥

एवं चिन्तातुरान्वीक्ष्य प्रह्लादस्तानुवाच ह ।

योद्धव्यं नाथ गन्तव्यं पलाय्य दानवोत्तमाः

॥२९॥

नमुचिस्तानुवाचाथ पलायनपरानिह ।

हनिष्यति जगन्माता रुषिता किल हेतिभिः

॥३०॥

तथा कुरु महाभाग यथा दुःखं न जायते ।

व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया

॥३१॥

प्रह्लाद उवाच

स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् ।

सर्वेषां जननीं शक्तिं भक्तानामभयङ्करीम्

॥३२॥

व्यास उवाच

इत्युक्त्या विष्णुभक्तस्तु प्रह्लादः परमार्थवित् ।

तुष्टाव जगतां धात्रीं कृताञ्जलिपुटस्तदा

॥३३॥

मालासर्पवदाभाति यस्यां सर्वं चराचरम् ।

सर्वाधिष्ठानरूपायै तस्यै ह्रींमूर्तये नमः

॥३४॥

त्वत्तः सर्वमिदं विश्वं स्थावरं जङ्गमं तथा ।

अन्ये निमित्तमात्रास्ते कर्तारस्तव निर्मिताः

॥३५॥

नमो देवि महामाये सर्वेषां जननी स्मृता ।

को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च

॥३६॥

मातुः पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च ।

तथैव देवेष्वस्मासु न कर्तव्यस्त्वयाधुना

॥३७॥

यादृशास्तादृशा मातः सुतास्ते दानवाः किल ।

यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता

॥३८॥

तेऽपि स्वार्थपरा नूनं यथैव वयमप्युत ।

नान्तरं दैत्यसुरयोर्भेदोऽयं मोहसम्भवः

॥३९॥

धनदारादिभोगेषु वयं सक्ता दिवानिशम् ।

तथैव देवा देवेशि को भेदोऽसुरदेवयोः

॥४०॥

तेऽपि कश्यपदायादा वयं तत्सम्भवाः किल ।

कुतो विरोधसम्भूतिर्जाता मातस्तवाधुना

॥४१॥

न तथा विहितं मातस्त्वयि सर्वसमुद्भवे ।

साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि

॥४२॥

गुणव्यतिकरात्सर्वे समुत्पन्नाः सुरासुराः ।

गुणान्विता भवेयुस्ते कथं देहभृतोऽमराः

॥४३॥

कामः क्रोधश्च लोभश्च सर्वदेहेषु संस्थिताः ।

वर्तन्ते सर्वदा तस्मात् कोऽविरोधी भवेञ्चनः

॥४४॥

त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात् ।

मन्यामहे विभेदेन नूनं युद्धदिदृक्षया

॥४५॥

अन्यथा खलु भ्रातॄणां विरोधः कीदृशोऽनघे ।

त्वं चेन्नेच्छसि चामुण्डे वीक्षितुं कलहं किल

॥४६॥

जानामि धर्मं धर्मज्ञे वेद्मि चाहं शतक्रतुम् ।

तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा

॥४७॥

एकः कोऽपि न शास्तास्ति संसारे त्वां विनाम्बिके ।

स्पृहावतस्तु कः कर्तुं क्षमते वचनं बुधः

॥४८॥

देवासुरैरयं सिन्धुर्मथितः समये क्वचित् ।

विष्णुना विहितो भेदः सुधारत्नच्छलेन वै

॥४९॥

त्वयासौ कल्पितः शौरिः पालकत्वे जगद्गुरुः ।

तेन लक्ष्मीः स्वयं लोभाद् गृहीतामरसुन्दरी

॥५०॥

ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक् ।

उच्चैःश्रवाः सुरैः सर्वं गृहीतं वैष्णवेच्छया

॥५१॥

अनयं तादृशं कृत्वा जाता देवास्तु साधवः ।

(अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ।

) ।

संस्थापिताः सुरा नूनं विष्णुना बहुमानिना

॥५२॥

नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम् ।

क्व धर्मः कीदृशो धर्मः क्व कार्यं क्व च साधुता

॥५३॥

कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् ।

तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः

॥५४॥

उक्ताः सकर्तृकं विश्वं विवदन्ते जडात्मकाः ।

कर्ता भवति चेदस्मिन्संसारे वितते किल

॥५५॥

विरोधः कीदृशस्तत्र चैककर्मणि वै मिथः ।

वेदे नैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः

॥५६॥

नैकवाक्यं वचस्तेषामपि वेदविदां पुनः ।

यतः स्वार्थपरं सर्वं जगत्स्थावरजङ्गमम्

॥५७॥

निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति ।

शशिनाथ गुरोर्भार्या हृता ज्ञात्वा बलादपि

॥५८॥

गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम् ।

गुरुणानुजभार्या च भुक्ता गर्भवती बलात्

॥५९॥

शप्तो गर्भगतो बालः कृतश्चान्धस्तथा पुनः ।

विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात्

॥६०॥

अपराधं विना कामं तदा सत्त्ववताम्बिके ।

पौत्रो धर्मवतां शूरः सत्यव्रतपरायणः

॥६१॥

यज्वा दानपतिः शान्तः सर्वज्ञः सर्वपूजकः ।

कृत्वाथ वामनं रूपं हरिणा छलवेदिना

॥६२॥

वञ्चितोऽसौ बलिः सर्वं हृतं राज्यं पुरा किल ।

तथापि देवान्धर्मस्थान्प्रवदन्ति मनीषिणः

॥६३॥

वदन्ति चाटुवादांश्च धर्मवादाज्जयं गताः ।

एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु

॥६४॥

शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः ।

श्रीदेव्युवाच ।

सर्वे गच्छत पातालं तत्र वासं यथेप्सितम्

॥६५॥

कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः ।

कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे

॥६६॥

सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा ।

त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम्

॥६७॥

कृतेऽपि न सुखं पूर्णं सस्पृहाणां फलैरपि ।

तस्मात्त्यक्त्वा महीमेतां प्रयान्त्वद्य महीतलम्

॥६८॥

ममाज्ञां पुरतः कृत्वा सर्वे विगतकल्मषाः ।

व्यास उवाच ।

तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम्

॥६९॥

प्रणम्य दानवाः सर्वे गताः शक्त्याभिरक्षिताः ।

अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः

॥७०॥

त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः ।

एतदाख्यानमखिलं यः शृणोति वदत्यथ

॥७१॥

सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम्

॥७२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे देवीकथनेन दानवानां रसातलं प्रति गमनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥