मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय ७

3
चतुर्थस्कन्धः · 7

अहङ्कारावर्तनवर्णनम्

व्यास उवाच

इत्याकर्ण्य वचस्तासां धर्मपुत्रः प्रतापवान् ।

विमर्शमकरोच्चित्ते किं कर्तव्यं मयाधुना

॥१॥

हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य सङ्गमात् ।

अहंकारादिदं प्राप्तं दुःखं नात्र विचारणा ।

मूलं धर्मविनाशस्य प्रथमं यदहङ्कृतिः

॥२॥

मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मभिः ।

दृष्ट्वा मौनं समाधाय न स्थितोऽहं समागतम्

॥३॥

वाराङ्गनागणं जुष्टं तेनासं दुःखभाजनम् ।

उत्पादितास्तथा नार्यो मया धर्मव्ययेन वै

॥४॥

तास्तु मां बाधितुं वृत्ताः कामार्ताः प्रमदोत्तमाः ।

ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै

॥५॥

बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् ।

यदि चिन्तां समुत्सृज्य सन्त्यजाम्यबला इमाः

॥६॥

शप्त्वा भ्रष्टा व्रजिष्यन्ति सर्वा भग्नमनोरथाः ।

मुक्तोऽहं सञ्चरिष्यामि विजने परमं तपः

॥७॥

तस्मात्क्रोधं समुत्पाद्य त्यक्ष्यामि सुन्दरीगणम् ।

व्यास उवाच ।

इति सञ्चिन्त्य मनसा मुनिर्नारायणस्तदा

॥८॥

विमर्शमकरोच्चित्ते सुखोत्पादनसाधने ।

द्वितीयोऽयं महाशत्रुः क्रोधः सन्तापकारकः

॥९॥

कामादप्यधिको लोके लोभादपि च दारुणः ।

क्रोधाभिभूतः कुरुते हिंसां प्राणविघातिनीम्

॥१०॥

दुःखदां सर्वभूतानां नरकारामदीर्घिकाम् ।

यथाग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा

॥११॥

देहोत्पन्नस्तथा क्रोधो देहं दहति दारुणः ।

व्यास उवाच ।

इति सञ्चिन्त्यमानं तं भ्रातरं दीनमानसम्

॥१२॥

उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः ।

नर उवाच ।

नारायण महाभाग कोपं यच्छ महामते

॥१३॥

शान्तं भावं समाश्रित्य नाशयाहङ्कृतिं पराम् ।

पुराहङ्कारदोषेण तपो नष्टं किलावयोः

॥१४॥

संग्रामश्चाभवत्ताभ्यां भावाभ्यामसुरेण ह ।

दिव्यवर्षसहस्रं तु प्रह्लादेन महाद्भुतम्

॥१५॥

दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम ।

तस्मात्क्रोधं परित्यज्य शान्तो भव मुनीश्वर

॥१६॥

( शान्तत्वं तपसो मूलं मुनिभिः परिकीर्तितम् ।

) ।

व्यास उवाच ।

इति तस्य वचः श्रुत्वा शान्तोऽभूद्धर्मनन्दनः ।

जनमेजय उवाच ।

संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना

॥१७॥

विष्णुभक्तेन शान्तेन कथं युद्धं कृतं पुरा ।

कृतवन्तौ कथं युद्धं नरनारायणावृषी

॥१८॥

तापसौ धर्मपुत्रौ द्वौ सुशान्तमानसावुभौ ।

समागमः कथं जातस्तयोर्दैत्यसुतस्य च

॥१९॥

संग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना ।

प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः

॥२०॥

नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ ।

तेन ताभ्यां समुद्भूतं वैरं यदि परस्परम्

॥२१॥

तदा तपसि धर्मे च श्रम एव हि केवलम् ।

क्व जपः क्व तपश्चर्या पुरा सत्ययुगेऽपि च

॥२२॥

तादृशैर्न जितं चित्तं क्रोधाहङ्कारसंवृतम् ।

न क्रोधो न च मात्सर्यमहङ्कारांकुरं विना

॥२३॥

अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल ।

वर्षकोटिसहस्रं तु तपः कृत्वातिदारुणम्

॥२४॥

अहङ्कारांकुरे जाते व्यर्थं भवति सर्वथा ।

यथा सूर्योदये जाते तमोरूपं न तिष्ठति

॥२५॥

अहङ्कारांकुरस्याग्रे तथा पुण्यं न तिष्ठति ।

प्रह्लादोऽपि महाभाग हरिणा समयुध्यत

॥२६॥

तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले ।

नरनारायणौ शान्तौ विहाय परमं तपः

॥२७॥

कृतवन्तौ यदा युद्धं क्व शमः सुकृतं पुनः ।

ईदृग्भ्यां सत्त्वयुक्ताभ्यामजेया यद्यहङ्कृतिः

॥२८॥

मादृशानाञ्ज का वार्ता मुनेऽहङ्कारसंक्षये ।

अहङ्कारपरित्यक्तो न कोऽप्यस्ति जगत्त्रये

॥२९॥

न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा ।

मुच्यते लोहनिगडैर्बद्धः काष्ठमयैस्तथा

॥३०॥

अहङ्कारनिबद्धस्तु न कदाचिद्विमुच्यते ।

अहङ्कारावृतं सर्वं जगत्स्थावरजङ्गमम्

॥३१॥

भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते ।

ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते

॥३२॥

मतं मीमांसकानां वै सम्मतं भाति सुव्रत ।

महान्तोऽपि सदा युक्ताः कामक्रोधादिभिर्मुने

॥३३॥

मादृशानां कलावस्मिन्का कथा मुनिसत्तम ।

व्यास उवाच ।

कार्यं वै कारणाद्भिन्नं कथं भवति भारत

॥३४॥

कटकं कुण्डलञ्चैव सुवर्णसदृशं भवेत् ।

अहङ्कारोद्भवं सर्वं ब्रह्माण्डं सचराचरम्

॥३५॥

पटस्तन्तुवशः प्रोक्तस्तद्वियुक्तः कथं भवेत् ।

मायागुणैस्त्रिभिः सर्वं रचितं स्थिरजङ्गमम्

॥३६॥

सतृणस्तम्बपर्यन्तं का तत्र परिदेवना ।

ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहङ्कारमोहिताः

॥३७॥

भ्रमन्त्यस्मिन्महागाधे संसारे नृपसत्तम ।

वसिष्ठनारदाद्याश्च मुनयो ज्ञानिनः परम्

॥३८॥

तेऽभिभूताः संसरन्ति संसारेऽस्मिन्पुनः पुनः ।

न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेषु देहभृत्

॥३९॥

एभिर्मायागुणैर्मुक्तः शान्त आत्मसुखे स्थितः ।

कामक्रोधौ तथा लोभो मोहोऽहङ्कारसम्भवः

॥४०॥

न मुञ्चन्ति नरं सर्वं देहवन्तं नृपोत्तम ।

अधीत्य वेदशास्त्राणि पुराणानि विचिन्त्य च

॥४१॥

कृत्वा तीर्थाटनं दानं ध्यानञ्चैव सुरार्चनम् ।

करोति विषयासक्तः सर्वं कर्म च चौरवत्

॥४२॥

विचारयति नो पूर्वं काममोहमदान्वितः ।

कृते युगेऽपि त्रेतायां द्वापरे कुरुनन्दन

॥४३॥

विद्धोऽत्रास्ति च धर्मोऽपि का कथाद्य कलौ पुनः ।

स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा

॥४४॥

एवंविधोऽस्ति संसारो नात्र कार्या विचारणा ।

साधवो विरला लोके भवन्ति गतमत्सराः

॥४५॥

जितक्रोधा जितामर्षा दृष्टान्तार्थं व्यवस्थिताः ।

राजोवाच ।

ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः

॥४६॥

जितेन्द्रियाः सदाचारा जितं तैर्भुवनत्रयम् ।

दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः

॥४७॥

कृतस्तपस्विनः कण्ठे मृतसर्पो ह्यघं विना ।

अतस्तस्य मुनिश्रेष्ठ भविता किं ममाग्रतः

॥४८॥

न जाने बुद्धिसम्मोहात्किं वा कार्यं भविष्यति ।

मधु पश्यति मूढात्मा प्रपातं नैव पश्यति

॥४९॥

करोति निन्दितं कर्म नरकान्न बिभेति च ।

कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे

॥५०॥

प्रह्लादेन यथा चोग्रं नरनारायणस्य वै ।

प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे

॥५१॥

सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे ।

नरनारायणौ शान्तौ तापसौ मुनिसत्तमौ

॥५२॥

कृतवन्तौ तथा युद्धं हेतुना केन मानद ।

वैरं भवति वित्तार्थं दारार्थं वा परस्परम्

॥५३॥

एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् ।

प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ

॥५४॥

कृतवान्स कथं युद्धं नरनारायणौ मुनी ।

एतद्विस्तरतो ब्रह्मञ्छ्रोतुमिच्छामि कारणम्

॥५५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे अहङ्कारावर्तनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥