मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २

3
चतुर्थस्कन्धः · 2

कर्मणो जन्मादिकारणत्वनिरूपणम्

सूत उवाच

एवं पृष्टः पुराणज्ञो व्यासः सत्यवतीसुतः ।

परीक्षितसुतं शान्तं ततो वै जनमेजयम्

॥१॥

उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः ।

व्यास उवाच ।

राजन् किमेतद्वक्तव्यं कर्मणां गहना गतिः

॥२॥

दुर्ज्ञेया किल देवानां मानवानां च का कथा ।

यदा समुत्थितं चैतद्ब्रह्माण्डं त्रिगुणात्मकम्

॥३॥

कर्मणैव समुत्पत्तिः सर्वेषां नात्र संशयः ।

अनादिनिधना जीवाः कर्मबीजसमुद्भवाः

॥४॥

नानायोनिषु जायन्ते म्रियन्ते च पुनः पुनः ।

कर्मणा रहितो देहसंयोगो न कदाचन

॥५॥

शुभाशुभैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् ।

त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये

॥६॥

सञ्चितानि भविष्यन्ति प्रारब्धानि तथा पुनः ।

वर्तमानानि देहेऽस्मिंस्त्रैविध्यं कर्मणां किल

॥७॥

ब्रह्मादीनां च सर्वेषां तद्वशत्वं नराधिप ।

सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा

॥८॥

कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः ।

दैवाधीनाश्च सर्वेषां प्रभवन्ति नराधिप

॥९॥

रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवन्ति हि ।

देवानां मानवानाञ्च तिरश्चां च तथा पुनः

॥१०॥

विकाराः सर्व एवैते देहेन सह सङ्गताः ।

पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः

॥११॥

उत्पत्तिः सर्वजन्तूनां विना कर्म न विद्यते ।

कर्मणा भ्रमते सूर्यः शशाङ्कः क्षयरोगवान्

॥१२॥

कपाली च तथा रुद्रः कर्मणैव न संशयः ।

अनादिनिधनं चैतत्कारणं कर्म विद्यते

॥१३॥

तेनेह शाश्वतं सर्वं जगत्स्थावरजङ्गमम् ।

नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा

॥१४॥

न जानन्ति किमेतद्वै नित्यं वानित्यमेव च ।

मायायां विद्यमानायां जगन्नित्यं प्रतीयते

॥१५॥

कार्याभावः कथं वाच्यः कारणे सति सर्वथा ।

माया नित्या कारणञ्च सर्वेषां सर्वदा किल

॥१६॥

कर्मबीजं ततोऽनित्यं चिन्तनीयं सदा बुधैः ।

भ्रमत्येव जगत्सर्वं राजन्कर्मनियन्त्रितम्

॥१७॥

नानायोनिषु राजेन्द्र नानाधर्ममयेषु च ।

इच्छया च भवेञ्चन्म विष्णोरमिततेजसः

॥१८॥

युगे युगेष्वनेकासु नीचयोनिषु तत्कथम् ।

त्यक्त्वा वैकुण्ठसंवासं सुखभोगाननेकशः

॥१९॥

विण्मूत्रमन्दिरे वासं संत्रस्तः कोऽभिवाञ्छति ।

पुष्पावचयलीलां च जलकेलिं सुखासनम्

॥२०॥

त्यक्त्वा गर्भगृहे वासं कोऽभिवाच्छति बुद्धिमान् ।

तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम्

॥२१॥

त्यक्त्वाधोमुखवासं च कोऽभिवाञ्छति पण्डितः ।

गीतं नृत्यञ्च वाद्यञ्च नानाभावसमन्वितम्

॥२२॥

मुक्त्वा को नरके वासं मनसापि विचिन्तयेत् ।

सिन्धुजाद्भुतभावानां रसं त्यक्त्वा सुदुस्त्वजम्

॥२३॥

विण्मूत्ररसपानञ्ज क इच्छेन्मतिमान्नरः ।

गर्भवासात्परो नास्ति नरको भुवनत्रये

॥२४॥

तद्भीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः ।

हित्वा भोगञ्च राज्यञ्च वने यान्ति मनस्विनः

॥२५॥

यद्भीतास्तु विमूढात्मा कस्तं सेवितुमिच्छति ।

गर्भे तुदन्ति कृमयो जठराग्निस्तपत्यधः

॥२६॥

वपासंवेष्टनं कूरं किं सुखं तत्र भूपते ।

वरं कारागृहे वासो बन्धनं निगडैर्वरम्

॥२७॥

अल्पमात्रं क्षणं नैव गर्भवासः क्वचिच्छुभः ।

गर्भवासे महद्दुःखं दशमासनिवासनम्

॥२८॥

तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे ।

बालभावे तदा दुःखं मूकाज्ञभावसंयुतम्

॥२९॥

क्षुतृष्णावेदनाशक्तः परतन्त्रोऽतिकातरः ।

क्षुधिते रुदिते बाले माता चिन्तातुरा तदा

॥३०॥

भेषजं पातुमिच्छन्ती ज्ञात्वा व्याधिव्यथां दृढाम् ।

नानाविधानि दुःखानि बालभावे भवन्ति वै

॥३१॥

किं सुखं विबुधा दृष्ट्वा जन्म वाञ्छन्ति चेच्छया ।

संग्रामममरैः सार्धं सुखं त्यक्त्वा निरन्तरम्

॥३२॥

कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् ।

सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः

॥३३॥

कृतकर्मविपाकेन प्राप्नुवन्ति सुखासुखे ।

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

देहवद्भिर्नृभिर्देवैस्तिर्यग्भिश्च नृपोत्तम

॥३४॥

तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत् ।

क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः

॥३५॥

रामावतारयोगेन देवा वानरतां गताः ।

तथा कृष्णसहायार्थं देवा यादवतां गताः

॥३६॥

एवं युगे युगे विष्णुरवताराननेकशः ।

करोति धर्मरक्षार्थं ब्रह्मणा प्रेरितो भृशम्

॥३७॥

पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव ।

अवतारा भवन्त्यन्ये रथचक्रवदद्भुताः

॥३८॥

दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम् ।

अंशांशेन पृथिव्यां वै कृत्वा जन्म महात्मना

॥३९॥

तदहं संप्रवक्ष्यामि कृष्णजन्मकथां शुभाम् ।

स एव भगवान्विष्णुरवतीर्णो यदोः कुले

॥४०॥

कश्यपस्य मुनेरंशो वसुदेवः प्रतापवान् ।

गोवृत्तिरभवद्राजन् पूर्वशापानुभावतः

॥४१॥

कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते ।

अदितिः सुरसा चैवमासतुः पृथिवीपते

॥४२॥

देवकी रोहिणी चोभे भगिन्यौ भरतर्षभ ।

वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम्

॥४३॥

राजोवाच

किं कृतं कश्यपेनागो येन शप्तो महानृषिः ।

सभार्यः स कथं जातस्तद्वदस्व महामते

॥४४॥

कथञ्च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले ।

वासी वैकुण्ठनिलये रमापतिरखण्डितः

॥४५॥

निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः ।

नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः

॥४६॥

स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे ।

करोति जननं कस्मादत्र मे संशयो महान्

॥४७॥

प्राप्य मानुषदेहं तु करोति च विडम्बनम् ।

भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि

॥४८॥

कामः क्रोधोऽमर्षशोकौ वैरं प्रीतिश्च कर्हिचित् ।

सुखं दुःखं भयं नॄणां दैन्यमार्जवमेव च

॥४९॥

दुष्कृतं सुकृतं चैव वचनं हननं तथा ।

पोषणं चलनं तापो विमर्शश्च विकत्थनम्

॥५०॥

लोभो दम्भस्तथा मोहः कपटः शोचनं तथा ।

एते चान्ये तथा भावा मानुष्ये सम्भवन्ति हि

॥५१॥

स कथं भगवान्विष्णुस्त्वक्त्या सुखमनश्वरम् ।

करोति मानुषं जन्म भावैस्तैस्तैरभिद्रुतम्

॥५२॥

किं सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर ।

किं निमित्तं हरिः साक्षाद्गर्भवासं करोति वै

॥५३॥

गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः ।

यौवने कामजं दुःखं गार्हस्त्येऽतिमहत्तरम्

॥५४॥

दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम ।

कथं स भगवान्विष्णुरवतारान्पुनः पुनः

॥५५॥

प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना ।

दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे

॥५६॥

सीताविरहजं दुःखं संग्रामश्च पुनः पुनः ।

कान्तात्यागोऽप्यनेनैवमनुभूतो महात्मना

॥५७॥

तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः ।

गोकुले गमनं चैव गवां चारणमित्युत

॥५८॥

कंसस्य हननं कष्टाद् द्वारकागमनं पुनः ।

नानासंसारदुःखानि भुक्तवान्भगवान् कथम्

॥५९॥

स्वेच्छया कः प्रतीक्षेत मुक्तो दुःखानि ज्ञानवान् ।

संशयं छिन्धि सर्वज्ञ मम चित्तप्रशान्तये

॥६०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां ॥ चतुर्थस्कन्धे कर्मणो जन्मादिकारणत्वनिरूपणं नाम द्वितीयोऽध्यायः ॥ २ ॥