प्रह्लादतीर्थयात्रावर्णनम्
सूत उवाच
इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै ।
उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः
॥१॥जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः ।
चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै
॥२॥तस्यैवोद्धरणार्थाय चकार सततं मनः ।
विप्रावमानपापेन यमलोकं गतस्य वै
॥३॥पुन्नामनरकाद्यस्मात्त्रायते पितरं स्वकम् ।
पुत्रेति नाम सार्थं स्यात्तेन तस्य मुनीश्वराः
॥४॥सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा ।
विप्रशापादौत्तरेयं स्नानदानविवर्जितम्
॥५॥पितुर्गतिं निशम्यासौ निर्वेदं गतवान्नृपः ।
पारीक्षितो महाभागः सन्तप्तो भयविह्वलः
॥६॥पप्रच्छाथ मुनिं व्यासं गृहागतमनिन्दितः ।
नरनारायणस्येमां कथां परमविस्मृताम्
॥७॥व्यास उवाच
स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप ।
अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः
॥८॥तस्मिञ्छासति दैत्येन्द्रे देवब्राह्मणपूजके ।
मखैर्भूमौ नृपतयो यजन्तः श्रद्धयान्विताः
॥९॥ब्राह्मणाश्च तपोधर्मतीर्थयात्राश्च कुर्वते ।
वैश्याश्च स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः
॥१०॥नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट् ।
राज्यं चकार तत्रैव प्रजापालनतत्परः
॥११॥कदाचिद् भृगुपुत्रोऽथ च्यवनाख्यो महातपाः ।
जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम्
॥१२॥रेवां महानदीं दृष्ट्वा ततस्तस्यामवातरत् ।
उत्तरन्तं प्रजग्राह नागो विषभयङ्करः
॥१३॥गृहीतो भयभीतस्तु पाताले मुनिसत्तमः ।
सस्मार मनसा विष्णुं देवदेवं जनार्दनम्
॥१४॥संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः ।
न प्राप च्यवनो दुःखं नीयमानो रसातलम्
॥१५॥द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशङ्किना ।
मां शपेत मुनिः कुद्धस्तापसोऽयं महानिति
॥१६॥चचार नागकन्याभिः पूजितो मुनिसत्तमः ।
विवेशाप्यथ नागानां दानवानां महत्पुरम्
॥१७॥कदाचिद्भृगुपुत्रं तं विचरन्तं पुरोत्तमे ।
ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः
॥१८॥दृष्ट्वा तं पूजयामास मुनिं दैत्यपतिस्तदा ।
पप्रच्छ कारणं किं ते पातालागमने वद
॥१९॥प्रेषितोऽसि किमिन्द्रेण सत्यं ब्रूहि द्विजोत्तम ।
दैत्यविद्वेषयुक्तेन मम राज्यदिदृक्षया
॥२०॥च्यवन उवाच
किं मे मघवता राजन् यदहं प्रेषितः पुनः ।
दूतकार्यं प्रकुर्वाणः प्राप्तवान्नगरे तव
॥२१॥विद्धि मां भृगुपुत्रं तं स्वनेत्रं धर्मतत्परम् ।
मा शङ्कां कुरु दैत्येन्द्र वासवप्रेषितस्य वै
॥२२॥स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम ।
नद्यामेवावतीर्णोऽहं गृहीतश्च महाहिना
॥२३॥जातोऽसौ निर्विषः सर्पो विष्णोः संस्मरणादिव ।
मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै
॥२४॥अत्रागतेन राजेन्द्र मयाप्तं तव दर्शनम् ।
विष्णुभक्तोऽसि दैत्येन्द्र तद्भक्तं मां विचिन्तय
॥२५॥व्यास उवाच
तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः ।
पप्रच्छ परया प्रीत्या तीर्थानि विविधानि च
॥२६॥प्रह्लाद उवाच
पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम ।
पाताले च तथाकाशे तानि नो वद विस्तरात्
॥२७॥च्यवन उवाच
मनोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे ।
तथा मलिनचित्तानां गङ्गापि कीकटाधिका
॥२८॥प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् ।
तदा तीर्थानि सर्वाणि पावनानि भवन्ति वै
॥२९॥गङ्गातीरे हि सर्वत्र वसन्ति नगराणि च ।
व्रजाश्चैवाकरा ग्रामाः सर्वे खेटास्तथापरे
॥३०॥निषादानां निवासाश्च कैवर्तानां तथापरे ।
हूणबङ्गखसानां च म्लेच्छानां दैत्यसत्तम
॥३१॥पिबन्ति सर्वदा गाङ्गं जलं ब्रह्मोपमं सदा ।
स्नानं कुर्वन्ति दैत्येन्द्र त्रिकालं स्वेच्छया जनाः
॥३२॥तत्रैकोऽपि विशुद्धात्मा न भवत्येव मारिष ।
किं फलं तर्हि तीर्थस्य विषयोपहतात्मसु
॥३३॥कारणं मन एवात्र नान्यद्राजन्विचिन्तय ।
मनःशुद्धिं प्रकर्तव्या सततं शुद्धिमिच्छता
॥३४॥तीर्थवासी महापापी भवेत्तत्रात्मवञ्चनात् ।
तत्रैवाचरितं पापमानन्त्याय प्रकल्पते
॥३५॥यथेन्द्रवारुणं पक्वं मिष्टं नैवोपजायते ।
भावदुष्टस्तथा तीर्थे कोटिस्तातो न शुध्यति
॥३६॥प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता ।
शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा
॥३७॥तथैवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति ।
अन्यथा तु कृतं सर्वं व्यर्थं भवति तत्क्षणात्
॥३८॥(हीनवर्णस्य संसर्गं तीर्थे गत्वा सदा त्यजेत् ।
) ।
भूतानुकम्पनं चैव कर्तव्यं कर्मणा धिया ।
यदि पृच्छसि राजेन्द्र तीर्थं वक्ष्याम्यनुत्तमम्
॥३९॥प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् ।
अन्येषां चैव तीर्थानां संख्या नास्ति महीतले
॥४०॥पावनानि च स्थानानि बहूनि नृपसत्तम ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं राजा नैमिषं गन्तुमुद्यतः
॥४१॥नोदयामास दैत्यान्वै हर्षनिर्भरमानसः ।
प्रह्लाद उवाच ।
उत्तिष्ठन्तु महाभागा गमिष्यामोऽद्य नैमिषम्
॥४२॥द्रक्ष्यामः पुण्डरीकाक्षं पीतवाससमच्युतम् ।
व्यास उवाच ।
इत्युक्ता विष्णुभक्तेन सर्वे ते दानवास्तदा
॥४३॥तेनैव सह पातालान्निर्ययुः परया मुदा ।
ते समेत्य च दैतेया दानवाश्च महाबलाः
॥४४॥नैमिषारण्यमासाद्य स्नानं चक्रुर्मुदान्विताः ।
प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः
॥४५॥सरस्वतीं महापुण्यां ददर्श विमलोदकाम् ।
तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः
॥४६॥मनः प्रसन्नं सञ्जातं स्नात्वा सारस्वते जले ।
विधिवत्तत्र दैत्येन्द्रः स्नानदानादिकं शुभे
॥४७॥चकारातिप्रसन्नात्मा तीर्थे परमपावने
॥४८॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ चतुर्थस्कन्धे प्रह्लादतीर्थयात्रावर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥