कंसेन देवकीप्रथमपुत्रवधवर्णनम्
व्यास उवाच
अथ काले तु सम्प्राप्ते देवकी देवरूपिणी ।
गर्भं दधार विधिवद्वसुदेवेन सङ्गता
॥१॥पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् ।
रूपावयवसम्पन्नं देवकी प्रथमं यदा
॥२॥तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः ।
भावित्वाच्च महाभागो देवकीं देवमातरम्
॥३॥वरोरु समयं मे त्वं जानासि स्वसुतार्पणे ।
मोचिता त्वं महाभागे शपथेन मया तदा
॥४॥इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे ।
(खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।
) ।
विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः
॥५॥सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् ।
भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम्
॥६॥प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् ।
देवक्युवाच ।
स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः
॥७॥तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् ।
लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप
॥८॥पूर्वार्जितानां पापानां विनाशाय महात्मभिः ।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
॥९॥द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः ।
मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः
॥१०॥तथा कृत्वा नरः पापान्मुच्यते वा न वानघ ।
विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः
॥११॥याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः ।
भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो
॥१२॥आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः ।
उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम्
॥१३॥भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका ।
अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम्
॥१४॥यदा तदा प्रमाणं हि वृथैव परिभाषितम् ।
वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि
॥१५॥उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते ।
तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः
॥१६॥यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः ।
मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता
॥१७॥न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः ।
वसुदेव उवाच ।
निशामय महाभागे सत्यमेतद् ब्रवीमि ते
॥१८॥उद्यमः खलु कर्तव्यः फलं दैववशानुगम् ।
त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः
॥१९॥प्रवदन्तीह जीवानां पुराणेष्वागमेषु च ।
सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे
॥२०॥वर्तमानानि वामोरु विविधानीह देहिनाम् ।
शुभाशुभानि कर्माणि बीजभूतानि यानि च
॥२१॥बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा ।
पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः
॥२२॥स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै ।
दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम्
॥२३॥भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा ।
भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते
॥२४॥लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् ।
तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः
॥२५॥योजयत्येव तं कालं कर्माणि प्राक्कृतानि च ।
देहेनानेन भाव्यानि शुभानि चाशुभानि च
॥२६॥प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने ।
प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि
॥२७॥सञ्चितानि तथैवाशु यथार्थं विहितेन च ।
प्रारब्धकर्मणां भोगात्संक्षयो नान्यथा भवेत्
॥२८॥तेनायं ते कुमारो वै देयः कंसाय सर्वथा ।
न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम्
॥२९॥अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् ।
दैवाधीनं हि सर्वेषां मरणं जननं तथा
॥३०॥तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः ।
सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम्
॥३१॥इहलोको गतो यस्मात्परलोकः कुतस्ततः ।
अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम्
॥३२॥सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति ।
कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये
॥३३॥(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति) ।
व्यास उवाच ।
इत्युक्तवति कान्ते सा देवकी शोकसंयुता ।
ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी
॥३४॥वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् ।
जगाम कंससदनं मार्गे लोकैरभिष्टुतः
॥३५॥लोका ऊचुः
पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् ।
स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ
॥३६॥मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः ।
सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्भुतम्
॥३७॥यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि ।
व्यास उवाच ।
इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप
॥३८॥ददावस्मै कुमारं तं जातमात्रममानुषम् ।
कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः
॥३९॥गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः ।
धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात्
॥४०॥मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः ।
न हन्तव्यो मया कामं बालोऽयं यातु ते गहम्
॥४१॥अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते ।
इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम्
॥४२॥गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः ।
तमादाय तदा शौरिर्जगाम स्वगृहं मुदा
॥४३॥कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् ।
अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः
॥४४॥अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् ।
साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः
॥४५॥विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति ।
गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः
॥४६॥अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा ।
पप्रच्छ कुशलं राजा तत्रागमनकारणम्
॥४७॥नारदस्तं तदोवाच स्मितपूर्वमिदं वचः ।
कंस कंस महाभाग गतोऽहं हेमपर्वतम्
॥४८॥तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः ।
देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः
॥४९॥वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति ।
तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता
॥५०॥कंस उवाच
अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् ।
नारद उवाच ।
न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा
॥५१॥मायाबलं च देवानां न त्वं वेत्सि वदामि किम् ।
रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता
॥५२॥सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः ।
मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया
॥५३॥इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः ।
गतेऽथ नारदे कंसः समाहूयाथ बालकम् ।
पाषाणे पोथयामास सुखं प्राप च मन्दधीः
॥५४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥