भृगुशापकारणवर्णनम्
जनमेजय उवाच
सन्देहोऽयं महानत्र पाराशर्य कथानके ।
नरनारायणौ शान्तौ वैष्णवांशौ तपोधनौ
॥१॥तीर्थाश्रयौ सत्त्वयुक्तौ वन्याशनपरौ सदा ।
धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ
॥२॥कथं रागसमायुक्तौ जातौ युद्धे परस्परम् ।
संग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम्
॥३॥प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल ।
हित्वा शान्तिसुखं युद्धं कृतवन्तौ कथं मुनी
॥४॥कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी ।
कथयस्व महाभाग कारणं विग्रहस्य वै
॥५॥(कामिनी कनकं कार्यं कारणं विग्रहस्य वै) ।
युद्धबुद्धिः कथं जाता तयोश्च तद्विरक्तयोः ।
तथाविधं तपस्तप्तं ताभ्याञ्च केन हेतुना
॥६॥मोहार्थं सुखभोगार्थं स्वर्गार्थं वा परन्तप ।
कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम्
॥७॥मुनिभ्यां शान्तचित्ताभ्यां प्राप्तं किं फलमद्भुतम् ।
तपसा पीडितो देहः संग्रामेण पुनः पुनः
॥८॥दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ ।
न राज्यार्थे धने वापि न दारेषु गृहेषु च
॥९॥किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना ।
निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम्
॥१०॥दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् ।
सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा
॥११॥न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी ।
धर्मपुत्रौ हरेरंशौ सर्वज्ञौ सर्वभूषितौ
॥१२॥कृतवन्तौ कथं युद्धं दुःखं धर्मविनाशकम् ।
त्यक्त्वा तपः समाधीतं सुखारामं महत्फलम्
॥१३॥संयुगं दारुणं कृष्ण नैव मूर्खोऽपि वाञ्छति ।
श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः
॥१४॥अहङ्कारभवात्पापात्पातितः पृथिवीतले ।
यज्ञकृद्दानकर्ता च धार्मिकः पृथिवीपतिः
॥१५॥शब्दोच्चारणमात्रेण पातितो वज्रपाणिना ।
अहङ्कारमृते युद्धं न भवत्येव निश्चयः
॥१६॥किं फलं तस्य युद्धस्य मुनेः पुण्यविनाशनम् ।
व्यास उवाच ।
राजन् संसारमूलं हि त्रिविधः परिकीर्तितः
॥१७॥अहङ्कारस्तु सर्वज्ञैर्मुनिभिर्धर्मनिश्चये ।
स कथं मुनिना त्यक्तुं योग्यो देहभृता किल
॥१८॥कारणेन विना कार्यं न भवत्येव निश्चयः ।
तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवन्ति ते
॥१९॥राजसाद्वा महाभाग तामसात्कलहस्तथा ।
क्रिया स्वल्पापि राजेन्द्र नाहङ्कारं विना क्वचित्
॥२०॥शुभा वाप्यशुभा वापि प्रभवत्यपि निश्चयः ।
अहङ्काराद् बन्धकारी नान्योऽस्ति जगतीतले
॥२१॥येनेदं रचितं विश्वं कथं तद्रहितं भवेत् ।
ब्रह्मा रुद्रस्तथा विष्णुरहङ्कारयुतास्त्वमी
॥२२॥अन्येषां चैव का वार्ता मुनीनां वसुधाधिप ।
अहङ्कारावृतं विश्वं भ्रमतीदं चराचरम्
॥२३॥पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् ।
देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते
॥२४॥रथाङ्गवदसर्वार्थं भ्रमणं सर्वदा स्मृतम् ।
विष्णोरप्यवताराणां संख्यां जानाति कः पुमान्
॥२५॥विततेऽस्मिंस्तु संसारे उत्तमाधमयोनिषु ।
नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः
॥२६॥कामठं सौकरं चैव नारसिंहञ्च वामनम् ।
युगे युगे जगन्नाथो वासुदेवो जनार्दनः
॥२७॥अवतारानसंख्यातान्करोति विधियन्त्रितः ।
वैवस्वते महाराज सप्तमे भगवान्हरिः
॥२८॥मन्वन्तरेऽवतारान्वै चक्रे ताञ्छ्रुणु तत्त्वतः ।
भृगुशापान्महाराज विष्णुर्देववरः प्रभुः
॥२९॥अवताराननेकांस्तु कृतवानखिलेश्वरः ।
राजोवाच ।
सन्देहोऽयं महाभाग हृदये मम जायते
॥३०॥भृगुणा भगवान्विष्णुः कथं शप्तः पितामह ।
हरिणा च मुनेस्तस्य विप्रियं किं कृतं मुने
॥३१॥यद्रोषाद् भृगुणा शप्तो विष्णुर्देवनमस्कृतः ।
व्यास उवाच ।
शृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम्
॥३२॥पुरा कश्यपदायादो हिरण्यकशिपुर्नृपः ।
यदा तदा सुरैः सार्धं कृतं संख्यं परस्परम्
॥३३॥कृते संख्ये जगत्सर्वं व्याकुलं समजायत ।
हते तस्मिन्नृपे राजा प्रह्लादः समजायत
॥३४॥देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः ।
संग्रामो ह्यभवद् घोरः शक्रप्रह्लादयोस्तदा
॥३५॥पूर्णं वर्षशतं राजँल्लोकविस्मयकारकम् ।
देवैर्युद्धं कृतं चोग्रं प्रह्रादस्तु पराजितः
॥३६॥निर्वेदं परमं प्राप्तो ज्ञात्वा धर्मं सनातनम् ।
विरोचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप
॥३७॥जगाम स तपस्तप्तुं पर्वते गन्धमादने ।
प्राप्य राज्यं बलिः श्रीमान्सुरैर्वैरं चकार ह
॥३८॥यतः परस्परं युद्धं जातं परमदारुणम् ।
ततः सुरैर्जिता दैत्या इन्द्रेणामिततेजसा
॥३९॥विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप ।
ततः पराजिता दैत्याः काव्यस्य शरणं गताः
॥४०॥किं त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् ।
स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम्
॥४१॥यदि त्वं न सहायोऽसि त्रातुं मन्त्रविदुत्तम ।
व्यास उवाच ।
इत्युक्तः सोऽब्रवीद्दैत्यान्काव्यः कारुणिको मुनिः
॥४२॥मा भैष्ट धारयिष्यामि तेजसा स्वेन भोऽसुराः ।
मन्त्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि
॥४३॥करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः ।
व्यास उवाच ।
ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात्
॥४४॥देवैः श्रुतस्तु वृत्तान्तः सर्वैश्चारमुखात्किल ।
तत्र संमन्त्र्य ते देवाः शक्रेण च परस्परम्
॥४५॥मन्त्रं चक्रुः सुसंविग्नाः काव्यमन्त्रप्रभावतः ।
योद्धुं गच्छामहे तूर्णं यावन्न च्यावयन्ति वै
॥४६॥प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ।
दैत्याञ्जग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः
॥४७॥जग्मुस्तान्विष्णुसहिता दानवान् हरिणोदिताः ।
वध्यमानास्तु ते दैत्याः सन्त्रस्ता भयपीडिताः
॥४८॥काव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् ।
ताञ्छुक्रः पीडितान्दृष्ट्वा देवैर्दैत्यान्महाबलान्
॥४९॥मा भैष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः ।
दृष्ट्वा काव्यं सुराः सर्वे त्यक्त्वा तान्प्रययुः किल
॥५०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे भृगुशापकारणवर्णनं नाम दशमोऽध्यायः ॥ १० ॥