अप्सरां नारायणसमीपे प्रार्थनाकरणम्
व्यास उवाच
प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे ।
पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः
॥१॥आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा ।
सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः
॥२॥बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः ।
वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान्
॥३॥प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः ।
बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम्
॥४॥ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः ।
इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन्
॥५॥रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् ।
चकार त्वरितस्तत्र वासं बदरिकाश्रमे
॥६॥रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे ।
गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम्
॥७॥तच्छ्रुत्वा मधुरोद्गीतं कोकिलानाञ्च कूजितम् ।
भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ
॥८॥ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् ।
जातौ चिन्तापरौ तत्र नरनारायणावृषी
॥९॥किमद्य शिशिरापायः संभृतः समयं विना ।
प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः
॥१०॥कालधर्मविपर्यासः कथमद्य दुरासदः ।
नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः
॥११॥नारायण उवाच
पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै ।
कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः
॥१२॥शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने
॥१३॥रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्घ्रिका ।
नीलाशोककचा श्यामा विकासिकमलानना
॥१४॥नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी ।
प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता
॥१५॥बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्भवा ।
पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा
॥१६॥बर्हिवृन्दकलापा च सारसस्वननूपुरा ।
वासन्ती बद्धरशना मत्तहंसगतिस्तथा
॥१७॥पुत्रजीवांशुकन्यस्तरोमराजिविराजिता ।
वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे
॥१८॥अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना ।
तपोविघ्नकरा नूनं देवर्षे परिचिन्तय
॥१९॥श्रूयते सुरनारीणां गानं ध्यानविनाशनम् ।
आवयोस्तपिभङ्गाय कृतं मघवता किल
॥२०॥ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् ।
विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा
॥२१॥वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः ।
नान्यत्कारणमस्तीह शतक्रतुकृतिं विना
॥२२॥इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ ।
सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा
॥२३॥ददर्श भगवान्सर्वान्नरो नारायणस्तथा ।
विस्मयाविष्टमनसौ बभूवतुरुभावपि
॥२४॥मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् ।
पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम्
॥२५॥प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् ।
चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम्
॥२६॥विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम्।
एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके
॥२७॥तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च ।
वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम्
॥२८॥प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा ।
दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः
॥२९॥जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् ।
तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम्
॥३०॥शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा ।
श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः
॥३१॥आस्यतां सुखमत्रैव करोम्यातिथ्यमद्भुतम् ।
भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः
॥३२॥व्यास उवाच
साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः ।
इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया
॥३३॥वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल ।
एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम्
॥३४॥इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै ।
तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम्
॥३५॥नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा ।
ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः
॥३६॥तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः ।
प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः
॥३७॥गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः ।
प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः
॥३८॥तां वीक्ष्य विभ्रमकरीं तपसो विभूतिं ।
देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः ।
ऊचुश्च तौ प्रमुदिताननपद्यशोभा रोमोद्गमोल्लसितचारुनिजाङ्गवल्ल्यः
॥३९॥कुर्युः कथं स्तुतिमहो तपसो महत्त्वं धैर्यं तथैव भवतामभिवीक्ष्य बालाः ।
अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्र भवतां मनसो व्यथा न
॥४०॥ज्ञातौ युवां नरहरेः परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव ।
सेवानिमित्तमिह नो गमनं न कामं कार्यं हरेः शतमखस्य विधातुमेव
॥४१॥भाग्येन केन युवयोः किल दर्शनं नः सम्पादितं न विदितं खलु सञ्चितं तत् ।
चित्तं क्षमं निजजने विहितं युवाभ्या- मस्मद्विधे किल कृतागसि तापमुक्तम्
॥४२॥कुर्वन्ति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः ।
व्यास उवाच ।
इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम्
॥४३॥प्रीतौ प्रसन्नवदनौ जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ ।
नरनारायणावूचतुः ।
ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ
॥४४॥यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् ।
उपायनमियं बाला गच्छत्वद्य मनोहरा
॥४५॥दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा ।
स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च
॥४६॥( न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परम् ।
) ।
देव्य ऊचुः ।
क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् ।
नारायण सुरश्रेष्ठ भक्त्या परमया मुदा
॥४७॥वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन ।
तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम्
॥४८॥पतिस्त्वं भव देवेश वरमेनं परन्तप ।
भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर
॥४९॥त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः ।
उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया
॥५०॥स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् ।
सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ
॥५१॥वाञ्छितं देहि देवेश सत्यवाग्भव माधव ।
आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम्
॥५२॥कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः ।
भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः
॥५३॥त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते ।
नारायण उवाच ।
पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै
॥५४॥जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः ।
नेच्छा कामे सुखे काचित्सुखधर्मविनाशके
॥५५॥पशूनामपि साधर्म्ये रमेत मतिमान्कथम् ।
अप्सरस ऊचुः ।
शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम्
॥५६॥आनन्दरसमूलं वै नान्यदस्ति सुखं किल ।
अतोऽस्माकं महाराज वचनं कुरु सर्वथा
॥५७॥निर्भरं सुखमासाद्य चरस्व गन्धमादने ।
यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात्
॥५८॥रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः
॥५९॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे ॥ अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ ६ ॥