पराशक्तेः सर्वज्ञत्वकथनम्
राजोवाच
सन्देहो मे मुनिश्रेष्ठ जायते वचनात्तव ।
वैष्णवांशे भगवति दुःखोत्पत्तिं विलोक्य च
॥१॥नारायणांशसम्भूतो वासुदेवः प्रतापवान् ।
कथं स सूतिकागाराद्धृतो बालो हरेरपि
॥२॥सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे ।
प्रविश्य तेन दैत्येन गृहीतोऽसौ कथं शिशुः
॥३॥न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम् ।
जायते महदाश्चर्यं चित्ते सत्यवतीसुत
॥४॥ब्रूहि तत्कारणं ब्रह्मन्न ज्ञातं केशवेन यत् ।
हरणं तत्रसंस्थेन शिशोर्वा सूतिकागृहात्
॥५॥व्यास उवाच
माया बलवती राजन्नराणां बुद्धिमोहिनी ।
शाम्भवी विश्रुता लोके को वा मोहं न गच्छति
॥६॥मानुषं जन्म सम्प्राप्य गुणाः सर्वेऽपि मानुषाः ।
भवन्ति देहजा कामं न देवा नासुरास्तदा
॥७॥क्षुत्तृण्निद्रा भयं तन्द्रा व्यामोहः शोकसंशयः ।
हर्षश्चैवाभिमानश्च जरामरणमेव च
॥८॥अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः ।
एते देहभवा भावाः प्रभवन्ति नराधिप
॥९॥यथा हेममृगं रामो न बुबोध पुरोगतम् ।
जानक्या हरणञ्चैव जटायुमरणं तथा
॥१०॥अभिषेकदिने रामो वनवासं न वेद च ।
तथा न ज्ञातवान् रामः स्वशोकान्मरणं पितुः
॥११॥अज्ञवद्विचचारासौ पश्यमानो वने वने ।
जानकीं न विवेदाथ रावणेन हृतां बलात्
॥१२॥सहायान् वानरान्कृत्वा हत्वा शक्रसुतं बलात् ।
सागरे सेतुबन्धञ्च कृत्वोत्तीर्य सरित्पतिम्
॥१३॥प्रेषयामास सर्वासु दिक्षु तान्कपिकुञ्जरान् ।
संग्रामं कृतवान्घोरं दुःखं प्राप रणाजिरे
॥१४॥बन्धनं नागपाशेन प्राप रामो महाबलः ।
गरुडान्मोक्षणं पश्चादन्वभूद्रघुनन्दनः
॥१५॥अहनद्रावणं संख्ये कुम्भकर्णं महाबलम् ।
मेघनादं निकुम्भञ्च कुपितो रघुनन्दनः
॥१६॥अदूष्यत्वञ्च जानक्या न विवेद जनार्दनः ।
दिव्यञ्च कारयामास ज्वलितेऽग्नौ प्रवेशनम्
॥१७॥लोकापवादाच्च परं ततस्तत्याज तां प्रियाम् ।
अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः
॥१८॥न ज्ञातौ स्वसुतौ तेन रामेण च कुशीलवौ ।
मुनिना कथितौ तौ तु तस्य पुत्रौ महाबलौ
॥१९॥पातालगमनं चैव जानक्या ज्ञातवान्न च ।
राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्यतः
॥२०॥कालस्यागमनञ्चैव न विवेद खरान्तकः ।
मानुषं देहमाश्रित्य चक्रे मानुषचेष्टितम्
॥२१॥तथैव मानुषान्भावान्नात्र कार्या विचारणा ।
पूर्वं कंसभयात्प्राप्तो गोकुले यदुनन्दनः
॥२२॥जरासन्धभयात्पश्चाद् द्वारवत्यां गतो हरिः ।
अधर्मं कृतवान्कृष्णो रुक्मिण्या हरणञ्च यत्
॥२३॥शिशुपालवृतायाश्च जानन्धर्मं सनातनम् ।
शुशोच बालकं कृष्णः शम्बरेण हृतं बलात्
॥२४॥मुमोद जानन्पुत्रं तं हर्षशोकयुतस्ततः ।
सत्यभामाज्ञया यत्तु युयुधे स्वर्गतः किल
॥२५॥इन्द्रेण पादपार्थं तु स्त्रीजितत्वं प्रकाशयन् ।
जहार कल्पवृक्षं यः पराभूय शतक्रतुम्
॥२६॥मानिनीमानरक्षार्थं हरिश्चित्रधरः प्रभुः ।
बद्ध्वा वृक्षे हरिं सत्या नारदाय ददौ पतिम्
॥२७॥दत्त्वाथ कानकं कृष्णं मोचयामास भामिनी ।
दृष्ट्वा पुत्रान्पुरुगुणान्प्रद्युम्नप्रमुखानथ
॥२८॥कृष्णं जाम्बवती दीना ययाचे सन्ततिं शुभाम् ।
स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः
॥२९॥उपमन्युर्मुनिर्यत्र शिवभक्तः परन्तपः ।
उपमन्युं गुरु कृत्वा दीक्षां पाशुपतो हरिः
॥३०॥जग्राह पुत्रकामस्तु मुण्डी दण्डी बभूव ह ।
उग्रं तत्र तपस्तेपे मासमेकं फलाशनः
॥३१॥जजाप शिवमन्त्रं तु शिवध्यानपरो हरिः ।
द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः
॥३२॥तृतीये वायुभक्षस्तु पादाङ्गुष्ठाग्रसंस्थितः ।
षष्ठे तु भगवान् रुद्रः प्रसन्नो भक्तिभावतः
॥३३॥दर्शनञ्च ददौ तत्र सोमः सोमकलाधरः ।
आजगाम वृषारूढः सुरैरिन्द्रादिभिर्वृतः
॥३४॥ब्रह्मविष्णुयुतः साक्षाद्यक्षगन्धर्वसेवितः ।
सम्बोधयन्वासुदेवं शङ्करस्तमुवाच ह
॥३५॥तुष्टोऽस्मि कृष्ण तपसा तवोग्रेण महामते ।
ददामि वाच्छितान्कामान्ब्रूहि यादवनन्दन
॥३६॥मयि दृष्टे कामपूरे कामशेषो न सम्भवेत् ।
व्यास उवाच ।
तं दृष्ट्वा शङ्करं तुष्टं भगवान्देवकीसुतः
॥३७॥पपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः ।
स्तुतिं चकार देवेशो मेघगम्भीरया गिरा
॥३८॥स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः ।
श्रीकृष्ण उवाच ।
देवदेव जगन्ताथ सर्वभूतार्तिनाशन
॥३९॥विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक ।
नीलकण्ठ नमस्तुभ्यं शूलिने ते नमो नमः
॥४०॥शैलजावल्लभायाश्च यज्ञघ्नाय नमोऽस्तु ते ।
धन्योऽहं कृतकृत्योऽहं दर्शनात्तव सुव्रत
॥४१॥जन्म मे सफलं जातं नत्वा ते पादपङ्कजम् ।
बद्धोऽहं स्त्रीमयैः पाशैः संसारेऽस्मिञ्जगद्गुरो
॥४२॥शरणं तेऽद्य सम्प्राप्तो रक्षणार्थं त्रिलोचन ।
सम्प्राप्य मानुषं जन्म खिन्नोऽहं दुःखनाशन
॥४३॥त्राहि मां शरणं प्राप्तं भवभीतं भवाधुना ।
गर्भवासे महद्दुःखं प्राप्तं मदनदाहक
॥४४॥जन्मतः कंसभयजमनुभूतं च गोकुले ।
जातोऽहं नन्दगोपालो बल्लवाज्ञाकरस्तथा
॥४५॥गोरजःकीर्णकेशस्तु भ्रमन्वृन्दावने घने ।
म्लेच्छराजभयत्रस्तो गतो द्वारवतीं पुनः
॥४६॥त्यक्त्वा पित्र्यं शुभं देशं माधुरं दुर्लभं विभो ।
ययातिशापबद्धेन तस्मै दत्तं भयाद्विभो
॥४७॥राज्यं सुपुष्टमपि च धर्मरक्षापरेण च ।
उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया
॥४८॥राजासौ यादवानां वै कृतो नः पूर्वजैः किल ।
गार्हस्थ्यं दुःखदं शम्भो स्त्रीवश्यं धर्मखण्डनम्
॥४९॥पारतन्त्र्यं सदा बन्धमोक्षवार्तात्र दुर्लभा ।
रुक्यिण्यास्तनयान्दृष्ट्वा भार्या जाम्बवती मम
॥५०॥प्रेरयामास पुत्रार्थं तपसे मदनान्तक ।
सकामेन मया तप्तं तपः पुत्रार्थमद्य वै
॥५१॥लज्जा भवति देवेश प्रार्थनायां जगद्गुरो ।
कस्त्वामाराध्य देवेशं मुक्तिदं भक्तवत्सलम्
॥५२॥प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत् ।
सोऽयं मायाविमूढात्मा याचे पुत्रसुखं विभो
॥५३॥कामिन्या प्रेरितः शम्भो मुक्तिदं त्वां जगत्पते ।
जानामि दुःखदं शम्भो संसारं दुःखसाधनम्
॥५४॥अनित्यं नाशधर्माणं तथापि विरतिर्न मे ।
शापान्नारायणांशोऽहं जातोऽस्मि क्षितिमण्डले
॥५५॥भोक्तुं बहुतरं दुःखं मायापाशेन यन्त्रितः ।
व्यास उवाच ।
इत्युक्तवन्तं गोविन्दं प्रत्युवाच महेश्वरः
॥५६॥बहवस्ते भविष्यन्ति पुत्राः शत्रुनिषूदन ।
स्त्रीणां षोडशसाहस्रं भविष्यति शतार्धकम्
॥५७॥तासु पुत्रा दश दश भविष्यन्ति महाबलाः ।
इत्युक्त्वोपररामाशु शङ्करः प्रियदर्शनः
॥५८॥उवाच गिरिजा देवी प्रणतं मधुसूदनम् ।
कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराधिप
॥५९॥गृहस्थप्रवरो लोके भविष्यति भवानिह ।
ततो वर्षशतान्ते तु द्विजशापाज्जनार्दन
॥६०॥गान्धार्याश्च तथा शापाद्भविता ते कुलक्षयः ।
परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः
॥६१॥गमिष्यन्ति क्षयं सर्वे यादवाश्च तथापरे ।
सानुजस्त्वं तथा देहं त्यक्त्वा यास्यसि वै दिवम्
॥६२॥शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो ।
अवश्यम्भाविभावानां प्रतीकारो न विद्यते
॥६३॥तत्र शोको न कर्तव्यो नूनं मम मतं सदा ।
अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन
॥६४॥चौरेभ्यो ग्रहणं कृष्ण गमिष्यन्ति मृते त्वयि ।
व्यास उवाच ।
इत्युक्त्वान्तर्दधे शम्भुः सोमः ससुरमण्डलः
॥६५॥उपमन्युं प्रणम्याथ कृष्णोऽपि द्वारकां ययौ ।
यस्माद् ब्रह्मादयो राजन् सन्ति यद्यप्यधीश्वराः
॥६६॥तथापि मायाकल्लोलयोगसंक्षुभितान्तराः ।
तदधीनाः स्थिताः सर्वे काष्ठपुत्तलिकोपमाः
॥६७॥यथा यथा पूर्वभवं कर्म तेषां तथा तथा ।
प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी
॥६८॥न वैषम्यं न नैर्घृण्यं भगवत्यां कदाचन ।
केवलं जीवमोक्षार्थं यतते भुवनेश्वरी
॥६९॥यदि सा नैव सृज्येत जगदेतच्चराचरम् ।
तदा मायां विना भूतं जडं स्यादेव नित्यशः
॥७०॥तस्मात्कारुण्यमाश्रित्य जगज्जीवादिकं च यत् ।
करोति सततं देवी प्रेरयत्यनिशं च तत्
॥७१॥तस्माद् ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयो न हि ।
मायान्तःपातिनः सर्वे मायाधीनाः सुरासुराः
॥७२॥स्वतन्त्रा सैव देवेशी स्वेच्छाचारविहारिणी ।
तस्मात्सर्वात्मना राजन् सेवनीया महेश्वरी
॥७३॥नातः परतरं किञ्चिदधिकं भुवनत्रये ।
एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः
॥७४॥माभूत्तत्र कुले जन्म यत्र देवी न दैवतम् ।
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक्
॥७५॥इत्यभेदेन तां नित्यां चिन्तयेज्जगदम्बिकाम् ।
ज्ञात्वा गुरुमुखादेनां वेदान्तश्रवणादिभिः
॥७६॥नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् ।
मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभिः
॥७७॥श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः ।
आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबन्धनात्
॥७८॥ब्रह्मविष्ण्वादयस्तद्वद् गौरीलक्ष्म्यादयस्तथा ।
तामेव समुपासन्ते सच्चिदानन्दरूपिणीम्
॥७९॥इति ते कथितं राजन् यद्यत्पुष्टं त्वयानघ ।
प्रपञ्चतापत्रस्तेन किं भूयः श्रोतुमिच्छसि
॥८०॥एतत्ते कथितं राजन्मयाख्यानमनुत्तमम् ।
सर्वपापहरं पुण्यं पुराणं परमाद्भुतम्
॥८१॥य इदं शृणुयान्नित्यं पुराणं वेदसम्मितम् ।
सर्वपापविनिर्मुक्तो देवीलोके महीयते
॥८२॥सूत उवाच
एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम् ।
पुराणं पञ्चमं नूनं श्रीमद्भागवताभिधम्
॥८३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे पराशक्तेः सर्वज्ञत्वकथनं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥