मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १

3
पञ्चमस्कन्धः · 1

योगमायाप्रभाववर्णनम्

ऋषय ऊचुः

भवता कथितं सूत महदाख्यानमुत्तमम् ।

कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम्

॥१॥

सन्देहोऽत्र महाभाग वासुदेवकथानके ।

जायते नः प्रोच्यमाने विस्तरेण महामते

॥२॥

वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् ।

विष्णोरंशावतारेण शिवस्याराधनं कृतम्

॥३॥

वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः ।

जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया

॥४॥

ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ ।

न्यूनता वा किमस्त्वस्य तदेवं संशयो मम

॥५॥

सूत उवाच

शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् ।

प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम्

॥६॥

वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा ।

पुनः पप्रच्छ मेधावी सन्देहं परमं गतः

॥७॥

जनमेजय उवाच

सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् ।

तथापि मनसो वृत्तिः संशयं न विमुञ्चति

॥८॥

कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् ।

विस्मयोऽयं महाभाग देवदेवेन विष्णुना

॥९॥

यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः ।

स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः

॥१०॥

जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः ।

संहर्तुमपि कस्मात्स दारुणं तप आचरत्

॥११॥

व्यास उवाच

सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः ।

क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः

॥१२॥

तथापि मानुषं देहमाश्रितः परमेश्वरः ।

कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान्

॥१३॥

वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् ।

ब्राह्मणानां तथा सेवा देवताराधनं तथा

॥१४॥

शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः ।

दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम्

॥१५॥

कामः क्रोधस्तथा लोभः काले काले भवन्ति हि ।

तथा गुणमये देहे निर्गुणत्वं कथं भवेत्

॥१६॥

सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् ।

निधनं यादवानां तु कृष्णदेहस्य मोचनम्

॥१७॥

हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप ।

अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च

॥१८॥

अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः ।

एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम्

॥१९॥

विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा ।

अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने

॥२०॥

स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् ।

सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः

॥२१॥

तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते ।

अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम्

॥२२॥

मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी ।

उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः

॥२३॥

अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता ।

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः

॥२४॥

विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः ।

तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने

॥२५॥

इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ ।

मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः

॥२६॥

सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा ।

देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे

॥२७॥

अवतारा हरेरेवं प्रभवन्ति युगे युगे ।

योगमायाप्रभावेण नात्र कार्या विचारणा

॥२८॥

या नेत्रपक्ष्मपरिसञ्चलनेन सम्य- ग्विश्वं सृजत्यवति हन्ति निगूढभावा ।

सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान्

॥२९॥

सूतीगृहाद्व्रजनमप्यनया नियुक्तं संगोपितश्च भवने पशुपालराज्ञः ।

सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः

॥३०॥

निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्टसम्मततराः स्वकलासमुत्थाः ।

तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनन्तः

॥३१॥

एकापि बन्धनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम ।

किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबन्धयन्ति

॥३२॥

सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् ।

कृत्वा मृधं मघवता विहृतस्तरूणा- मीशः प्रियासदनभूषणतां य आप

॥३३॥

यो भीमजां हि हृतवाञ्छिशुपालकादी- ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः ।

जग्राह तां निजबलेन च धर्मपत्नीं कोऽसौ विधिः परकलत्रहृतौ विजातः

॥३४॥

अहङ्कारवशः प्राणी करोति च शुभाशुभम् ।

विमूढो मोहजालेन तत्कृतेनातिपातिना

॥३५॥

अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् ।

मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात्

॥३६॥

अहङ्कारपरित्यक्तो यदा भवति पद्मजः ।

तदा विमुक्तो भवति नोचेत्संसारकर्मकृत्

॥३७॥

तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः ।

न नारी न धनं गेहं न पुत्रा न सहोदराः

॥३८॥

बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ।

अहं कर्ता मया चेदं कृतं कार्यं बलीयसा

॥३९॥

करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् ।

कारणेन विना कार्यं न सम्भवति कर्हिचित्

॥४०॥

यथा न दृश्यते जातो मृत्पिण्डेन विना घटः ।

विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः

॥४१॥

अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् ।

अहङ्कारविमुक्तस्तु यदा भवति मानवः

॥४२॥

अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः ।

मोहमूलमहङ्कारः संसारस्तत्समुद्भवः

॥४३॥

अहङ्कारविहीनानां न मोहो न च संसृतिः ।

त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा

॥४४॥

तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु ।

त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा

॥४५॥

अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः ।

अहङ्कारेण तेनैव बद्धा एते न संशयः

॥४६॥

मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः ।

करोति स्वेच्छया विष्णुरवताराननेकशः

॥४७॥

मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे ।

न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत्

॥४८॥

कौसल्यादेवकीगर्भे विष्ठामलसमाकुले ।

स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः

॥४९॥

वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् ।

चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते

॥५०॥

तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः ।

न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम्

॥५१॥

स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः ।

गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि

॥५२॥

जानीहि त्वं महाराज योगमायावशे जगत् ।

ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम्

॥५३॥

मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः ।

भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत्

॥५४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥