मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ३

3
पञ्चमस्कन्धः · 3

भगवतीमाहात्म्ये दैत्यसैन्योद्योगः

व्यास उवाच

एवं स महिषो नाम दानवो वरदर्पितः ।

प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः

॥१॥

पृथिवीं पालयामास सागरान्तां भुजार्जिताम् ।

एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम्

॥२॥

सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः ।

धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः

॥३॥

असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः ।

त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः

॥४॥

एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा ।

आवृत्य संस्थिताः काममृद्धां सागरमेखलाम्

॥५॥

करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः ।

निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः

॥६॥

ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः ।

महिषस्य महाराज निखिले क्षितिमण्डले

॥७॥

एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः ।

स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः

॥८॥

प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ।

स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट्

॥९॥

गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ ।

ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ

॥१०॥

मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् ।

सेवां वा कुरु देवेश महिषस्य महात्मनः

॥११॥

स त्वां संरक्षयेन्नूनं राजा शरणमागतम् ।

तस्मात्त्वं शरणं याहि महिषस्य शचीपते

॥१२॥

नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन ।

पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम्

॥१३॥

अहल्याजार विज्ञातं बलं ते सुरसङ्घप ।

युध्यस्व व्रज वा कामं यत्र ते रमते मनः

॥१४॥

व्यास उवाच

तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः ।

उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा

॥१५॥

न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः ।

चिकित्सां संकरिष्यामि रोगस्यास्य प्रभोस्तव

॥१६॥

अतः परं करिष्यामि मूलस्यास्य निमूलनम् ।

गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम्

॥१७॥

शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् ।

युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत

॥१८॥

हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः ।

शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम्

॥१९॥

दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया ।

विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम्

॥२०॥

यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः ।

कुशलस्त्वं तदाघाते न युद्धे महिषाधम

॥२१॥

व्यास उवाच

इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः ।

जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह

॥२२॥

दूत उवाच

राजन्देवाधिपः कामं न त्वां विगणयत्यसौ ।

मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः

॥२३॥

यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् ।

प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः

॥२४॥

प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना ।

इति नीतिर्महाराज जागर्ति शुभकारिणी

॥२५॥

केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति ।

परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ।

२६ यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः ।

तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः

॥२७॥

यादृशानीह वाक्यानि तेनोक्तानि महीपते ।

तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित्

॥२८॥

व्यास उवाच

तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः ।

भृशं कोपपरीतात्मा बभूव महिषासुरः

॥२९॥

समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः ।

लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन्

॥३०॥

भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा ।

बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः

॥३१॥

मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः ।

न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा

॥३२॥

शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः ।

बलकर्ता हि कुहको लम्पटः परदारहृत्

॥३३॥

अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः ।

छिद्रप्रहरणः पापो नित्यं विश्वासघातकः

॥३४॥

नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना ।

शपथान्विविधानादौ कृत्वा भीतेन छद्मना

॥३५॥

विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः ।

नानारूपधरः कामं बलकृद्दम्भपण्डितः

॥३६॥

कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः ।

हिरण्यकशिपुर्येन नृसिंहेन च घातितः

॥३७॥

नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः ।

विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित्

॥३८॥

किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः ।

रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे

॥३९॥

त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् ।

धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च

॥४०॥

यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः ।

जित्वा देवसमूहञ्च विहरिष्यामि दानवैः

॥४१॥

न मे भयं सुरेभ्यश्च वरदानेन दानवाः ।

मरणं न नरेभ्यश्च नारी किं मे करिष्यति

॥४२॥

पातालपर्वतेभ्यश्च समाहूय वरान्वरान् ।

दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः

॥४३॥

एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः ।

शोभार्थं वः समाहूय नयामि सुरसङ्गमे

॥४४॥

शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल ।

न मे भयं सुरेभ्यश्च वरदानप्रभावतः

॥४५॥

अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा ।

तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै

॥४६॥

जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने ।

मन्दारकुसुमापीडा देवयोषित्समन्विताः

॥४७॥

कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः ।

देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः

॥४८॥

उर्वशी मेनका रम्भा घृताची च तिलोत्तमा ।

प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा

॥४९॥

विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः ।

रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः

॥५०॥

सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि ।

संग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम्

॥५१॥

रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् ।

समाहूय च संपूज्य स्थाप्य यज्ञे गुरुं परम्

॥५२॥

व्यास उवाच

इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा ।

जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः

॥५३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ ३ ॥