प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम्
महिष उवाच
इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ ।
प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम्
॥१॥हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ ।
कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ
॥२॥भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ ।
तव सूक्तसरस्वत्या गङ्गयेव भगीरथः
॥३॥साधवः सम्भवन्तीह परोपकृतितत्पराः ।
अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम्
॥४॥पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रयः शुभः ।
तवावाभ्यां महाभाग महादुःखविनाशकः
॥५॥भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः ।
परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः
॥६॥दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः ।
उभौ संसारसंतप्तौ तवाश्रमपदे मुदा
॥७॥दर्शनादेव हे विद्वन्गतं दुःखमिहावयोः ।
देहजं मानसं वाक्यश्रवणादेव साम्प्रतम्
॥८॥धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् ।
पावितौ भवता ब्रह्मन्कृपया करुणार्णव
॥९॥गृहाणास्मत्करौ साधो नय पारं भवार्णवात् ।
मग्नौ श्रांताविति ज्ञात्वा मंत्रदानेन सांप्रतम्
॥१०॥तपः कृत्वाऽतिविपुलं समाराध्य सुखप्रदाम् ।
संप्राप्य दर्शनं भूयो यास्यावो निजमंदिरम्
॥११॥वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् ।
स्मरणं च करिष्यावो निराहारौ धृतव्रतौ
॥१२॥व्यास उवाच
इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः ।
ददौ मंत्रं शुभं ताभ्यां ध्यानबीजपुरःसरम्
॥१३॥तौ च प्राप्य मुनेर्मंत्रं सम्मन्त्र्य गुरुदैवतौ ।
जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम्
॥१४॥एकांते विजने स्थाने कृत्वासनपरिग्रहम् ।
उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ
॥१५॥मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ ।
निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ
॥१६॥तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा ।
पदाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम्
॥१७॥कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः ।
कृतप्रणामावागत्य तस्थतुश्च कुशासने
॥१८॥नान्यकार्य परौ क्वापि बभूवतुः कदाचन ।
देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा
॥१९॥एवं जाते तदा पूर्णे तत्र संवत्सरे नृप ।
बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप
॥२०॥वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ ।
शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ
॥२१॥पूर्णे वर्षद्वये जाते कदाचिद्दर्शनं च तौ ।
प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम्
॥२२॥रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् ।
कदाचिन्नृपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् २३ ।
वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः ।
जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ
॥२४॥एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ ।
चक्रतुस्तौ तदा चिंतां चित्ते दर्शनलालसौ
॥२५॥प्रत्यक्षदर्शनं देव्या न प्राप्तं शांतिदं नृणाम् ।
देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ
॥२६॥इति संचिन्त्य मनसा राजा कुण्डं चकार ह ।
त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः
॥२७॥संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् ।
गुहावासो निजं मांसं छित्त्वा छित्त्वा पुनःपुनः
॥२८॥तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्रापक्षिपत्तदा ।
रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ
॥२९॥तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः ।
प्राह प्रीतिभरोद्भ्रांतौ दृष्ट्वा तौ दुःखितौ भृशम् ।
श्रीदेव्युवाच ।
वरं वरय भो राजन् यत्ते मनसि वांछितम् ।
तुष्टाऽहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ३१ ।
वैश्यं प्राह तदा देवी प्रसन्नाऽहं महामते ।
किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम्
॥३२॥व्यास उवाच
तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः ।
देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात्
॥३३॥तमुवाच तदा देवी गच्छ राजन्निजं गृहम् ।
शत्रवः क्षीणसत्त्वास्ते गमिष्यंति पराजिताः
॥३४॥मंत्रिणस्तु समागत्य ते पतिष्यंति पादयोः ।
कुरु राज्यं महाभाग नगरे स्वं यथासुखम्
॥३५॥कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप ।
देहान्ते जन्म संप्राप्य सूर्याच्च भविता मनुः ३६ ।
व्यास उवाच ।
वैश्यस्तामप्युवाचेदं कृतांजलिपुट: शुचिः ।
न मे गृहेण कार्यं वै न पुत्रेण धनेन वा
॥३७॥सर्वं बंधकरं मातः स्वप्नवन्नश्वरं स्फुटम् ।
ज्ञानं मे देहि विशदं मोक्षदं बंधनाशनम्
॥३८॥असारेऽस्मिंश्च संसारे मूढा मज्जंति पामराः ।
पंडिता: संतरंतीह तस्मान्नेच्छन्ति संसृतिम् ३९ ।
व्यास उवाच ।
तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् ।
वैश्ववर्य तव ज्ञानं भविष्यति न संशयः
॥४०॥इति दत्त्वा वरं ताभ्यां तत्रैवांतरधीयत ।
अदर्शनं गतायां तु राजा तं मुनिसत्तमम्
॥४१॥प्रणम्य हयमारुह्य गमनाय मनो दधे ।
तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः
॥४२॥प्रणेमुर्विनयोपेतास्तमूचुः प्रांजलिस्थिताः ।
राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे
॥४३॥राज्यं निष्कंटकं भूप कुरुष्व पुरमास्थितः ।
तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ४४ ।
आपृच्छ्य निर्ययौ तत्र मंत्रिभिः परिवारितः ।
संप्राप्य च निजं राज्यं दारान्स्वजनबांधवान् ४५ ।
बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् ।
वैश्योऽपि ज्ञानमासाद्य मुक्तसंगः समंततः
॥४६॥कालातिवाहनं तत्र मुक्तबंधश्चकार ह।
तीर्थेषु विचरन्गायन्भगवत्या गुणानथ
॥४७॥एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् ।
आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः
॥४८॥दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः ।
एवंप्रभावा सा देवी भक्तानामभयप्रदा
॥४९॥यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् ।
संप्राप्नोति नरः सत्यं संसारसुखमद्भुतम्
॥५०॥ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा ।
पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम्
॥५१॥अखिलार्थप्रदं नॄणां सर्वधर्मसमावृतम् ।
धर्मार्थकाममोक्षाणां कारणं परमं मतम्
॥५२॥सूत उवाच
जनमेजयेन राज्ञाऽसौ पृष्टः सत्यवतीसुतः ।
उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित्
॥५३॥चरितं चंडिकायास्तु शुम्भदैत्यवधाश्रितम् ।
कथयामास भगवान्कृष्णः कारुणिको मुनिः ।
इति वः कथितः सारः पुराणानां मुनीश्वराः
॥५४॥इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
व्योमांकाभ्रद्विसंख्यातः २०९० श्लोकैर्व्यासेन धीमता ।
देवीभागवतस्यास्य पञ्चमस्कन्ध ईरितः
॥५॥समाप्तोऽयं पञ्चमः स्कन्धः