चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम्
व्यास उवाच
इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ ।
जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ
॥१॥दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् ।
ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः
॥२॥बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् ।
निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम्
॥३॥त्वमेकासि वरारोहे कालिकासिंहसंयुता ।
जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम्
॥४॥मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा ।
देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते
॥५॥विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् ।
अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा
॥६॥किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः ।
शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः
॥७॥ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः ।
जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम्
॥८॥वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् ।
हितं तव विशालाक्षि सुखदं दुःखनाशनम्
॥९॥दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः ।
सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः
॥१०॥चतुरासि पिकालापे पश्य शुम्भबलं महत् ।
प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम्
॥११॥प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल ।
सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते
॥१२॥शत्रुः सुराणां परमः शुम्भः समरदुर्जयः ।
तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः
॥१३॥तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते ।
दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका
॥१४॥कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् ।
देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम्
॥१५॥भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् ।
चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ।
१६ ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् ।
निश्चयं परमं कृत्वा भर्तारं भज शोभनम्
॥१७॥व्यास उवाच
इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका ।
मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत्
॥१८॥गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः ।
त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम्
॥१९॥न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह ।
स्वामिनी सर्वभूतानामहमेव निशामय
॥२०॥शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः ।
घातिताश्च मया पूर्वं शतशो दैत्यदानवाः
॥२१॥ममाग्रे देववृन्दानि विनष्टानि युगे युगे ।
नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै
॥२२॥काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः ।
वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः
॥२३॥कुरु युद्धं वीरधर्मरक्षायै त्वं महामते ।
मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः
॥२४॥किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना ।
वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम्
॥२५॥शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः ।
सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम्
॥२६॥क्रमशः सर्वदैत्यानां करिष्याम्यद्य संक्षयम् ।
विषादं त्यज मन्दात्मन् कुरु युद्धं विशांपते
॥२७॥त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् ।
ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम्
॥२८॥अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे ।
गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम्
॥२९॥गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना ।
किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम्
॥३०॥व्यास उवाच
तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ ।
ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ
॥३१॥सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश ।
सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली
॥३२॥तेन नादेन शक्राद्या जहर्षुरमरास्तदा ।
मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः
॥३३॥युद्धं परस्परं तत्र जातं कातरभीतिदम् ।
चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः
॥३४॥चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः ।
मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव
॥३५॥गगनं छादितं तत्र संग्रामे विशिखैस्तदा ।
शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः
॥३६॥मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे ।
मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः
॥३७॥बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् ।
कोपेन वदनं तस्या बभूव घनसन्निभम्
॥३८॥कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा ।
निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम्
॥३९॥व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका ।
मुण्डमालाधरा घोरा शुष्कवापीसमोदरा
॥४०॥खड्गपाशधरातीव भीषणा भयदायिनी ।
खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा
॥४१॥विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः ।
विस्तारजघना वेगाज्जघानासुरसैनिकान्
॥४२॥करे कृत्वा महावीरांस्तरसा सा रुषान्विता ।
मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः
॥४३॥गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे ।
सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह
॥४४॥तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह ।
निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम्
॥४५॥हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ ।
छादयामासतुर्देवीं बाणासारैरनन्तरैः
॥४६॥चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् ।
चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः
॥४७॥नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् ।
बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम्
॥४८॥तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः ।
मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम्
॥४९॥पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा ।
चकार शरवृष्टिञ्च कालिकोपरि कोपतः
॥५०॥चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् ।
ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात्
॥५१॥अर्धचन्द्रेण बाणेन ताडयामास तं पुनः ।
पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः
॥५२॥हाहाकारो महानासीद्दानवानां बले तदा ।
जहर्षुरमराः सर्वे गगनस्था गतव्यथाः
॥५३॥विहाय मूर्च्छां चण्डस्तु संगृह्य महतीं गदाम् ।
तरसा ताडयामास कालिकां दक्षिणे भुजे
॥५४॥वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् ।
तरसा बाणपाशेन मन्त्रमुक्तेन कालिका
॥५५॥उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् ।
आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम्
॥५६॥आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् ।
बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम्
॥५७॥गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव ।
कुर्वती विपुलं हासमाजगामाम्बिकां प्रति
॥५८॥आगत्य तामथोवाच गृहाणेमौ पशू प्रिये ।
रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ
॥५९॥तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव ।
अम्बिका कालिकां प्राह माधुरीसंयुतं वचः
॥६०॥वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये ।
देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया
॥६१॥व्यास उवाच
इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः ।
युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते
॥६२॥आलम्भञ्च करिष्यामि यथा हिंसा न जायते ।
इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः
॥६३॥चकर्त तरसा काली पपौ च रुधिरं मुदा ।
एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका
॥६४॥कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् ।
चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके ।
चामुण्डेति सुविख्यातं भविष्यति धरातले
॥६५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥