मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ३१

3
पञ्चमस्कन्धः · 31

शुम्भवधः

व्यास उवाच

इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तदा ।

उवाच सैनिकानाशु कोपाकुलितलोचनः

॥१॥

शुम्भ उवाच

जाल्मा: किं ब्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे ।

निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् २ ।

कालः कर्ता शुभानां वाऽशुभानां बलवत्तरः ।

का चिंता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके

॥३॥

यद्भवति तद्भवतु यत्करोति करोतु तत् ।

न मे चिंताऽस्ति कुत्रापि मरणाज्जीवनात्तथा

॥४॥

स कालोऽप्यन्यथा कर्तुं भावितो नेशते क्वचित् ।

न वर्षति च पर्जन्यः श्रावणे मासि सर्वदा

॥५॥

कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने ।

अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्ययम्

॥६॥

कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् ।

दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः

॥७॥

दैवमेव परं मन्ये धिक्पोरुषमनर्थकम् ।

जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः

॥८॥

रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा ।

तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम्

॥९॥

प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसंमिते ।

निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः

॥१०॥

चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल ।

पतंति भवनात्पंच नव चेंद्रास्तथा पुनः

॥११॥

तथैव त्रिगुणे विष्णुर्मरणायोपकल्पते ।

तथैव द्विगुणे काले शंकरः शांतिमेति च

॥१२॥

का चिंता मरणे मूढा निश्वले दैवनिर्मिते ।

मही महीधराणां च नाशः सूर्यशशांकयोः

॥१३॥

जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।

अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् १४ ।

रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे ।

जयो वा मरणं वापि भवत्वद्यैव दैवतः

॥१५॥

इत्युक्त्वा सैनिकाञ्छुंभो रथमास्थाय सत्वरः ।

प्रययावंबिका यत्र संस्थिता तु हिमाचले

॥१६॥

सैन्यं प्रचलितं तस्य संगे तत्र चतुर्विधम् ।

हस्त्यश्वरथपादातिसंयुतं सायुधं बहु

॥१७॥

तत्र गत्वाऽचले शुम्भः संस्थितां जगदम्बिकाम् ।

त्रैलोक्यमोहिनी कांतामपश्यत्सिंहवाहिनीम्

॥१८॥

सर्वाभरणभूषाढ्यां सर्वलक्षणसंयुताम् ।

स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः

॥१९॥

पुष्पैश्च पूज्यमानां च मंदारपादपोद्भवैः ।

कुर्वाणां शंखनिनदं घंटानादं मनोहरम्

॥२०॥

दृष्ट्वा तां मोहमगमच्छुंभः कामविमोहितः ।

पंचबाणाहतः कामं मनसा समचिंतयत्

॥२१॥

अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् ।

सुकुमाराऽतितन्वंगी सद्यः प्रकटयौवना ।

चित्रमेतदसौ बाला कामभावविवर्जिता

॥२३॥

कामकांतासमा रूपे सर्वलक्षणलक्षिता ।

अम्बिकेयं किमेतत्तु हंति सर्वान्महाबलान्

॥२४॥

उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् ।

न मंत्रा वा मरालाक्षीसाधने सन्निधौ मम

॥२५॥

सर्वमंत्रमयी ह्येषा मोहिनी मदगर्विता।

सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी

॥२६॥

पातालगमनं मेऽत्र न युक्तं समरांगणात् ।

सामदानविभेदैश्च नेयं साध्या महाबला

॥२७॥

किं कर्तव्यं क्व गंतव्यं विषमे समुपस्थिते ।

मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत्

॥२८॥

मरणं ऋषिभिः प्रोक्तं संगरे मंगलास्पदम् ।

यत्तत्समानबलयोर्योधयोर्युध्यतोः किल

॥२९॥

प्राप्तेयं दैवरचिता नारी नरशतोत्तमा ।

नाशायास्मत्कुलस्येह सर्वथाऽतिबलाऽबला

॥३०॥

वृथा किं सामवाक्यानि मया योज्यानि सांप्रतम् ।

हननायागता ह्येषा किं नु साम्ना प्रसीदति

॥३१॥

न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता ।

भेदस्तु विफलः कामं सर्वदेववशानुगा

॥३२॥

तस्मात्तु मरणं श्रेयो न संग्रामे पलायनम् ।

जयो वा मरणं वाऽद्य भवत्वेव यथाविधि

॥३३॥

व्यास उवाच

इति संचिंत्यमानः स शुम्भः सत्त्वाश्रितोऽभवत् ।

युद्धाय सुस्थिरो भूत्वा तामुवाच पुरः स्थिताम् ३४ ।

देवि युध्यस्व कान्तेऽद्य वृथाऽयं ते परिश्रमः ।

मूर्खाऽसि किल नारीणां नायं धर्मः कदाचन ३५ ।

नारीणां लोचने बाणा भ्रुवावेव शरासनम् ।

हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः

॥३६॥

सन्नाहश्चांगरागोऽत्र रथश्चापि मनोरथः ।

मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन

॥३७॥

अन्यास्त्रधारणं स्त्रीणां स्त्रीणां विडंबनमसंशयम् ।

लज्जैव भूषणं कांते न च धार्ष्ट्यं कदाचन

॥३८॥

युध्यमाना वरा नारी कर्कशेवाभिदृश्यते ।

स्तनौ संगोपनीयौ वा धनुषः कर्षणे कथम्

॥३९॥

क्व मन्दगमनं कुत्र गदामादाय धावनम् ।

बुद्धिदा कालिका तेऽत्र चामुंडा परनायिका

॥४०॥

चंडिकामन्त्रमध्यस्था लालनेऽसुस्वरा शिवा ।

वाहनं मृगराडास्ते सर्वसत्त्वभयंकरः

॥४१॥

वीणानादं परित्यज्य घंटानादं करोषि यत् ।

रूपयौवनयोः सर्वं विरोधि वरवर्णिनि

॥४२॥

यदि ते संगरेच्छाऽस्ति कुरूपा भव भामिनि ।

लम्बोष्ठी कुनखी क्रूरा ध्वांक्षवर्णा विलोचना

॥४३॥

लम्बपादा कुदन्ती च मार्जारनयनाकृतिः ।

ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव

॥४४॥

कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् ।

ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति

॥४५॥

हन्तुं त्वां मृगशावाक्षि कामकांतोपमे मृधे ।

व्यास उवाच ।

इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका

॥४६॥

स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम ।

देव्युवाच ।

किं विषीदसि मन्दात्मन्कामबाणविमोहितः

॥४७॥

प्रेक्षिकाऽहं स्थिता मूढ कुरु कालिकया मृधम् ।

चामुण्डया वा कुर्वेते तव योग्ये रणांगणे

॥४८॥

प्रहरस्व यथाकामं नाहं त्वां योद्धुमुत्सहे ।

इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा

॥४९॥

जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे ।

व्यास उवाच ।

इत्युक्ता कालिका कालप्रेरिता कालरूपिणी

॥५०॥

गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा ।

तयोः परस्परं युद्धं बभूवातिभयानकम्

॥५१॥

पश्यतां सर्वदेवानां मुनीनां च महात्मनाम् ।

गदामुद्यम्य शुंभोऽथ जघान कालिकां रणे

॥५२॥

कालिका दैत्यराजानं गदया न्यहनद्भृशम्।

बभंजास्य रथं चंडी गदया कनकोज्ज्वलम्

॥५३॥

खरान्हत्वा जघानाशु दारुकं दारुणस्वना।

स पदातिर्गदां गुर्वी समादाय क्रुधान्वितः

॥५४॥

कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा ।

वंचयित्वा गदाघातं खड्गमादाय सत्वरा

॥५५॥

चिच्छेदास्य भुजं सव्यं सायुधं चंदनार्चितम् ।

स छिन्नबाहुविरथो गदापाणि: परिप्लुतः

॥५६॥

अचिरेण समागत्य कालिकामहनत्तदा ।

काली च करवालेन भुजं तस्याथ दक्षिणम्

॥५७॥

चिच्छेद प्रहसंती सा सगदं किल सांगदम् ।

कर्तुं पादप्रहारं स कुपितः प्रययौ जवात्

॥५८॥

काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता ।

सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन्

॥५९॥

धावमानो ययावाशु कालिकां भीषयन्निव ।

तमागच्छंतमालोक्य कालिका कमलोपमम्

॥६०॥

चकर्त मस्तकं कंठाद्रुधिरौघवहं भृशम् ।

छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः

॥६१॥

प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् ।

गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः

॥६२॥

तुष्टुवुस्तां तदा देवीं चामुंडां कालिकां तथा ।

ववुर्वाता: शिवास्तत्र दिशश्च विमला भृशम्

॥६३॥

बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः ।

हतशेषाश्च ये दैत्याः प्रणम्य जगदंबिकाम्

॥६४॥

त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप ।

एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम्

॥६५॥

शुम्भादीनां वधं चैव सुराणां रक्षणं तथा ।

एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः

॥६६॥

शृण्वन्ति च सदा भक्त्या ते कृतार्था भवंति हि ।

अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु

॥६७॥

रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् ।

शत्रुतो न भयं तस्य य इदं चरितं शुभम् ।

शृणोति पठते नित्यं मुक्तिमाञ्जायते नरः

॥६८॥

इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे शुम्भवधो नाम एकत्रिंशोऽध्यायः ॥ ३१ ॥