ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम्
व्यास उवाच
इति तस्य वचः श्रुत्वा महिषो मदविह्वलः ।
मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत्
॥१॥राजोवाच
मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् ।
आगता देवविहिता मायेयं शाम्बरीव किम्
॥२॥कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः ।
सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च
॥३॥मन्त्रिण ऊचुः
सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम ।
कार्यं हितकरं नूनं विचार्य विबुधैः किल
॥४॥सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् ।
यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम्
॥५॥सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते ।
वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः
॥६॥कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह ।
शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये
॥७॥राजोवाच
स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् ।
येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम्
॥८॥बहूनां मतमाज्ञाय विचार्य च पुनः पुनः ।
यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः
॥९॥व्यास उवाच
तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः ।
उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम्
॥१०॥विरूपाक्ष उवाच
राजन्नारी वराकीयं सा ब्रूते मदगर्विता ।
विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया
॥११॥को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः ।
अनृतं साहसं चेति जानन्नारीविचेष्टितम्
॥१२॥जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै ।
दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत्
॥१३॥तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति ।
हनिष्ये तां महाराज निर्भयो भव साम्प्रतम्
॥१४॥सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल ।
निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम्
॥१५॥बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् ।
वशगा तु सदा ते स्यात्पश्य राजन् बलं मम
॥१६॥व्यास उवाच
विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् ।
सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता
॥१७॥ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया ।
कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः
॥१८॥भवत्येवंविधा कामं नायिका रूपगर्विता ।
भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति
॥१९॥हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः ।
वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम्
॥२०॥वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः ।
यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि
॥२१॥हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः ।
बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः
॥२२॥पुष्पाञ्जलिमयाश्चान्ये व्यंग्यानि वचनानि च ।
का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव
॥२३॥तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु ।
ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम्
॥२४॥विपरीतं परिज्ञातं तेनारसविदा किल ।
पातयिष्यामि शय्यायां रणमय्यां पतिं तव
॥२५॥विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् ।
करिष्ये विगतप्राणं यदुक्तं वचनं तया
॥२६॥वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा ।
व्यंग्याधिक्येन वाक्येन वरयत्युत्तमा नृप
॥२७॥तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः ।
इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम्
॥२८॥सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते ।
रुष्टा वा गर्विता वापि वशगा मानिनी भवेत्
॥२९॥तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् ।
किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी
॥३०॥गत्वा मयाधुनैवेयं किङ्करीव सदैव ते ।
व्यास उवाव इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः
॥३१॥उवाच वचनं राजन्निशामय मयोदितम् ।
हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम्
॥३२॥नैषा कामातुरा बाला नानुरक्ता विचक्षणा ।
व्यंग्यानि नैव वाक्यानि तयोक्तानि तु मानद
॥३३॥चित्रमत्र महाबाहो यदेका वरवर्णिनी ।
निरालम्बा समायाति चित्ररूपा मनोहरा
॥३४॥अष्टादशभुजा नारी न श्रुता न च वीक्षिता ।
केनापि त्रिषु लोकेषु पराक्रमवती शुभा
॥३५॥आयुधान्यपि तावन्ति धृतानि बलवन्ति च ।
विपरीतमिदं मन्ये सर्वं कालकृतं नृप
॥३६॥स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि ।
तेन जानाम्यहं नूनं वैशसं समुपागतम्
॥३७॥कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे ।
दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः
॥३८॥विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे ।
उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे
॥३९॥तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि ।
यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया
॥४०॥नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी ।
देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो
॥४१॥कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् ।
कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति
॥४२॥को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा ।
अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः
॥४३॥जीवितं मरणं पुंसां दैवाधीनं नराधिप ।
कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये
॥४४॥महिष उवाच
गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः ।
तामानय वरारोहां जित्वा धर्मेण मानिनीम्
॥४५॥न भवेद्वशगा नारी संग्रामे यदि सा तव ।
हन्तव्या नान्यथा कामं माननीया प्रयत्नतः
॥४६॥वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः ।
येन केनाप्युपायेन जेतव्या वरवर्णिनी
॥४७॥त्वरन्वीर महाबाहो सैन्येन महता वृतः ।
तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः
॥४८॥किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् ।
कामाद्वा वैरभावाच्च माया कस्येयमित्युत
॥४९॥आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् ।
पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम्
॥५०॥कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च ।
यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया
॥५१॥व्यास उवाच
इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः ।
निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम्
॥५२॥गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् ।
विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान्
॥५३॥सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् ।
स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम्
॥५४॥तामुवाच विनीतः सन् वाक्यं मधुरया गिरा ।
सामभावं समाश्रित्य विनयावनतः स्थितः
॥५५॥देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः ।
स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च
॥५६॥भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये ।
पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते
॥५७॥सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् ।
सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः
॥५८॥करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् ।
पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः
॥५९॥भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् ।
कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः
॥६०॥संसारे दुःखदं युद्धं न कर्तव्यं विजानता ।
लोभासक्ताः प्रकुर्वन्ति संग्रामञ्च परस्परम्
॥६१॥पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
भेदनं निजगात्राणां कस्य तज्जायते मुदे
॥६२॥तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि ।
भर्तारं भज मे नाथं देवदानवपूजितम्
॥६३॥स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् ।
त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः
॥६४॥वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् ।
संग्रामे जयसन्देहः कष्टं प्राप्य न संशयः
॥६५॥जानासि राजनीतिं त्वं यथावद्वरवर्णिनि ।
भुंक्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम्
॥६६॥पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति ।
यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि
॥६७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥