मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ९

3
पञ्चमस्कन्धः · 9

महिषमन्त्रिणा देवीवार्तावर्णनम्

व्यास उवाच

देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा ।

ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च

॥१॥

क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे ।

निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम्

॥२॥

ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् ।

कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै

॥३॥

केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् ।

ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः

॥४॥

नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ ।

ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः

॥५॥

तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः ।

अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः

॥६॥

अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् ।

तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत

॥७॥

हिमवानथ सन्तुष्टो रत्नानि विविधानि च ।

ददौ च वाहनं सिंहं कनकाभं मनोहरम्

॥८॥

भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा ।

सिंहारूढा वरारोहा सर्वलक्षणसंयुता

॥९॥

विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् ।

सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम्

॥१०॥

स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् ।

ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम्

॥११॥

वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् ।

घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम्

॥१२॥

हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् ।

प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम्

॥१३॥

इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् ।

मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम्

॥१४॥

स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् ।

घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम्

॥१५॥

ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् ।

येनान्तं सर्वभूतानामकरोत्काल आगते

॥१६॥

ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् ।

ददावस्यै मुदा युक्तो वरुणः पाशमेव च

॥१७॥

कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप ।

परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ

॥१८॥

धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् ।

पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम्

॥१९॥

गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् ।

अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम्

॥२०॥

अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् ।

ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः

॥२१॥

सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः ।

तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम्

॥२२॥

देवा ऊचुः

नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः ।

भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः

॥२३॥

कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः ।

सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः

॥२४॥

पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या ।

अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम्

॥२५॥

मायायां या स्थिता ज्ञाता मायया न च तामजाम् ।

अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम्

॥२६॥

कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् ।

जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम्

॥२७॥

खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् ।

दुःखदं सर्वदेवानां नानारूपधरं शतम्

॥२८॥

त्वमेका सर्वदेवानां शरणं भक्तवत्सले ।

पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते

॥२९॥

व्यास उवाच

एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा ।

तानुवाच महादेवी स्मितपूर्वं शुभं वचः

॥३०॥

देव्युवाच

भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः ।

हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम्

॥३१॥

व्यास उवाच

इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् ।

चित्रमेतच्च संसारे भ्रममोहयुतं जगत्

॥३२॥

ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा ।

कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल

॥३३॥

अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः ।

कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः

॥३४॥

सृष्टिपालनसंहारे समर्था अपि ते यदा ।

मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः

॥३५॥

इति कृत्वा स्मितं देवी साट्टहासं चकार ह ।

उच्चैः शब्दं महाघोरं दानवानां भयप्रदम्

॥३६॥

चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् ।

चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान्

॥३७॥

मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः ।

भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत्

॥३८॥

जय पाहीति देवास्तामूचुः परमहर्षिताः ।

महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः

॥३९॥

किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः ।

गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम्

॥४०॥

कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः ।

देवो वा दानवो वापि यो भवेत्स्वनकारकः

॥४१॥

गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह ।

हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम्

॥४२॥

क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् ।

पराजिताः सुराः कामं न गर्जन्ति भयातुराः

॥४३॥

नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् ।

त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम्

॥४४॥

अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् ।

व्यास उवाच ।

इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम्

॥४५॥

अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् ।

सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम्

॥४६॥

दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु ।

संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः

॥४७॥

सकाशे महिषस्याशु तमूचुः स्वनकारणम् ।

दूता ऊचुः ।

देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना

॥४८॥

सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता ।

न मानुषी नासुरी सा दिव्यरूपा मनोहरा

॥४९॥

सिंहारूढायुधधरा चाष्टादशकरा वरा ।

सा नादं कुरुते नारी लक्ष्यते मदगर्विता

॥५०॥

सुरापानरता कामं जानीमो न सभर्तृका ।

अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः

॥५१॥

जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो ।

न जाने का वरारोहा कस्य वा सा परिग्रहः

॥५२॥

किमर्थमागता चात्र किं चिकीर्षति सुन्दरी ।

द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः

॥५३॥

शृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता ।

दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः

॥५४॥

वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् ।

महिष उवाच ।

गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः

॥५५॥

सामादिभिरुपायैस्त्वं समानय शुभाननाम् ।

नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह

॥५६॥

अहत्वा तां वरारोहां त्वमानय ममान्तिकम् ।

करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा

॥५७॥

प्रीतियुक्ता समायाति यदि सा मृगलोचना ।

रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम्

॥५८॥

श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा ।

व्यास उवाच ।

महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः

॥५९॥

जगाम तरसा कामं गजाश्वरथसंयुतः ।

गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम्

॥६०॥

विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा ।

प्रधान उवाच ।

कासि त्वं मधुरालापे किमत्रागमनं कृतम्

॥६१॥

पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः ।

स जेता सर्वदेवानामवध्यस्तु नरैः किल

॥६२॥

ब्रह्मणो वरदानेन गर्वितश्चारुलोचने ।

दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा

॥६३॥

श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् ।

द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः

॥६४॥

मानुषं रूपमादाय त्वत्समीपं समेष्यति ।

यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम्

॥६५॥

तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः ।

नो चेदिहानयाम्येनं राजानं भक्तितत्परम्

॥६६॥

तथा करोमि देवेशि यथा ते मनसेप्सितम् ।

वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव

॥६७॥

करभोरु वदाशु त्वं संविधेयं मया तथा

॥६८॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ ९ ॥