देवकृतदेव्याराधनवर्णनम्
व्यास उवाच
पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह ।
एवं वर्षसहस्रं तु जगाम नृपसत्तम
॥१॥भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् ।
गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः
॥२॥किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः ।
उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये
॥३॥उपचारपरा नूनं वेदमन्त्राः सहस्रशः ।
वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल
॥४॥इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः ।
ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः
॥५॥विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे ।
तं कुरुष्वाद्य विधिवद्यथा नो दुःखसंक्षयः
॥६॥भवेदांगिरसाद्यैव तथा त्वं कर्तुमर्हसि ।
दानवानां विनाशाय अभिचारं यथामति
॥७॥बृहस्पतिरुवाच
सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते ।
न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः
॥८॥मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् ।
जाताः स्म कालयोगेन किं करोमि प्रसाधनम्
॥९॥इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु ।
ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः
॥१०॥अवश्यम्भाविभावानां प्रतीकारो न विद्यते ।
उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम्
॥११॥दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः ।
उपायवादिनो दैवं प्रवदन्ति निरर्थकम्
॥१२॥दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् ।
केवलं दैवमाश्रित्य न स्थातव्यं कदाचन
॥१३॥उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः ।
तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः
॥१४॥पुरा भगवती तुष्टा जघान महिषासुरम् ।
युष्माभिस्तु स्तुता देवी वरदानं ददावथ
॥१५॥आपदं नाशयिष्यामि संस्मृता वा सदैव हि ।
यदा यदा वो देवेशा आपदो दैवसम्भवाः
॥१६॥प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा ।
स्मृताहं नाशयिष्यामि युष्माकं परमापदः
॥१७॥तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे ।
आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम्
॥१८॥मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः ।
जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति
॥१९॥दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः ।
तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम्
॥२०॥स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति ।
निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम्
॥२१॥सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम्
॥२२॥हिमालयं महाराज देवीध्यानपरायणाः ।
मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि
॥२३॥नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् ।
तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः
॥२४॥नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते ।
नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे
॥२५॥न ते नामसंख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे ।
त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव
॥२६॥स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती ।
सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम्
॥२७॥यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै ।
क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः
॥२८॥कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः ।
दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता
॥२९॥किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव ।
यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम्
॥३०॥न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये ।
कृपापात्रमित्येव मत्वा तथास्मा- न्भयेभ्यः सदा पाहि पातुं समर्थे
॥३१॥विना बाणपातैर्विना मुष्टिघातै- र्विनाशूलखड्गैर्विना शक्तिदण्डैः ।
रिपून्हन्तुमेवासि शक्ता विनोदा- त्तथापीह लोकोपकाराय लीला
॥३२॥इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा ।
वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति
॥३३॥अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः ।
न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता
॥३४॥त्रिभिस्त्वं पुराराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा ।
त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव
॥३५॥ते किं न मन्दमतयो यतयो विमूढा- स्त्वां ये न विश्वजननीं समुपाश्रयन्ति ।
विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम्
॥३६॥ये वैष्णवाः पाशपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् ।
ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम्
॥३७॥हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा ।
भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः
॥३८॥जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् ।
त्रिनयनोऽपि धराधरजाङ्घ्रिपं- कजपरागनिषेवणतत्परः
॥३९॥किमपरस्य नरस्य कथानकै- स्तव पदाब्जयुगं न भजन्ति के ।
विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते
॥४०॥देवि त्वदङ्घ्रिभजने न जना रता ये संसारकूपपतिताः पतिताः किलामी ।
ते कुष्ठगुल्मशिरआधियुता भवन्ति दारिद्र्यदैन्यसहिता रहिताः सुखौघैः
॥४१॥ये काष्ठभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः ।
जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भवे जननि तैर्न कृता कदापि
॥४२॥व्यास उवाच
एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता ।
प्रादुर्बभूव तरसा रूपयौवनसंयुता
॥४३॥दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।
दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता
॥४४॥जगन्मोहनलावण्या सर्वलक्षणलक्षिता ।
अद्वितीयस्वरूपा सा देवानां दर्शनं गता
॥४५॥जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् ।
दिव्यरूपधरा देवी विश्वमोहनमोहिनी
॥४६॥देवान्स्तुतिपरानाह मेघगम्भीरया गिरा ।
प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी
॥४७॥देव्युवाच
भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् ।
किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः
॥४८॥व्यास उवाच
तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा ।
प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः
॥४९॥देवा ऊचुः
देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे ।
पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान्
॥५०॥पुरा त्वया महादेवि निहत्यासुरकण्टकम् ।
महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि
॥५१॥स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् ।
तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि
॥५२॥अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ ।
उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल
॥५३॥रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ ।
एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः
॥५४॥गतिरन्या न चास्माकं त्वमेवासि महाबले ।
कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे
॥५५॥देवास्त्वदङ्घ्रिभजने निरताः सदैव ते दानवैरतिबलैर्विपदं सुनीताः ।
तान्देवि दुःखरहितान् कुरु भक्तियुक्ता- न्मातस्त्वमेव शरणं भव दुःखितानाम्
॥५६॥सकलभुवनरक्षा देवि कार्या त्वयाद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ ।
जननि जगति पीडां दानवा दर्पयुक्ताः स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः
॥५७॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥