मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १२

3
पञ्चमस्कन्धः · 12

देवीपराजयकरणाय दुर्धरप्रबोधवचनम्

व्यास उवाच

तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका ।

मेघगम्भीरया वाचा हसन्ती तमुवाच ह

॥१॥

देव्युवाच

गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् ।

महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम्

॥२॥

यथा ते महिषी माता प्रौढा यवसभक्षिणी ।

नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी

॥३॥

न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् ।

धनदं वरुणं नैव ब्रह्माणं न च पावकम्

॥४॥

एतान्देवगणान्हित्वा पशुं केन गुणेन वै ।

वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति

॥५॥

नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः ।

सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः

॥६॥

निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः ।

सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः

॥७॥

सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः ।

तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे

॥८॥

प्रबुध्य युध्यतां कामं करोमि यमवाहनम् ।

अथवा मनुजानां वै करिष्ये जलवाहकम्

॥९॥

जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै ।

समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे

॥१०॥

कामं सदृशयोर्योगः संसारे सुखदो भवेत् ।

अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः

॥११॥

मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि ।

क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः

॥१२॥

गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् ।

यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव

॥१३॥

व्यास उवाच

इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् ।

कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम्

॥१४॥

चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः ।

गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात्

॥१५॥

ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा ।

पलायनं ततः कृत्वा जगाम महिषान्तिकम्

॥१६॥

नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् ।

बधिरीकृतकर्णाश्च पलायनपरा नृप

॥१७॥

तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः ।

तेन नादेन दैतेया भयं जग्मुरपि स्फुटम्

॥१८॥

ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः ।

चिन्तयामास सचिवैः किं कर्तव्यमतः परम्

॥१९॥

दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः ।

पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः

॥२०॥

बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः ।

मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये

॥२१॥

मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः ।

मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः

॥२२॥

मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा ।

तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता

॥२३॥

तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् ।

कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम्

॥२४॥

या योषात्र समायाता प्रबला देवनिर्मिता ।

एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम्

॥२५॥

युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् ।

श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये

॥२६॥

न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः ।

दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ

॥२७॥

उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् ।

अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः

॥२८॥

तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् ।

न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते

॥२९॥

उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् ।

विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात्

॥३०॥

व्यास उवाच

इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः ।

बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः

॥३१॥

राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः ।

किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः

॥३२॥

मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः ।

प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा

॥३३॥

तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः ।

समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः

॥३४॥

पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः ।

वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति

॥३५॥

एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप ।

भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा

॥३६॥

योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो ।

प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते

॥३७॥

तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् ।

विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम्

॥३८॥

विचारोऽत्र महानस्ति यदेका कामिनी नृप ।

युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः

॥३९॥

दुर्मुख उवाच

राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल ।

पलायनं न कर्तव्यं यशोहानिकरं नृणाम्

॥४०॥

इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् ।

एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम्

॥४१॥

तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः ।

यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः

॥४२॥

मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् ।

उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै

॥४३॥

पलायने यशोहानिर्मरणं चायुषः क्षये ।

तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा

॥४४॥

व्यास उवाच

दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् ।

प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः

॥४५॥

बाष्कल उवाच

राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये ।

अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम्

॥४६॥

उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च ।

भयानको भवेद्वैरी वीरस्य नृपसत्तम

॥४७॥

तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् ।

नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम्

॥४८॥

न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि ।

वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः

॥४९॥

एकाकिनी तथा नारी किं पुनर्मदगर्विता ।

अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः

॥५०॥

पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् ।

भवतात्र न गन्तव्यं संग्रामेऽप्यनया समम्

॥५१॥

व्यास उवाच

एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते ।

प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत्

॥५२॥

दुर्धर उवाच

महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् ।

अष्टादशभुजां रम्यां कारणाच्च समागताम्

॥५३॥

राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः ।

विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम्

॥५४॥

राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु ।

सात्त्विका राजसाः केचित्तामसाश्च तथापरे

॥५५॥

मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप ।

सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः

॥५६॥

आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः ।

एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः

॥५७॥

राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा ।

कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया

॥५८॥

तामसा लोभनिरताः स्वकार्यनिरताः सदा ।

प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते

॥५९॥

समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः ।

स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः

॥६०॥

कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा ।

संग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा

॥६१॥

विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन ।

विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि

॥६२॥

खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः ।

तामसाः पापनिरता बुद्धिहीनाः शठास्तथा

॥६३॥

तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके ।

चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम

॥६४॥

गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः ।

पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः

॥६५॥

इति श्रीमद्देवीभागवते महायुराणेऽष्टादशसाह्स्र्यां संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ १२ ॥