राजपुत्रीमन्दोदरीवृत्तवर्णनम्
व्यास उवाच
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मंदोदरी नारी कोऽसौ त्यक्तो नृपस्तया
॥१॥शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः
॥२॥महिष उवाच
सिंहलो नाम देशो ऽस्ति विख्यातः पृथिवीतले ।
घनपादपसंयुक्तो धनधान्यसमृद्धिमान्
॥३॥चंद्रसेनाऽभिधस्तत्र राजा धर्मपरायणः ।
न्यायदंडधरः शांतः प्रजापालनतत्परः
॥४॥सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ।
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः
॥५॥तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ।
सदाचाराऽतिसुमुखीं पतिभक्तिपरायणा
॥६॥नाम्ना गुणवती कांता सर्वलक्षणसंयुता ।
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम्
॥७॥पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम् ।
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः
॥८॥इंदोः कलेव चात्यर्थं ववृधे सा दिनेदिने ।
दशवर्षा यदा जाता कन्या चातिमनोहरा
॥९॥वरार्थं नृपतिश्चिन्तामवाप च दिनेदिने ।
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः
॥१०॥तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः ।
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः
॥११॥सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः ।
राज्ञा पृष्टा तदा राज्ञा नाम्ना गुणवती प्रिया
॥१२॥कंबुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ।
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम्
॥१३॥विवाहं ते पिता कर्तुं कंबुग्रीवेण वांछति ।
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा
॥१४॥नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ।
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा
॥१५॥स्वातंत्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ।
पारतंत्र्य परंदुःखं मातः संसारसागरे
॥१६॥स्वातंत्र्या न्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदा ।
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम्
॥१७॥विवाहे वर्तमाने तु पावकस्य च सन्निधौ ।
वक्तव्यं वचनं सम्यक्त्वदधीनाऽस्मि सर्वदा
॥१८॥श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ।
पतिचिंत्तानुवर्तित्वं दुःखादुः खतरं स्मृतम्
॥१९॥कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ।
तदा महत्तरं दुःखं सपत्नीसंभवं भवेत्
॥२०॥तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ।
संसारे क्व सुखं मातर्नारीणां च विशेषतः
॥२१॥स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ।
श्रुतं मया पुरा मातरुत्तानचरणात्मजः
॥२२॥उत्तमः सर्वधर्मज्ञो धुवादवरजो नृपः ।
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम्
॥२३॥अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम् ।
एवंविधानि दुःखानि विद्यमाने तु भर्तरि
॥२४॥कालयोगान्मृते तस्मिन्नारी स्याद् दुःखभाजनम् ।
वैधव्यं परमं दुःखं शोक संतापकारकम्
॥२५॥परोषि(पि?)तपतित्वेऽपि दुःखं स्यादधिकं गृहे ।
मदनाग्निविदग्धायाः किं सुख पति संगजम्
॥२६॥तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ।
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा
॥२७॥न च वांछति भर्तारं कौमारव्रतधारिणी ।
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा
॥२८॥न कांक्षति पतिं कर्तुं बहुदोषविचक्षणा ।
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः
॥२९॥विवाहो न कृतः पुत्र्या ज्ञात्वा भाववि वर्जिताम् ।
वर्तमाना गृहेष्वेवं पित्रा मात्रा च रक्षिता
॥३०॥यौवनस्यांकुरा जाता नारीणां काम दीपकाः ।
तथाऽपि सा वयस्याभिः प्रेरिताऽपि पुनः पुनः
॥३१॥चकमे न पतिं कर्तुं ज्ञानार्थपद भाषिणी ।
एकदोद्यानदेशे सा विहर्तुं बहुपादपे
॥३२॥जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता ।
रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः
॥३३॥पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता ।
कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा
॥३४॥आजगाम महावीरो वीरसेनोऽतिविश्रुतः ।
एकाकी रथमारूढः कतिचित्सेवकैर्वृतः
॥३५॥सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः ।
दृष्टस्तस्या वयस्या तु दूरतः पार्थिवस्तदा
॥३६॥मंदोदर्यै तथा प्रोक्तं समायाति नरः पथि ।
रथारूढो महाबाहू रूपवान्मदनोऽपरः
॥३७॥मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह ।
एवं ब्रुवत्यां तत्रासौ कोशलेन्द्रः समागतः
॥३८॥दृष्ट्वा तामसितापांगीं विस्मयं प्राप भूपतिः ।
उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम्
॥३९॥केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे ।
एवं पृष्टा तु सैरंध्री तमुवाच शुचिस्मिता
॥४०॥प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचनम् ।
कोऽसि त्वं किमिहायातः किं कार्यं वद सांप्रतम्
॥४१॥इति पृष्टस्तु सैरंध्र्या तामु वाच महीपतिः ।
कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः
॥४२॥तस्य पालयिता चाहं वीरसेनाभिधः प्रिये ।
वाहिनी पृष्ठतः कामं समायाति चतुर्विधा
॥४३॥मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् ।
सैरंध्र्युवाच ।
चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल
॥४४॥उद्याने रंतुकामेयं प्राप्ता कमल लोचना ।
श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम्
॥४५॥सैरंध्रि चतुराऽसि त्वं राजपुत्रीं प्रबोधय ।
ककुत्स्थवंशजश्चाहं राजाऽस्मि चारुलोचने
॥४६॥गांधर्वेण विवाहेन पतिं मां कुरु कामिनि ।
न मे भार्याऽस्ति सुश्रोणि वयसोऽद्भुतयौवनाम्
॥४७॥वांछामि रूपसंपन्नां सुकुलां कामिनीं किल ।
अथवा ते पिता मह्यं विधिना दातुमर्हति
॥४८॥अनुकूल पतिश्चाहं भविष्यामि न संशयः ।
महिष उवाच ।
इत्याऽऽकर्ण्य वचस्तस्य सैरंध्री प्राह तां तदा
॥४९॥प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा ।
मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः
॥५०॥रूपवान्बलवान्कांतो वयसा त्वत्समः पुनः ।
प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा
॥५१॥पिताऽपि ते विशालाक्षि परितप्यति सर्वथा ।
विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम्
॥५२॥इत्याहाऽस्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः ।
पुत्रीं प्रबोधयत्वेतां सैरंध्र्यः सेवने रताः
॥५३॥वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः ।
भर्तुः शुश्रूषणं स्त्रीणां परो धमोंऽब्रवीन्मनुः
॥५४॥भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् ।
तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम्
॥५५॥मन्दोदर्युवाच
नाऽहं पतिं करिष्यामि चरिष्ये तपमद्भुतम् ।
निवारय नृपं बाले किं मां पश्यति निस्त्रपः
॥५६॥सैरंध्र्युवाच
दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः ।
तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुंदरि
॥५७॥अन्यथा व्यसनं नूनमा पतेदिति निश्चयः ।
इति तस्या वचः श्रुत्वा कन्यो वाचाथ तां सखीम्
॥५८॥यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् ।
न विवाहं करिष्येऽहं सर्वथा परिचारिके
॥५९॥महिष उवाच
इति तस्यास्तु निर्बंधं ज्ञात्वा प्राह नृपं पुनः ।
गच्छ राजन्यथा कामं नेयमिच्छति सत्पतिम्
॥६०॥नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया ।
कोशलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः
॥६१॥इति श्रीदेवी भागवते महापुराणे पचमस्कंधे सप्तदशोऽध्यायः ॥ १७ ॥