भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम्
राजोवाच
भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् ।
पूजाविधिं च मन्त्रांश्च तथा होमविधिं वद
॥१॥ऋषिरुवाच
शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् ।
कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम्
॥२॥आदौ स्नानविधिं कृत्वा शुचिः शुक्लांबरो नरः ।
आचम्य प्रयतः कृत्वा शुभमायतनं निजम्
॥३॥ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् ।
तत्रोपविश्य विधिवत्त्रिराचम्य मुदान्वितः
॥४॥पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः ।
प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च
॥५॥कुर्यात्प्राणप्रतिष्ठां तु संभारं प्रोक्ष्य मंत्रतः ।
कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि
॥६॥शुभे ताम्रमये पात्रे चंदनेन सितेन च ।
षट्कोणं विलिखेद्यंत्रं चाष्टकोणं ततो बहिः
॥७॥नवाक्षरस्य मंत्रस्य बीजानि विलिखेत्ततः ।
कृत्वा यंत्रप्रतिष्ठां च वेदोक्तां संविधाय च
॥८॥अर्चां वा धातवीं कुर्यात्पूजामंत्रैः शिवोदितैः ।
पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः
॥९॥कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः ।
जपेन्नवाक्षरं मंत्रं सततं ध्यानपूर्वकम्
॥१०॥होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् ।
भोजनं ब्राह्मणानां च तद्दशांशेन कारयेत्
॥११॥चरित्रत्रयपाठं च नित्यं कुर्याद्विसर्जयेत् ।
नवरात्रव्रतं चैव विधेयं विधिपूर्वकम्
॥१२॥आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप ।
नवरात्रो(त्रा)पवासो वै कर्तव्यः शुभमिच्छता
॥१३॥होमः सुविपुल: कार्यो जप्यमंत्रैः सुपायसैः ।
शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः
॥१४॥छागमांसेन वा कार्यों बिल्वपत्रैस्तथा शुभैः ।
हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः
॥१५॥अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः ।
कर्तव्यं पूजनं देव्या ब्राह्मणानां च भोजनम्
॥१६॥निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते ।
अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः
॥१७॥राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् ।
शत्रुभिः पीडितो हंति रिपुं मायाप्रसादतः
॥१८॥विद्यार्थी पूजनं यस्तु करोति नियतेंद्रियः ।
अनवद्यां शुभां विद्यां विंदते नात्र संशयः
॥१९॥ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः ।
पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत्
॥२०॥नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः ।
वांछितं फलमाप्नोति सर्वदा भक्तितत्परः
॥२१॥आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् ।
करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात्
॥२२॥विधिवन्मंडलं कृत्वा पूजास्थानं प्रकल्पयेत् ।
कलशं स्थापयेत्तत्र वेदमंत्रविधानतः
॥२३॥यंत्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि ।
वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान्
॥२४॥कृत्वोपरि वितानं च पुष्पमालासमावृतम् ।
धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम्
॥२५॥त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः ।
वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने
॥२६॥धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः ।
गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा
॥२७॥उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः ।
कन्यकानां पूजनं च विधेयं विधिपूर्वकम्
॥२८॥चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा ।
सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः
॥२९॥एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः ।
अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम्
॥३०॥ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने ।
कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः
॥३१॥एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः ।
नारी वा सधवा भक्त्या विधवा वा पतिव्रता
॥३२॥इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् ।
देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः
॥३३॥जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी।
जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः
॥३४॥नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् ।
आराधनं शिवायास्तु सर्वसौख्यकरं परम्
॥३५॥अनेन विधिना राजन्समाराधय चण्डिकाम् ।
जित्वा रिपूनस्खलितं राज्यं प्राप्स्यत्यनुत्तमम्
॥३६॥सुखं च परमं भूप देहेऽस्मिन्स्वगृहे पुनः ।
पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः
॥३७॥वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् ।
देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम्
॥३८॥स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः ।
सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः
॥३९॥देवीलोके शुभे वासो भविता ते न संशयः ।
नाराधिता भगवती यैस्ते नरकभागिनः
॥४०॥इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः ।
भवंति मानवा राजञ्छत्रुभिश्च पराजिताः
॥४१॥निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः ।
बिल्बीदलैः करवीरैः शतपत्रैश्च चम्पकैः
॥४२॥अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः ।
भवंति कृतपुण्यास्ते शक्तिभक्तिपरायणाः
॥४३॥धनविभवसुखाढ्या मानवा मानवंतः सकलगुणगणानां भाजनं भारतीशाः ।
निगमपठितमन्त्रैः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवंतीह लोके
॥४४॥इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥