रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम्
व्यास उवाच
हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः ।
पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति
॥१॥भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा ।
रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे
॥२॥गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः ।
रक्ष रक्ष महाराज भक्षयत्यद्य कालिका
॥३॥तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ ।
भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः
॥४॥भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो ।
पातितैर्गजवीराश्वैर्दासेरकपदातिभिः
॥५॥शोणितौघवहा कुल्या कृता मांसातिकर्दमा ।
केशशैवलिनी भग्नरथचक्रविराजिता
॥६॥छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता ।
भयदा कातराणां वै सुराणां मोदवर्धिनी
॥७॥कुलं रक्ष महाराज पातालं गच्छ सत्वरम् ।
क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः
॥८॥सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर ।
तथैव कालिका देवी हन्ति बाणैरनेकधा
॥९॥तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् ।
करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः
॥१०॥किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी ।
यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान्
॥११॥दैवाधीनौ महाराज लोके जयपराजयौ ।
अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत्
॥१२॥चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो ।
निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया
॥१३॥जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् ।
एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः
॥१४॥पुरा त्वया तपस्तप्तं पुष्करे देवतायने ।
वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः
॥१५॥धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत ।
तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल
॥१६॥देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम ।
सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि
॥१७॥तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो ।
युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना
॥१८॥देवी ह्येषा महामाया प्रकृतिः परमा मता ।
कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी
॥१९॥उत्पादयित्री लोकानां देवानामीश्वरी शुभा ।
त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता
॥२०॥अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता ।
वेदमाता च गायत्री सन्ध्या सर्वसुरालया
॥२१॥निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया ।
आनन्दानन्ददा गौरी देवानामभयप्रदा
॥२२॥एवं ज्ञात्वा महाराज वैरभावं त्यजानया ।
शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति
॥२३॥आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् ।
हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः
॥२४॥व्यास उवाच
इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः ।
उवाच वचनं तथ्यं वीरवर्यगुणान्वितम्
॥२५॥शुम्भ उवाच
मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् ।
शीघ्रं गच्छत पातालं जीविताशा बलीयसी
॥२६॥दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम ।
देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा
॥२७॥ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा ।
सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल
॥२८॥का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति ।
उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता
॥२९॥सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् ।
स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात्
॥३०॥सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् ।
काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम्
॥३१॥ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः ।
नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः
॥३२॥तथाहमपि कालस्य वशगः सर्वथाधुना ।
नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात्
॥३३॥आहूतोऽप्यनया कामं युद्धायाबलया किल ।
कथं पलायनपरो जीवेयं शरदां शतम्
॥३४॥करिष्याम्यद्य संग्रामं यद्भावि तद्भवत्विह ।
जयो वा मरणं वापि स्वीकरोमि यथा तथा
॥३५॥दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः ।
युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम्
॥३६॥उद्यमेन विना कामं न सिध्यन्ति मनोरथाः ।
कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति
॥३७॥अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः ।
प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम्
॥३८॥अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका ।
अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा
॥३९॥चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी ।
उद्यमेन विना पिष्टं न भवत्येव सर्वथा
॥४०॥उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा ।
कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि
॥४१॥देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् ।
कृतं कार्यं भवत्येव बृहस्पतिवचो यथा
॥४२॥व्यास उवाच
इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् ।
प्रेषयामास संग्रामे सैन्येन महताऽऽवृतम्
॥४३॥शुम्भ उवाच
रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे ।
कुरु युद्धं महाभाग यथा ते बलमाहितम्
॥४४॥रक्तबीज उवाच
महाराज न ते कार्या चिन्ता स्वल्पतरापि वा ।
अहमेनां हनिष्यामि करिष्यामि वशे तव
॥४५॥पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया ।
दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात्
॥४६॥व्यास उवाच
इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः ।
जगाम रथमारुह्य स्वसैन्यपरिवारितः
॥४७॥हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः ।
निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम्
॥४८॥तमागतं समालोक्य देवी शङ्खमवादयत् ।
भयदं सर्वदैत्यानां देवानां मोदवर्धनम्
॥४९॥श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् ।
गत्वा समीपे चामुण्डां बभाषे वचनं मृदु
॥५०॥रक्तबीज उवाच
बाले किं मां भीषयसि मत्वा त्वं कातरं किल ।
शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम्
॥५१॥रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः ।
युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे
॥५२॥पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया ।
नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि
॥५३॥वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया ।
पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा
॥५४॥साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि ।
शृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम्
॥५५॥रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ ।
शृङ्गारकः शान्तिरसो विद्वज्जनसभासु च
॥५६॥तयोः शृङ्गार एवादौ नृपभावे प्रतिष्ठितः ।
विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः
॥५७॥शच्येन्द्रः शैलसुतया शङ्करः सह शेरते ।
वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः
॥५८॥एवं सर्वे प्राणभृतः संयोगरसिका भृशम् ।
अप्राप्तभोगविभवा ये चान्ये कातरा नराः
॥५९॥भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः ।
असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः
॥६०॥मधुरालापनिपुणै रताः शान्तिरसे हि ते ।
क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे
॥६१॥लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके ।
तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम्
॥६२॥शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् ।
व्यास उवाच ।
इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः ।
श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥