महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम्
व्यास उवाच
ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः ।
समुद्यम्य गदां गुर्वीं देवानुपजगाम ह
॥१॥तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल ।
सर्वे बलिभुजः कामं बलहीनाः सदैव हि
॥२॥इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः ।
जघान गदया तूर्णं बाहुमूले महाभुजः
॥३॥सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् ।
प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति
॥४॥हयारिरपि कोपेन खड्गमादाय सुप्रभम् ।
ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम्
॥५॥बभूव च तयोर्युद्धं सर्वलोकभयावहम् ।
आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम्
॥६॥चकाराशु तदा दैत्यो मायां मोहकरीं किल ।
शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम्
॥७॥कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः ।
ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम्
॥८॥मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् ।
बभूवातिभयोद्विग्नो मायां मोहकरीं किल
॥९॥वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः ।
यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः
॥१०॥पलायनपरा सर्वे बभूवुर्मोहिताः सुराः ।
ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः
॥११॥तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः ।
हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः
॥१२॥शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् ।
मुमोच तत्तेजसैव माया सा विलयं गता
॥१३॥वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः ।
योद्धुकामः समादाय परिघं समुपाद्रवत्
॥१४॥महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा ।
उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः
॥१५॥असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च ।
एते चान्ये च बहवो युद्धकामा विनिर्ययुः
॥१६॥सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः ।
परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान्
॥१७॥बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः ।
सुराश्चापि तथा चक्रुः परस्परजिघांसवः
॥१८॥अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् ।
मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान्
॥१९॥वासुदेवोऽप्यसंप्राप्तान्विशिखानाशुगैस्तदा ।
चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः
॥२०॥तयोः परस्परं युद्धं बभूव हरिदैत्ययोः ।
बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः
॥२१॥महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् ।
पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम्
॥२२॥इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः ।
यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः
॥२३॥असिलोमवरुणयोर्युद्धं परमदारुणम् ।
गरुडं गदया दैत्यो जघान हरिवाहनम्
॥२४॥स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत ।
शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन्
॥२५॥स्थिरं चकार देवेशो वैनतेयं महाबलम् ।
समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून्
॥२६॥अन्धकोपरि कोपेन हन्तुकामो जनार्दनः ।
दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः
॥२७॥पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः ।
वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान्
॥२८॥चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् ।
त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत्
॥२९॥ननाद च महाराज देवान्सम्मोहयन्निव ।
दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः
॥३०॥जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा ।
वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान्
॥३१॥गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् ।
तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः
॥३२॥स गदाभिहतो भूमौ निपपातातिमूर्च्छितः ।
तं तथा पतितं वीक्ष्य हयारिरतिकोपनः
॥३३॥आजगाम रमानाथं त्रासयन्नतिगर्जितैः ।
वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम्
॥३४॥चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् ।
शरवृष्टिं चकाराशु भगवान्महिषोपरि
॥३५॥सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् ।
तयोर्युद्धमभूद्राजन् परस्परभयावहम्
॥३६॥गदया ताडयामास केशवो मस्तकोपरि ।
स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः
॥३७॥हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः ।
स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः
॥३८॥गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् ।
परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः
॥३९॥मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् ।
परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः
॥४०॥भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे ।
क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा
॥४१॥महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः ।
सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम्
॥४२॥जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् ।
शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः
॥४३॥तं जघान त्रिशूलेन कोपादरुणलोचनः ।
संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना
॥४४॥आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् ।
महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ
॥४५॥युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ ।
कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ
॥४६॥जगाम सम्मुखस्तावत्संग्रामार्थं महाभुजः ।
माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम्
॥४७॥चकार भैरवं नादं त्रासयन्नमरानपि ।
धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा
॥४८॥शृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् ।
दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ
॥४९॥चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् ।
कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः
॥५०॥चिक्षेप गिरिशृङ्गं तु पुच्छेनावृत्य दारुणम् ।
आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः
॥५१॥विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् ।
हरिचक्राहतः संख्ये मूर्च्छामाप स दैत्यराट्
॥५२॥उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः ।
गदापाणिर्महाघोरो दानवः पर्वतोपमः
॥५३॥मेघनादं ननादोच्चैर्भीषयन्नमरानपि ।
तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम्
॥५४॥पूरयामास तरसा शब्दं कर्तुं खरस्वरम् ।
तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः ।
बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः
॥५५॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥