मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १६

3
पञ्चमस्कन्धः · 16

महिषद्वारा देवीप्रबोधनम्

व्यास उवाच

तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः ।

दारुकं प्राह तरसा रथमानय मेऽद्भुतम्

॥१॥

सहस्रखरसंयुक्तं पताकाध्वजभूषितम् ।

आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम्

॥२॥

सूतोऽपि रथमानीय तमुवाच त्वरान्वितः ।

राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः

॥३॥

सर्वायुधसमायुक्तो वरास्तरणसंयुतः ।

आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः

॥४॥

मानुषं देहमास्थाय संग्रामे गन्तुमुद्यतः ।

विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम्

॥५॥

शृङ्गिणं महिषं नूनं विमना सा भविष्यति ।

नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि

॥६॥

तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति ।

यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति

॥७॥

ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः ।

इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः

॥८॥

त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः ।

सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः

॥९॥

दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः ।

रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः

॥१०॥

सेनापरिवृतो देवीं जगाम मदगर्वितः ।

मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम्

॥११॥

तमागतं समालोक्य दैत्यानामधिपं तदा ।

बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत्

॥१२॥

स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् ।

समीपमेत्य देव्यास्तु तामुवाच हसन्निव

॥१३॥

देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल ।

नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा

॥१४॥

सुखं संयोगजं नॄणां नासंयोगे भवेदिह ।

संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह

॥१५॥

भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः ।

तत्र प्रीतिभवानादौ कथयामि यथामति

॥१६॥

मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः ।

भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः

॥१७॥

उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः ।

तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः

॥१८॥

नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः ।

विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम्

॥१९॥

अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः ।

अत्युत्तमस्तु संयोगः संसारे सुखदः सदा

॥२०॥

नारीपुरुषयोः कान्ते समानवयसो सदा ।

संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः

॥२१॥

अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः ।

चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा

॥२२॥

परस्परसमुत्कर्षः कथ्यते हि परस्परम् ।

तं चेत्करोषि संयोगं वीरेण च मया सह

॥२३॥

अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः ।

नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये

॥२४॥

इन्द्रादयः सुराः सर्वे संग्रामे विजिता मया ।

रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना

॥२५॥

भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा ।

पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि

॥२६॥

वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः ।

यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै

॥२७॥

आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ ।

चित्तं मे तव रूपेण मोहितं चारुभाषिणि

॥२८॥

आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल ।

प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम्

॥२९॥

धर्माणामुत्तमो धर्मः शरणागतरक्षणम् ।

त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि

॥३०॥

मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् ।

पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते

॥३१॥

दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः ।

जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया

॥३२॥

ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् ।

चरितं मम जानन्ति रणे ब्रह्मादयः सुराः

॥३३॥

सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि ।

व्यास उवाच ।

इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा

॥३४॥

प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी ।

देव्युवाच ।

नाहं पुरुषमिच्छामि परमं पुरुषं विना

॥३५॥

तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् ।

स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा

॥३६॥

तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् ।

जडाहं तस्य संयोगात्प्रभवामि सचेतना

॥३७॥

अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा ।

न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते

॥३८॥

मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि ।

नरस्य बन्धनार्थाय शृङ्खला स्त्री प्रकीर्तिता

॥३९॥

लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते ।

किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम्

॥४०॥

शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि ।

नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि

॥४१॥

त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ ।

पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते

॥४२॥

अथवा कुरु संग्रामं बलवत्यस्मि साम्प्रतम् ।

प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव

॥४३॥

सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् ।

दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम्

॥४४॥

सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् ।

मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम्

॥४५॥

हनिष्यामि महाबाहो त्वामहं नात्र संशयः ।

व्यास उवाच ।

इति तस्या वचः श्रुत्वा दानवः काममोहितः

॥४६॥

उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः ।

बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने

॥४७॥

कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् ।

जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः

॥४८॥

किं त्वया सह युद्धं मे युक्तं कमललोचने ।

रोचते यदि चार्वङ्गि विवाहं कुरु मां भज

॥४९॥

नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता ।

नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया

॥५०॥

हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् ।

का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम्

॥५१॥

स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया ।

गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने

॥५२॥

तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः ।

प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः

॥५३॥

पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् ।

तत्तथैव हि नारीणां न स्याच्च पुरुषं विना

॥५४॥

संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः ।

कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता

॥५५॥

चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो ।

तवोपदिष्टं केनेदं भोगानां परिवर्जनम्

॥५६॥

वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह ।

मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम्

॥५७॥

सुखं तव ममापि स्याद्विवाहे विहिते किल ।

विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः

॥५८॥

रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा ।

का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम्

॥५९॥

येन त्वमसितापाङ्गि न करोषि पतिं शुभम् ।

कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः

॥६०॥

मादनैः पञ्चभिः कामं न ताडयति मन्दधीः ।

मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि

॥६१॥

अबलेति च मन्वानो न प्रेरयति मार्गणान् ।

मनोभवस्य वैरं वा किमप्यस्ति मया सह

॥६२॥

तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् ।

अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः

॥६३॥

सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि ।

त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि

॥६४॥

मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् ।

अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् ।

कामार्ता च यदा जाता मोहेन व्याकुलान्तरा

॥६५॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषद्वारा देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ १६ ॥