मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय २३

3
पञ्चमस्कन्धः · 23

देव्या सुग्रीवदूताय स्वव्रतकथनम्

व्यास उवाच

एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः ।

स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह

॥१॥

पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा ।

कौशिकीति समस्तेषु ततो लोकेषु पठ्यते

॥२॥

निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् ।

कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता

॥३॥

मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी ।

कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा

॥४॥

अम्बिकायाः परं रूपं विरराज मनोहरम् ।

सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम्

॥५॥

ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता ।

तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह

॥६॥

कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे ।

निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे

॥७॥

इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा ।

कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः

॥८॥

सा गत्वोपवने तस्थावम्बिका कालिकान्विता ।

जगावथ कलं तत्र जगन्मोहनमोहनम्

॥९॥

श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः ।

मुदञ्च परमां प्रापुरमरा गगने स्थिताः

॥१०॥

तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ ।

चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया

॥११॥

आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् ।

अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम्

॥१२॥

दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ ।

जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम

॥१३॥

तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे ।

ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम्

॥१४॥

राजन् हिमालयात्कामं कामिनी काममोहिनी ।

सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता

॥१५॥

नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा ।

न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा

॥१६॥

गानञ्च तादृशं राजन् करोति जनरञ्जनम् ।

मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः

॥१७॥

ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता ।

गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी

॥१८॥

ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् ।

निश्चितं नास्ति संसारे नारी त्वेवंविधा किल

॥१९॥

देवानां सर्वरत्नानि गृहीतानि त्वया नृप ।

कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम

॥२०॥

इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा ।

गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल

॥२१॥

विमानं वैधसं दिव्यं मरालध्वजसंयुतम् ।

त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम्

॥२२॥

कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः ।

छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात्

॥२३॥

पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम ।

गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च

॥२४॥

अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ ।

भयात्तव महाराज रत्नानि विविधानि च

॥२५॥

मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः ।

त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप

॥२६॥

कामधेनुर्गहीताद्य वर्तते सागरोद्भवा ।

मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः

॥२७॥

एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि ।

कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना

॥२८॥

सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ ।

अनया सम्भविष्यन्ति रत्नभूतानि भूपते

॥२९॥

त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया ।

तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम्

॥३०॥

व्यास उवाच

इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् ।

प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम्

॥३१॥

गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण ।

वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी

॥३२॥

उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः ।

सामदाने इति प्राहुः शृङ्गाररसकोविदाः

॥३३॥

भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते ।

निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः

॥३४॥

सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा ।

का न याति वशे दूत कामिनी कामपीडिता

॥३५॥

व्यास उवाच

सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु ।

जगाम तरसा तत्र यत्रास्ते जगदम्बिका

॥३६॥

सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् ।

प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम्

॥३७॥

दूत उवाच

वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः ।

त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः

॥३८॥

तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना ।

त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता

॥३९॥

वचनं तस्य तन्वङ्गि शृणु प्रेमपुरःसरम् ।

प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि

॥४०॥

देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् ।

यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा

॥४१॥

हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता ।

यानि रत्नानि देवानां तानि चाहृतवानहम्

॥४२॥

भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि ।

वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः

॥४३॥

त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् ।

त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम्

॥४४॥

त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः ।

दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः

॥४५॥

भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् ।

त्रैलोक्यस्वामिनी भूत्वा भुंक्ष्व भोगाननुत्तमान्

॥४६॥

तव चाज्ञाकरः कान्ते भवामि मरणावधि ।

अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः

॥४७॥

सदा सौभाग्यसंयुक्ता भविष्यसि वरानने ।

यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि

॥४८॥

इति तस्य वचश्चित्ते विमृश्य मदमन्थरे ।

वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः

॥४९॥

शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै ।

व्यास उवाच ।

तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम्

॥५०॥

तं प्राह मधुरां वाचं देवी देवार्थसाधिका ।

देव्युवाच ।

जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम्

॥५१॥

जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् ।

राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम्

॥५२॥

दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् ।

द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः

॥५३॥

ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् ।

रत्नं कनकमायाति स्वशोभाधिकवृद्धये

॥५४॥

तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै ।

दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः

॥५५॥

गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः ।

सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः

॥५६॥

श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया ।

गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम्

॥५७॥

निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम ।

त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम्

॥५८॥

दातारं गुणिनं शूरं सर्वविद्याविशारदम् ।

जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम्

॥५९॥

भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् ।

पतिकामास्म्यहं सत्यं तव योग्या नराधिप

॥६०॥

स्वेच्छया नगरे तेऽत्र समायाता महामते ।

ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम

॥६१॥

बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा ।

क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया

॥६२॥

स्वदेहबलदर्पेण सखीनां पुरतो रहः ।

मत्समानबलः शूरो रणे मां जेष्यति स्फुटम्

॥६३॥

तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् ।

जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः

॥६४॥

किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै ।

तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलम्

॥६५॥

जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः ।

त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे ।

जित्वा मां समरेणात्र विवाहं कुरु सुन्दर

॥६६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥