मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ५

3
पञ्चमस्कन्धः · 5

दैत्यसैन्यपराजयः

व्यास उवाच

इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् ।

युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै

॥१॥

नोद्यमेन विना राज्यं न सुखं न च वै यशः ।

निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः

॥२॥

यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ।

उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम्

॥३॥

उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च ।

तथैनं निहनिष्यामि महिषं मुनिसत्तम

॥४॥

बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् ।

सहायस्तु हरिर्नूनं तथोमापतिरव्ययः

॥५॥

रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् ।

स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद

॥६॥

व्यास उवाच

इत्युक्तो देवराजेन वाचस्पतिरुवाच ह ।

सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा

॥७॥

बृहस्पतिरुवाच

प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् ।

सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये

॥८॥

न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते ।

सुखं वा यदि वा दुःखं विहितं च भविष्यति

॥९॥

न मया तत्परिज्ञातं भावि दुःखं सुखं तथा ।

यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि

॥१०॥

शशिना मे हृता भार्या मित्रेणामित्रकर्शन ।

स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम्

॥११॥

बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप ।

क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात्

॥१२॥

तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः ।

कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप

॥१३॥

व्यास उवाच

तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः ।

ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत्

॥१४॥

पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः ।

ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम्

॥१५॥

अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः ।

योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः

॥१६॥

तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः ।

सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि

॥१७॥

ब्रह्मोवाच

गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् ।

शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम्

॥१८॥

ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह ।

मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च

॥१९॥

बलाबलमविज्ञाय विवेकमपहाय च ।

साहसं तु प्रकुर्वाणो नरः पतनमृच्छति

॥२०॥

व्यास उवाच

तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह ।

ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः

॥२१॥

तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् ।

प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति

॥२२॥

स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः ।

महिषात्तद्भयं चोग्रं वरदानमदोद्धतात्

॥२३॥

तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह ।

करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम्

॥२४॥

व्यास उवाच

इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः ।

स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः

॥२५॥

ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः ।

शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः

॥२६॥

मयूरवाहनः स्कन्दो यमो महिषवाहनः ।

कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः

॥२७॥

तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् ।

तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः

॥२८॥

बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः ।

गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः

॥२९॥

मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः ।

अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम्

॥३०॥

सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः ।

मघवन्तं पञ्चभिस्तैः सायकैः समताडयत्

॥३१॥

तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः ।

हृदये चार्धचन्द्रेण ताडयामास तं कृती

॥३२॥

बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि ।

करिणं वज्रघातेन स जघान करे ततः

॥३३॥

तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह ।

दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत्

॥३४॥

गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् ।

वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम्

॥३५॥

व्यास उवाच

तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः ।

आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम्

॥३६॥

वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः ।

जघान विशिखैस्तीक्षौराशीविषसमप्रभैः

॥३७॥

स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।

पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः

॥३८॥

तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः ।

जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः

॥३९॥

स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।

गदया ताडयामास गजं तस्य करोपरि

॥४०॥

स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः ।

परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम्

॥४१॥

दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् ।

समाविश्य रथे रम्ये जगामाशु सुरान् रणे

॥४२॥

तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् ।

अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः

॥४३॥

सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः ।

बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः

॥४४॥

इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः ।

जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः

॥४५॥

जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे ।

पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम्

॥४६॥

स बाणाभिहतस्तावन्निपपात रथोपरि ।

अतिवाह्य रथं सूतो निर्जगाम रणाजिरात्

॥४७॥

तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते ।

जयशब्दो महानासीदुन्दुभीनां च निःस्वनः

॥४८॥

सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् ।

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः

॥४९॥

चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् ।

प्रेषयामास तत्रैव ताम्रं परमदापहम्

॥५०॥

ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे ।

शरवृष्टिं चकाराशु तडित्वानिव सागरे

॥५१॥

वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा ।

यमश्च महिषारूढो दण्डमादाय निर्ययौ

॥५२॥

तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः ।

बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः

॥५३॥

दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च ।

न चचाल महाबाहुः संग्रामाङ्गणतस्तदा

॥५४॥

चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान्।

इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे

॥५५॥

तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः ।

निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः

॥५६॥

निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे ।

हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे

॥५७॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ ५ ॥