मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय २

3
पञ्चमस्कन्धः · 2

महिषासुरोत्पत्तिः

राजोवाच

योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् ।

ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम

॥१॥

महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति ।

यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम्

॥२॥

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते ।

श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः

॥३॥

पुरा युद्धमभूद् घोरं देवदानवसेनयोः ।

पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ

॥४॥

महिषो नाम राजेन्द्र चकार तप उत्तमम् ।

गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम्

॥५॥

वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् ।

तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः

॥६॥

तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः ।

वरं वरय धर्मात्मन्ददामि तव वाच्छितम्

॥७॥

महिष उवाच

अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो ।

यथा मृत्यु भयं न स्यात्तथा कुरु पितामह

॥८॥

ब्रह्मोवाच

उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।

सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल

॥९॥

नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव ।

महामहीधराणां च समुद्राणां च सर्वथा

॥१०॥

एकं स्थानं परित्यज्य मरणस्य महीपते ।

प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते

॥११॥

महिष उवाच

न देवान्मानुषाद्दैत्यान्मरणं मे पितामह ।

पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति

॥१२॥

तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज ।

अबला हन्त मां हन्तुं कथं शक्ता भविष्यति

॥१३॥

ब्रह्मोवाच

यदा कदापि दैत्येन्द्र नार्यास्ते मरणं धुवम् ।

न नरेभ्यो महाभाग मृतिस्ते महिषासुर

॥१४॥

व्यास उवाच

एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् ।

सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः

॥१५॥

राजोवाच

महिषः कस्य पुत्रोऽसौ कथं जातो महाबली ।

कथं च माहिषं रूपं प्राप्तं तेन महात्मना

॥१६॥

व्यास उवाच

दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले ।

रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ

॥१७॥

तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः ।

बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले

॥१८॥

करम्भस्तु जले मग्नश्चकार परमं तपः ।

वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत

॥१९॥

पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् ।

ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति

॥२०॥

गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह ।

वासवस्तु करम्भं तं तदा जग्राह पादयोः

॥२१॥

निजघान च तं दुष्टं करम्भं वृत्रसूदनः ।

भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः

॥२२॥

स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह ।

केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः

॥२३॥

दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।

छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः

॥२४॥

उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।

आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः

॥२५॥

वरं वरय भद्रं ते यस्ते मनसि वर्तते ।

मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति

॥२६॥

व्यास उवाच

तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।

ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम्

॥२७॥

यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् ।

त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः

॥२८॥

अजेयः सर्वथा स स्याद्देवदानवमानवैः ।

कामरूपी महावीर्यः सर्वलोकाभिवन्दितः

॥२९॥

पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।

पुत्रस्तव महाभाग मरणाद्विरमाधुना

॥३०॥

यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि ।

तस्यां पुत्रो महाभाग भविष्यति बलाधिकः

॥३१॥

व्यास उवाच

इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।

श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः

॥३२॥

यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् ।

दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः

॥३३॥

मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् ।

सा समागाच्च तरसा कामयन्ती मुदान्विता

॥३४॥

रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।

सा तु गर्भवती जाता महिषी तस्य वीर्यतः

॥३५॥

तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।

महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल

॥३६॥

कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् ।

स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत्

॥३७॥

स्वरक्षार्थं समागत्य महिषं समताडयत् ।

सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः

॥३८॥

ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।

भूमौ पपात तरसा ममार च विमूर्च्छितः

॥३९॥

मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् ।

सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता

॥४०॥

पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।

कामयानस्तु तां कामी बलवीर्यमदोद्धतः

॥४१॥

रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।

धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः

॥४२॥

युद्धं समभवद् घोरं यक्षाणां च हयारिणा ।

शरेण ताडितस्तूर्णं पपात धरणीतले

॥४३॥

मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।

चितायां रोपयामासुस्तस्य देहस्य शुद्धये

॥४४॥

महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।

प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम्

॥४५॥

वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।

ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम्

॥४६॥

महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः ।

रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः

॥४७॥

रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।

अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः

॥४८॥

एवं स महिषो जातो रक्तबीजश्च वीर्यवान् ।

अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम

॥४९॥

इत्येतत्कथितं राजन् जन्म तस्य महात्मनः ।

वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम्

॥५०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ २ ॥