मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ८

3
पञ्चमस्कन्धः · 8

देव्याः स्वरूपोद्भववर्णनम्

व्यास उवाच

तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् ।

ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम्

॥१॥

सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् ।

हंससारसचक्राह्वैः कूजद्भिश्च विराजितम्

॥२॥

चम्पकाशोककह्लारमन्दारबकुलावृतैः ।

मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः

॥३॥

कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः ।

भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम्

॥४॥

सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः ।

संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः

॥५॥

प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः ।

अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः

॥६॥

गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः ।

रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः

॥७॥

मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः ।

स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः

॥८॥

ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती ।

वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ

॥९॥

गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् ।

द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान्

॥१०॥

व्यास उवाच

विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ ।

सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः

॥११॥

विजय उवाच

देवदेव महाराज रमाकान्त सुरारिहन् ।

समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो

॥१२॥

ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः ।

स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः

॥१३॥

व्यास उवाच

तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः ।

निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः

॥१४॥

गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् ।

प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान्

॥१५॥

प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् ।

तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम्

॥१६॥

देवा ऊचुः

देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक ।

दयासिन्धो महाराज त्राहि नः शरणागतान्

॥१७॥

विष्णुरुवाच

विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः ।

आसनेषु किमर्थं वै मिलिताः समुपागताः

॥१८॥

चिन्तातुराः कथं जाता विषण्णा दीनमानसाः ।

ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम्

॥१९॥

देवा ऊचुः

महिषेण महाराज पीडिताः पापकर्मणा ।

असाध्येनातिदुष्टेन वरदृप्तेन पापिना

॥२०॥

यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् ।

अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः

॥२१॥

वरदानेन धातुः स दुर्जयो मधुसूदन ।

तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम्

॥२२॥

समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद ।

कुरु कृष्ण वधोपायं तस्य दानवमर्दन

॥२३॥

धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल ।

का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे

॥२४॥

उमा मा वा शची विद्या का समर्थास्य घातने ।

महिषस्यातिदुष्टस्य वरदानबलादपि

॥२५॥

विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् ।

कुरु कार्यं च देवानां भक्तवत्सल भूधर

॥२६॥

व्यास उवाच

श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव ।

युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ

॥२७॥

अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा ।

उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात्

॥२८॥

हयारिं वरदृप्तञ्च मायाशतविशारदम् ।

हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः

॥२९॥

प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः ।

उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा

॥३०॥

आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः ।

तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च

॥३१॥

सर्वायुधधरा नारी सर्वतेजःसमन्विता ।

हनिष्यति दुरात्मानं तं पापं मदगर्वितम्

॥३२॥

व्यास उवाच

इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः ।

स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः

॥३३॥

रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् ।

किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम्

॥३४॥

निःसृतं हरिणा दृष्टं हरेण च महात्मना ।

विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ

॥३५॥

शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् ।

रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत्

॥३६॥

भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् ।

घोररूपं गिरिप्रख्यं तमोगुणमिवापरम्

॥३७॥

ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् ।

नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति

॥३८॥

ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् ।

आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम्

॥३९॥

कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः ।

निश्चक्राम महत्तेजो वरुणस्य तथैव च

॥४०॥

अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् ।

निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः

॥४१॥

तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः ।

तेजोराशिं महादिव्यं हिमाचलमिवापरम्

॥४२॥

पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा ।

बभूवातिवरा नारी सुन्दरी विस्मयप्रदा

॥४३॥

त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा ।

अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी

॥४४॥

श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा ।

ताम्रपाणितला कान्ता दिव्यभूषणभूषिता

॥४५॥

अष्टादशभुजा देवी सहस्रभुजमण्डिता ।

सम्भूतासुरनाशाय तेजोराशिसमुद्भवा

॥४६॥

जनमेजय उवाच

कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम ।

विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम्

॥४७॥

एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् ।

अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा

॥४८॥

भिन्नभागविभागेन जातान्यङ्गानि यानि तु ।

मुखनासाक्षिभेदेन सर्वत्रैकभवानि च

॥४९॥

ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् ।

बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम्

॥५०॥

आयुधाभरणादीनि दत्तानि यैर्यथा यथा ।

तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम्

॥५१॥

न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् ।

चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम्

॥५२॥

सूत उवाच

इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः ।

उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम्

॥५३॥

व्यास उवाच

शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते ।

यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम्

॥५४॥

न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः ।

याथातथ्येन तद्रूपं वक्तुमीशः कदाचन

॥५५॥

कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः ।

वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत्

॥५६॥

सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये ।

नानारूपा त्वेकरूपा जायते कार्यगौरवात्

॥५७॥

यथा नटो रङ्गगतो नानारूपो भवत्यसौ ।

एकरूपस्वभावोऽपि लोकरञ्जनहेतवे

॥५८॥

तथैषा देवकार्यार्थमरूपापि स्वलीलया ।

करोति बहुरूपाणि निर्गुणा सगुणानि च

॥५९॥

कार्यकर्मानुसारेण नामानि प्रभवन्ति हि ।

धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि

॥६०॥

तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप ।

यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम्

॥६१॥

शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् ।

श्वेतवर्णं शुभाकारमजायत महत्तरम्

॥६२॥

केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् ।

वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः

॥६३॥

नयनत्रितयं तस्या जज्ञे पावकतेजसा ।

कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम्

॥६४॥

वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ ।

जाते देव्याः सुतेजस्के कामस्य धनुषीव ते

॥६५॥

वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः ।

नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः

॥६६॥

तिलपुष्पसमाकारा नासिका सुमनोहरा ।

सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा

॥६७॥

दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः ।

सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा

॥६८॥

अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा ।

उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा

॥६९॥

अष्टादशभुजाकारा बाहवो विष्णुतेजसा ।

वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन्

॥७०॥

सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् ।

ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम्

॥७१॥

जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः ।

नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः

॥७२॥

एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् ।

समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा

॥७३॥

तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् ।

मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः

॥७४॥

विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च ।

प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम्

॥७५॥

स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः ।

समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै

॥७६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्याः स्वरूपोद्भववर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥