रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम्
व्यास उवाच
कृत्वा हास्यं ततो देवी तमुवाच विशांपते ।
मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः
॥१॥पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे ।
दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम्
॥२॥सदृशो मम रूपेण बलेन विभवेन च ।
त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम्
॥३॥ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता ।
तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु
॥४॥त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये ।
संग्रामं कुरु पातालं गच्छ वा पतिना सह
॥५॥व्यास उवाच
तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः ।
मुमोच तरसा बाणान्सिंहस्योपरि दारुणान्
॥६॥अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् ।
चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात्
॥७॥अन्यैर्जघान विशिखै रक्तबीजं महासुरम् ।
अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः
॥८॥देवीबाणहतः पापो मूर्च्छामाप रथोपरि ।
पतिते रक्तबीजे तु हाहाकारो महानभूत्
॥९॥सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् ।
ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम्
॥१०॥उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ।
शुम्भ उवाच ।
निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः
॥११॥अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः ।
व्यास उवाच ।
इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम्
॥१२॥निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले ।
तमागतं समालोक्य चण्डिका दानवं बलम्
॥१३॥घण्टानादं चकाराशु भीषणं भयदं मुहुः ।
ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका
॥१४॥तेन नादेन सा जाता काली विस्तारितानना ।
श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम्
॥१५॥जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् ।
तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः
॥१६॥सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः ।
तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे
॥१७॥ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः ।
यस्य देवस्य यद्रूपं यथा भूषणवाहनम्
॥१८॥तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे ।
ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः
॥१९॥आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता ।
वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा
॥२०॥पद्महस्ता समायाता पीताम्बरविभूषिता ।
शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी
॥२१॥अर्धचन्द्रधरा देवी तथाहिवलया शिवा ।
कौमारी शिखिसंरूढा शक्तिहस्ता वरानना
॥२२॥युद्धकामा समायाता कार्तिकेयस्वरूपिणी ।
इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना
॥२३॥वज्रहस्तातिरोषाढ्या संग्रामाभिमुखी ययौ ।
वाराही शूकराकारा प्रौढप्रेतासना मता
॥२४॥नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
याम्या च महिषारूढा दण्डहस्ता भयप्रदा
॥२५॥समायाताथ संग्रामे यमरूपा शुचिस्मिता ।
तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा
॥२६॥एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः ।
आगतास्ताः समालोक्य देवी मुदमवाप च
॥२७॥स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः ।
ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः
॥२८॥समागम्य च संग्रामे चण्डिकामित्युवाच ह ।
हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये
॥२९॥निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः ।
हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत्
॥३०॥स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः ।
देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः
॥३१॥प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः ।
शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः
॥३२॥घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा ।
व्यास उवाच ।
एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे
॥३३॥चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता ।
भीषणातिप्रचण्डा च शिवाशतनिनादिनी
॥३४॥घोररूपाथ पञ्चास्यमित्युवाच स्मितानना ।
देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति
॥३५॥दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् ।
निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर
॥३६॥मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै ।
देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम्
॥३७॥प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः ।
जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा
॥३८॥तर्हि गच्छत पातालं तरसा यत्र दानवाः ।
अथवा बलमास्थाय युद्धेच्छा मरणाय चेत्
॥३९॥तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः
॥४०॥गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् ।
शिव उवाच ।
राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः
॥४१॥त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् ।
त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम्
॥४२॥पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः ।
अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम्
॥४३॥संग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै ।
इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे
॥४४॥व्यास उवाच
इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् ।
हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत्
॥४५॥ययासौ प्रेरितः शंभुर्दूतत्वे दानवान्प्रति ।
शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले
॥४६॥तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् ।
युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः
॥४७॥तरसा रणमागत्य चण्डिकां प्रति दानवाः ।
निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः
॥४८॥कालिका शूलपातैस्तान् गदाशक्तिविदारितान् ।
कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान्
॥४९॥कमण्डलुजलाक्षेपगतप्राणान् महाबलान् ।
ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे
॥५०॥माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा ।
जघान दानवान्संख्ये पातयामास भूतले
॥५१॥वैष्णवी चक्रपातेन गदापातेन दानवान् ।
गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान्
॥५२॥ऐन्द्री वज्रप्रहारेण पातयामास भूतले ।
ऐरावतकराघातपीडितान्दैत्यपुङ्गवान्
॥५३॥वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च ।
जघान क्रोधसंयुक्ता शतशो दैत्यदानवान्
॥५४॥नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् ।
भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः
॥५५॥शिवदूती अट्टहासैः पातयामास भूतले ।
तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता
॥५६॥शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः ।
निजघान रणे शत्रून्देवानां च हिताय वै
॥५७॥वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके ।
पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान्
॥५८॥एवं मातृगणेनाजावतिवीर्यपराक्रमम् ।
मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत्
॥५९॥बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे ।
पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि
॥६०॥तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः ।
रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान्
॥६१॥गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः ।
रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा
॥६२॥सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् ।
आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः
॥६३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजेन देव्या युद्धवर्णनं नामाष्टाविशोऽध्यायः ॥ २८ ॥