असिलोमबिडालाख्यवधवर्णनम्
व्यास उवाच
तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः ।
प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान्
॥१॥असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् ।
सैन्येन महता युक्तान्सायुधान्सपरिच्छदान्
॥२॥ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् ।
अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम्
॥३॥असिलोमाग्रतो गत्वा तामुवाच हसन्निव ।
विनयावनतः शान्तो देवीं दैत्यवधोद्यताम्
॥४॥असिलोमोवाच
देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि ।
आगतासि किमर्थं वा हंसि दैत्यान्निरागसः
॥५॥कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् ।
काञ्चनं मणिरत्नानि भाजनानि वराणि च
॥६॥यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् ।
किमर्थं युद्धकामासि दुःखसन्तापवर्धनम्
॥७॥कथयन्ति महात्मानो युद्धं सर्वसुखापहम् ।
कोमलेऽतीव ते देहे पुष्पघातासहे भृशम्
॥८॥किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये ।
चातुर्यस्य फलं शान्तिः सततं सुखसेवनम्
॥९॥तत्किमर्थं दुःखहेतुं संग्रामं कर्तुमिच्छसि ।
संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः
॥१०॥तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः ।
आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम्
॥११॥नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः ।
सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने
॥१२॥तथापि यौवनं प्राप्य भुंक्ष्व भोगाननुत्तमान् ।
परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि
॥१३॥स्वर्गभोगपरा नित्यं भव भामिनि भूतले ।
अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत्
॥१४॥परोपतापनं कार्यं वर्जनीयं सदा बुधैः ।
अविरोधेन कर्तव्यं धर्मार्थकामसेवनम्
॥१५॥तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु ।
अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके
॥१६॥दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः ।
तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः
॥१७॥कारणं वद सुश्रोणि दानवानां वधे तव ।
देव्युवाच ।
त्वया पृष्टं महाबाहो किमर्थमिह चागता
॥१८॥तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् ।
विचरामि सदा दैत्य सर्वलोकेषु सर्वदा
॥१९॥न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी ।
न मे कदापि भोगेच्छा न लोभो न च वैरिता
॥२०॥धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् ।
व्रतमेतत्तु नियतं पालयामि निजं सदा
॥२१॥साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः ।
वेदसंरक्षणं कार्यमवतारैरनेकशः
॥२२॥युगे युगे तानेवाहमवतारान्बिभर्मि च ।
महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः
॥२३॥ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना ।
तं हनिष्ये दुराचारं सुरशत्रुं महाबलम्
॥२४॥गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् ।
ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम्
॥२५॥किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह ।
सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह
॥२६॥सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् ।
देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् ।
तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति
॥२७॥व्यास उवाच
तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः ।
बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम्
॥२८॥असिलोमोवाच
श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् ।
एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा
॥२९॥बिडालाख्य उवाच
न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् ।
दृष्ट्वा हतान् प्रेरयते तथास्मा- न्दैव हि कोऽतिक्रमितुं समर्थः
॥३०॥(दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानविवर्जितानाम् ।
आज्ञापराणां वशवर्तिकानां पाञ्चालिकानामिव सूत्रभेदात् ।
) गत्वा कथं तस्य पुरस्त्वया च मयापि वक्तव्यमिदं कठोरम् ।
गच्छन्तु पातालमितश्च सर्वे दत्त्वाथ रत्नानि धनं सुराणाम्
॥३१॥(प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् ।
सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम् ।
) न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम्
॥३२॥न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् ।
प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति
॥३३॥इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये ।
स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा
॥३४॥व्यास उवाच
इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ ।
धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ
॥३५॥प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह ।
असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित्
॥३६॥चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् ।
बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः
॥३७॥प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे ।
मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः
॥३८॥बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः ।
असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः
॥३९॥ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः ।
देवि जानामि मरणं दानवानां दुरात्मनाम्
॥४०॥तथापि युद्धं कर्तव्यं पराधीनेन वै मया ।
महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये
॥४१॥तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया ।
मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत्
॥४२॥दैवमेव परं मन्ये धिपौरुषमनर्थकम् ।
पतन्ति दानवास्तूर्णं तव बाणहता भुवि
॥४३॥इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः ।
देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके
॥४४॥अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः ।
वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा
॥४५॥शुशुभे दानवः कामं बाणैर्विद्धतनुः किल ।
स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा
॥४६॥असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः ।
दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह
॥४७॥सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे ।
अगणय्य गदाघातं कृतं तेन बलीयसा
॥४८॥उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः ।
सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम्
॥४९॥कृतं तेन प्रहारं तु वञ्चयित्वा विशांपते ।
खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः
॥५०॥छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ ।
हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः
॥५१॥जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् ।
देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः
॥५२॥निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे ।
निहताः सैनिकाः सर्वे तत्र केसरिणा बलात्
॥५३॥भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् ।
भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः
॥५४॥चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः ।
असिलोमबिडालाख्यौ निहतौ नृपसत्तम
॥५५॥अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते ।
एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम्
॥५६॥तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा ।
बभूव चिन्ताकुलितो विमना दुःखसंयुतः
॥५७॥इति श्रीमद्देवीभागवते महायुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे असिलोमबिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥