देव्यासह युद्धाय चण्डमुण्डप्रेषणम्
व्यास उवाच
इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः ।
प्रत्युवाच तदा काली प्रहस्य ललितं वचः
॥१॥विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे ।
वृथा मनोरथांश्चित्ते करोषि मधुरं वदन्
॥२॥बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना ।
कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना
॥३॥हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् ।
देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम्
॥४॥क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी ।
अयुक्तः खलु संसारे विवाहविधिरेतयोः
॥५॥सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् ।
करिणी गर्दभं वापि गवयं सुरभिः किमु
॥६॥गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम ।
कुरु युद्धं न चेद्याहि पातालं तरसाधुना
॥७॥व्यास उवाच
कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः ।
तामुवाच महाभाग क्रोधसंरक्तलोचनः
॥८॥दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् ।
गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल
॥९॥रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् ।
नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये
॥१०॥कालिकोवाच
किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् ।
स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि
॥११॥व्यास उवाच
तच्छ्रुत्वा वचनं दैत्यः संगृह्य कार्मुकं दृढम् ।
कालिकां तां शरासारैर्ववर्षातिशिलाशितैः
॥१२॥देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः ।
तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः
॥१३॥तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् ।
बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम्
॥१४॥कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ ।
बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः
॥१५॥स चान्यं रथमारूढः कोपेन प्रज्वलन्निव ।
बाणवृष्टिं चकारोग्रां कालिकोपरि भारत
॥१६॥सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् ।
मुमोचान्यानुग्रवेगान्दानवोपरि कालिका
॥१७॥तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः ।
बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि
॥१८॥चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः ।
मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत्
॥१९॥विरथः परिघं गृह्य सर्वलोहमयं दृढम् ।
आजगाम रथोपस्थं कुपितो धूम्रलोचनः
॥२०॥वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः ।
अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने
॥२१॥इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा ।
हुङ्कारेणैव तं भस्म चकार तरसाम्बिका
॥२२॥दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः ।
चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि
॥२३॥देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् ।
मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः
॥२४॥रणभूमिस्तदा राजन् दारुणा समपद्यत ।
निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा
॥२५॥गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा ।
ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु
॥२६॥अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे ।
गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम्
॥२७॥तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः ।
दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान्
॥२८॥छिन्नपादकराक्षांश्च मञ्चकारोपितानपि ।
भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः
॥२९॥वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः ।
कथं भग्नाः समायाता नानीता किं वरानना
॥३०॥सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् ।
कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः
॥३१॥गणा ऊचुः
बलञ्च पातितं सर्वं निहतो धूम्रलोचनः ।
कृतं कालिकया कर्म रणभूमावमानुषम्
॥३२॥शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते ।
हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत्
॥३३॥यदा निपातिताः सर्वे तेन केसरिणा विभो ।
रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः
॥३४॥गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः ।
दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम्
॥३५॥निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति ।
विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः
॥३६॥विस्मयोऽयं महाराज यदेका जगदम्बिका ।
भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता
॥३७॥निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा ।
चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा
॥३८॥सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च ।
मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि
॥३९॥तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन ।
पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि
॥४०॥समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ ।
लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः
॥४१॥रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा ।
तत्सहायाश्च मन्तव्याः समये सुरतापन
॥४२॥अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् ।
अम्बिकायाः सहायाशा तत्कार्याशा न काचन
॥४३॥एका नाशयितुं शक्ता जगत्सर्वं चराचरम् ।
का कथा दानवानां तु सर्वेषामिति निश्चयः
॥४४॥इति ज्ञात्वा महाभाग यथारुचि तथा कुरु ।
हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः
॥४५॥व्यास उवाच
तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः ।
कनीयांसं समानीय पप्रच्छ रहसि स्थितः
॥४६॥भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः ।
बलञ्च शातितं सर्वं गणा भग्नाः समागताः
॥४७॥अम्बिका शङ्खनादं वै करोति मदगर्विता ।
ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा
॥४८॥तृणं वज्रायते नूनं वज्रं चैव तृणायते ।
बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी
॥४९॥पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् ।
अभोग्या चाम्बिका नूनं कारणादत्र चागता
॥५०॥युक्तं पलायनं वीर युद्धं वा वद सत्वरम् ।
लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे
॥५१॥निशुम्भ उवाच
न वा पलायनं युक्तं न दुर्गग्रहणं तथा ।
युद्धमेव परं श्रेयः सर्वथैवानयानघ
॥५२॥ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः ।
हत्वा तामागमिष्यामि तरसा त्वबलामिमाम्
॥५३॥अथवा बलवद्दैवादन्यथा चेद्भविष्यति ।
मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः
॥५४॥इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् ।
तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ
॥५५॥शशकग्रहणायात्र न युक्तं गजमोचनम् ।
चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ
॥५६॥इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ ।
उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ
॥५७॥गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ ।
हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम्
॥५८॥गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् ।
आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम्
॥५९॥सा नायाति गृहीतापि गर्विता चाम्बिका यदि ।
तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता
॥६०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धाय चण्डमुण्डप्रेषणं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥