मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ४

3
पञ्चमस्कन्धः · 4

भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम्

व्यास उवाच

गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ ।

यमवायुधनाध्यक्षवरुणानिदमूचिवान्

॥१॥

महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः ।

वरदर्पमदोन्मत्तो मायाशतविचक्षणः

॥२॥

तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः ।

स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः

॥३॥

त्यज देवालयं शक्र यथेच्छं व्रज वासव ।

सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः

॥४॥

दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति ।

नतेषु भृत्यभूतेषु न कुप्यति कदाचन

॥५॥

नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् ।

गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति

॥६॥

इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः ।

किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः

॥७॥

दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः ।

विशेषेण सदोद्योगी बलवान्बलदर्पितः

॥८॥

उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् ।

दैवाधीनो भवेन्नूनं जयो वाथ पराजयः

॥९॥

सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः ।

सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः

॥१०॥

यानमप्यधुना नैव कर्तव्यं सहसा पुनः ।

प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः

॥११॥

इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः ।

सेनाभियोगं प्रस्थानं बलसंख्यां यथार्थतः

॥१२॥

वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः ।

ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम्

॥१३॥

करिष्यामि ततस्तूर्णं यानं वा दुर्गसंग्रहम् ।

विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा ।

सहसा विहितं कार्यं दुःखदं सर्वथा भवेत्

॥१४॥

तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः ।

नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा

॥१५॥

एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै ।

ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च

॥१६॥

विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च ।

अन्यथा विहितं कार्यं विपरीतफलप्रदम्

॥१७॥

सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा ।

व्यास उवाच ।

इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम्

॥१८॥

प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव ।

दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम्

॥१९॥

निवेदयामास तदा सर्वसैन्यबलाबलम् ।

ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः

॥२०॥

देवानचोदयत्तूर्णं समाहूय पुरोहितम् ।

मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः

॥२१॥

उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने ।

इन्द्र उवाच ।

भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः

॥२२॥

सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः ।

दानवो महिषो नाम महावीर्यो मदान्वितः

॥२३॥

योद्धुकामः समायाति बहुभिर्दानवैर्वृतः ।

तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना

॥२४॥

तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः ।

व्यास उवाच ।

तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः

॥२५॥

विचिन्त्य मनसा कामं कार्यसाधनतत्परः ।

गुरुरुवाच ।

स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष

॥२६॥

व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै ।

जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि

॥२७॥

स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा ।

भवितव्यं भवत्येव जानन्नेव शतक्रतो

॥२८॥

उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः ।

मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा

॥२९॥

दैवाधीनं च जानन्तो योगध्यानपरायणाः ।

तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः

॥३०॥

सुखं भवतु वा मा वा दैवे का परिदेवना ।

विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात्

॥३१॥

अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् ।

कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते

॥३२॥

न तत्र दूषणं तस्य दैवाधीने शरीरिणि ।

कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे

॥३३॥

न रथे नायुधे नूनं दैवाधीना सुराधिप ।

बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते

॥३४॥

बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् ।

कातरो जयमाप्नोति शूरो याति पराजयम्

॥३५॥

दैवाधीने तु संसारे कामं का परिदेवना ।

उद्यमे योजयेन्नूनं भवितव्यं सुराधिप

॥३६॥

दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् ।

दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम्

॥३७॥

आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।

धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः

॥३८॥

अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् ।

दुर्लभं सहनत्वं वै समये सुखदुःखयोः

॥३९॥

हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् ।

किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः

॥४०॥

चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् ।

प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने

॥४१॥

जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः ।

शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने

॥४२॥

शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् ।

सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी

॥४३॥

प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः ।

इति मत्वा सुरेश त्वं मनसा भव निर्ममः

॥४४॥

उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो ।

ममता परमं दुःखं निर्ममत्वं परं सुखम्

॥४५॥

सन्तोषादपरं नास्ति सुखस्थानं शचीपते ।

अथवा यदि न ज्ञानं ममत्वनाशने किल

॥४६॥

ततो विवेकः कर्तव्यो भवितव्ये सुराधिप ।

प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल

॥४७॥

यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः ।

सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम

॥४८॥

सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष ।

तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः

॥४९॥

अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि ।

कृते यत्ने महाराज भवितव्यं भविष्यति

॥५०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥