देव्यासह युद्धकरणाय निशुम्भप्रयाणम्
व्यास उवाच
वरदानमिदं तस्य दानवस्य शिवार्पितम् ।
अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम्
॥१॥तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले ।
समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः
॥२॥असंख्याता महावीर्या दानवा रक्तसम्भवाः ।
प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः
॥३॥स तेन वरदानेन दर्पितः क्रोधसंयुतः ।
अभ्यगात्तरसा संख्ये हन्तुं देवीं सकालिकाम्
॥४॥स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् ।
शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम्
॥५॥गदया वारयामास शक्तिः सा शक्तिसंयुता ।
अताडयच्च चक्रेण रक्तबीजं महासुरम्
॥६॥रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् ।
वज्राहतगिरेः शृङ्गान्निर्झरा इव गैरिका
॥७॥यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः ।
समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः
॥८॥ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च ।
रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम्
॥९॥ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः ।
तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः
॥१०॥ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् ।
माहेश्वरी त्रिशूलेन दारयामास दानवम्
॥११॥नारसिंही नखाघातैस्तं विव्याध महासुरम् ।
अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम्
॥१२॥कौमारी च तथा शक्त्या वक्षस्येनमताडयत् ।
सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः
॥१३॥गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् ।
शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः
॥१४॥तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः ।
जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम्
॥१५॥तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् ।
तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः
॥१६॥रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः ।
सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम्
॥१७॥प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः ।
भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः
॥१८॥कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः ।
महाकाया महावीर्या दानवा रक्तसम्भवाः
॥१९॥एकैव चण्डिकात्रास्ति तथा काली च मातरः ।
एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत्
॥२०॥निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः ।
आगमिष्यति संग्रामे ततोऽनर्थो महान्भवेत्
॥२१॥व्यास उवाच
एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् ।
यदा तदाम्बिका प्राह कालीं कमललोचनाम्
॥२२॥चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् ।
मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा
॥२३॥भक्षयन्ती चर रणे दानवानद्य कामतः ।
हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा
॥२४॥तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च ।
बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम्
॥२५॥भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे ।
एवमेषां क्षयो नूनं भविष्यति न चान्यथा
॥२६॥घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा ।
पिबन्ती क्षतजं सर्वं यतमानारिसंक्षये
॥२७॥इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् ।
इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम्
॥२८॥व्यास उवाच
इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा ।
पपौ च क्षतजं सर्वं रक्तबीजशरीरजम्
॥२९॥अम्बिका तं जघानाशु खड्गेन मुसलेन च ।
चखाद देहशकलांश्चामुण्डा तान्कृशोदरी
॥३०॥सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् ।
तथापि सा पपावाशु क्षतजं तमभक्षयत्
॥३१॥येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः ।
तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः
॥३२॥कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः ।
सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः
॥३३॥रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे ।
पलायनं ततः कृत्वा गतास्ते भयकम्पिताः
॥३४॥हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः ।
रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः
॥३५॥राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः ।
चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम्
॥३६॥ये चान्ये दानवाः शूरा वाहनेनातिरंहसा ।
सिंहेन निहताः सर्वे काल्या च भक्षिताः परे
॥३७॥वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् ।
चरितञ्च तथा देव्याः संग्रामे परमाद्भुतम्
॥३८॥अजेयेयं महाराज सर्वथा दैत्यदानवैः ।
गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः
॥३९॥अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् ।
युध्यमाना महाराज वाहनैरायुधैर्युताः
॥४०॥ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः ।
रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः
॥४१॥एकापि दुःसहा देवी किं पुनस्ताभिरन्विता ।
सिंहोऽपि हन्ति संग्रामे राक्षसानमितप्रभः
॥४२॥अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् ।
न वैरमनया युक्तं सन्धिरेव सुखप्रदः
॥४३॥आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् ।
रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम्
॥४४॥अन्ये निपातिता दैत्याः संग्रामेऽम्बिकया नृप ।
चामुण्डया च मांसं वै भक्षितं सकलं रणे
॥४५॥वरं पातालगमनं तस्याः सेवाथवा वरा ।
न तु युद्धं महाराज कार्यमम्बिकया सह
॥४६॥न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी ।
मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता
॥४७॥व्यास उवाच
इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः ।
मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः
॥४८॥शुम्भ उवाच
यूयं गच्छत पातालं शरणं वा भयातुराः ।
हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः
॥४९॥जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् ।
कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम्
॥५०॥निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे ।
प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः
॥५१॥मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् ।
तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः
॥५२॥निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे ।
हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा
॥५३॥त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे ।
तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये
॥५४॥निशुम्भ उवाच
अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् ।
आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम्
॥५५॥मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे ।
क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम्
॥५६॥त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुंक्ष भोगाननुत्तमान् ।
आनयिष्याम्यहं कामं मानिनीं मानसंयुताम्
॥५७॥मयि तिष्ठति ते राजन्न युक्तं गमनं रणे ।
गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम्
॥५८॥व्यास उवाच
इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः ।
रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः
॥५९॥जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः ।
संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः
॥६०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धकरणाय निशुम्भप्रयाणं नामकोनत्रिंशोऽध्यायः ॥ २९ ॥