महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम्
व्यास उवाच
इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ ।
जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ
॥१॥तौ गत्वा समरे देवीमूचतुर्वचनं तदा ।
दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा
॥२॥देवि देवा जिता येन महिषेण महात्मना ।
वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम्
॥३॥स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् ।
भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल
॥४॥त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते ।
महिषे परमं भावं कुरु कान्ते मनोगतम्
॥५॥कृत्वा पतिं महावीरं संसारसुखमद्भुतम् ।
त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम्
॥६॥देव्युवाच
जाल्म त्वं किं विजानासि नारीयं काममोहिता ।
मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम्
॥७॥कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः ।
अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः
॥८॥का नु कामातुरा नारी भजेच्च पशुरूपिणम् ।
पशूनामधमं नूनं महिषं देवरूपिणी
॥९॥गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ ।
वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम्
॥१०॥पातालं गच्छ वाभ्येत्य संग्रामं कुरु वा मया ।
रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम्
॥११॥हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम ।
इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु
॥१२॥मामनिर्जित्य भूभागे न स्थानं ते कदाचन ।
भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे
॥१३॥व्यास उवाच
इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ ।
धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः
॥१४॥कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता ।
उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह
॥१५॥भगवत्यपि बाणौघान्मुमोच दानवौ प्रति ।
कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये
॥१६॥तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे ।
दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः
॥१७॥तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा ।
बाणासिपरिघाघातैर्भयदं मन्दचेतसाम्
॥१८॥ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् ।
जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः
॥१९॥दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः ।
सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम्
॥२०॥सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् ।
जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः
॥२१॥अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् ।
बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ
॥२२॥आगच्छन्तं गदापाणिं दानवं मदगर्वितम् ।
चण्डिका स्वगदापातैः पातयामास भूतले
॥२३॥बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः ।
चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः
॥२४॥तमागच्छन्तमालोक्य देवी शूलेन वक्षसि ।
जघान बाष्कलं क्रुद्धा पपात च ममार सः
॥२५॥पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः ।
जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः
॥२६॥तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः ।
आजगाम रणे देवीं क्रोधसंरक्तलोचनः
॥२७॥तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः ।
धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः
॥२८॥तमागच्छन्तमालोक्य देवी शङ्खमवादयत् ।
कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह
॥२९॥सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् ।
स्वबाणैस्तान्महामाया चिच्छेद च ननाद च
॥३०॥तयोः परस्परं युद्धं बभूव तुमुलं नृप ।
बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा
॥३१॥रणभूमौ तदा जाता रुधिरौघवहा नदी ।
पतितानि तदा तीरे शिरांसि प्रबभुस्तदा
॥३२॥यथा सन्तरणार्थाय यमकिङ्करनायकैः ।
तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा
॥३३॥रणभूमिस्तदा घोरा बभूवातीव दुर्गमा ।
शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः
॥३४॥गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः ।
गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम्
॥३५॥ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः ।
अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम्
॥३६॥तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः ।
देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम्
॥३७॥गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे ।
दैत्यं वा भज वामोरु महिषं मदगर्वितम्
॥३८॥देव्युवाच
आसन्नमरणः कामं प्रलपस्यद्य मोहितः ।
अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः
॥३९॥गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते ।
हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम्
॥४०॥तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः ।
मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम्
॥४१॥सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः ।
जघान दानवं कृद्धा वृत्रं वज्रधरो यथा
॥४२॥तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् ।
भयदं कातराणाञ्च शूराणां बलवर्धनम्
॥४३॥देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् ।
तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम्
॥४४॥रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा ।
गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति
॥४५॥चकार स गदाघातं सिंहमौलौ महाबलः ।
न चचाल हरिः स्थानात्ताडितोऽपि महाबलः
॥४६॥अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् ।
खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत्
॥४७॥छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः ।
जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम्
॥४८॥तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः ।
पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः
॥४९॥ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः ।
जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके
॥५०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषसेनाधिप-बाष्कलदुर्मुखनिपातनवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥