मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ३२

3
पञ्चमस्कन्धः · 32

महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने

जनमेजय उवाच

महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने ।

केन चाराधिता पूर्वं चरित्रत्रययोगतः

॥१॥

प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् ।

आराध्य कामदां देवीं कथयस्व कृपानिधे

॥२॥

उपासनाविधिं ब्रह्मस्तथा पूजाविधिं वद ।

विस्तरेण महाभाग होमस्य च विधिं पुनः

॥३॥

सूत उवाच

इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः ।

प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम्

॥४॥

व्यास उवाच

स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः ।

बभूव परमोदारः प्रजापालनतत्परः

॥५॥

सत्यवादी कर्मपरो ब्राह्मणानां च पूजकः ।

गुरुभक्तिरतो नित्यं स्वदारगमने रतः

॥६॥

दानशीलोsविरोधी च धनुर्वेदैकपारगः ।

एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः

॥७॥

बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् ।

हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः

॥८॥

कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः ।

सुरथः सैन्यमादाय संमुखः समपद्यत

॥९॥

युद्धं समभवद्घोरं तस्य तैरतिदारुणैः ।

म्लेच्छानां तु बलं स्वल्पं राज्ञस्तद्बलमद्भुतम् १० ।

तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः ।

भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमंडितम्

॥११॥

चिंतयामास मेधावी राजा नीतिविचक्षणः ।

प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान्

॥१२॥

स्थानं गृहीत्वा विपुलं परिखादुर्गमंडितम् ।

कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम्

॥१३॥

मंत्रिणः शत्रुवशगा मंत्रयोग्या न ते किल ।

किं करोमीति मनसा भूपतिः समचिंतयत्

॥१४॥

कदाचित्ते गृहीत्वा मां पापाचाराः पराश्रिताः ।

शत्रुभ्योऽथ प्रदास्यंति तदा किं वा भविष्यति

॥१५॥

पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन ।

किं ते वै प्रकुर्वन्ति ये लोभवशगा नराः

॥१६॥

भ्रातरं पितरं मित्रं सुहृदं बांधवं तथा ।

गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः

॥१७॥

तस्मान्मया न कर्तव्यो विश्वासः सर्वथाऽधुना ।

मंत्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते

॥१८॥

इति संचिंत्य मनसा राजा परमदुर्मनाः ।

एकाकी हयमारुह्य निर्जगाम पुरात्तत्तः

॥१९॥

असहायोऽथ निर्गत्य गहनं वनमाश्रितः ।

चिन्तयामास मेधावी क्व गंतव्यं मया पुनः

॥२०॥

योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् ।

ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः

॥२१॥

बहुवृक्षसमायुक्तं नदी पुलिन संश्रितम् ।

निर्वैरश्वापदाकीर्णं कोकिलारावमंडितम्

॥२२॥

शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् ।

नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम्

॥२३॥

होमधूमसुगंधेन प्रीतिदं प्राणिनां सदा ।

वेदध्वनिसमाक्रांतं स्वर्गादपि मनोहरम्

॥२४॥

दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः ।

भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे २५ ।

आसज्य पादपेऽश्वं तु जगाम विनयान्वितः ।

दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम्

॥२६॥

मृगाजिनासनं शांतं तपसाऽतिकृशं ऋजुम् ।

अध्यापयंतं शिष्यांश्च वेदशास्त्रार्थदर्शिनम्

॥२७॥

रहितं क्रोधलोभाद्यैर्द्वंद्वातीतं विमत्सरम् ।

आत्मज्ञानरतं सत्यवादिनं शमसंयुतम्

॥२८॥

तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा ।

तदग्रे ऽश्रुजलापूर्णनयनः प्रेमसंयुतः

॥२९॥

उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः ।

शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा

॥३०॥

उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया ।

अर्घ्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम्

॥३१॥

पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिंतापरः कथम् ।

कथयस्व यथाकामं संवृत्तं कारणं त्विह

॥३२॥

किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् ।

करिष्ये वांछितं काममसाध्यमपि यत्तव

॥३३॥

राजोवाच

सुरथो नाम राजाऽहं शत्रुभिश्च पराजितः ।

त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः

॥३४॥

यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः ।

करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले

॥३५॥

शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवांतिकम् ।

त्रायस्व मुनिशार्दूल शरणागतवत्सल

॥३६॥

ऋषिरुवाच

निर्भयं वस राजेंद्र नात्र ते शत्रवः किल ।

आगमिष्यंति बलिनो निश्चयं तपसो बलात्

॥३७॥

नात्र हिंसा प्रकर्तव्या वनवृत्त्या नृपोत्तम ।

कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः

॥३८॥

व्यास उवाच

इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा ।

उवासाश्रम एवासौ फलमूलाशनः शुचिः

॥३९॥

कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः ।

चिन्तयामास चिंतार्तो गृह एव गताशयः

॥४०॥

राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा ।

संपीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः

॥४१॥

गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः ।

जाताः स्युर्नात्र संदेहः शत्रुणा परिपीडिताः

॥४२॥

सेवका मम सर्वे ते शत्रूणां वशवर्तिनः ।

दुःखिता एव जाताः स्युः पालिता ये मया पुरा ।

धनं मे सुदुराचारैरसद्व्ययपरैः परैः ।

द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल

॥४४॥

कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः ।

न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ४५ ।

इति चिन्तापरो राजा वृक्षमूलस्थितो यदा ।

तदाजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा

॥४६॥

नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः ।

पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम्

॥४७॥

कोऽसि कस्माच्च दीनोऽसि हरितः शोकपीडितः ।

ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता

॥४८॥

व्यास उवाच

तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः ।

उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम्

॥४९॥

वैश्य उवाच

मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः ।

धनवान्धर्मनिपुण: सत्यवागनसूयकः

॥५०॥

पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः ।

“कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजाम्” स्वजनेन च संत्यक्तः प्राप्तोऽस्मि वनमाशु वै

॥५१॥

कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना ।

राजोवाच ।

सुरथो नाम राजाऽहं दस्युभिः पीडितोऽभवम्

॥५२॥

प्राप्तोऽस्मि गतराज्योऽत्र मंत्रिभिः परिवंचितः ।

दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ५३ ।

सुखेन विहरिष्यावो वनेऽत्र शुभपादपे ।

शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम

॥५४॥

"अत्रैव च यथाकामं सुखं तिष्ठ मया सह ।

" वैश्य उवाच ।

कुटुम्बं मे निरालंबं मया हीनं सुदुःखितम् ।

भविष्यति च चिन्तार्तं व्याधिशोकोपतापितम् ५५ ।

भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् ।

इति चिन्तातुरं चेतो न मे शाम्यति भूमिप

॥५६॥

कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च ।

स्वस्थं न मन्मनो राजन्गृहचिन्ताकुलं भृशम्

॥५७॥

राजोवाच

यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः ।

तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते

॥५८॥

हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः ।

तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह

॥५९॥

वैश्य उवाच

मनो मे न स्थिरं राजन्भवत्यद्य सुदुःखितम् ।

चिन्तयाऽत्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः

॥६०॥

राजोवाच

ममापि राज्यजं दुःखं दुनोति किल मानसम् ।

पृच्छावोऽद्य मुनिं शांतं शोकनाशनमौषधम्

॥६१॥

व्यास उवाच

इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः ।

मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम्

॥६२॥

गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् ।

आसीनं सम्यगासीनः शांतं शांतिमुपागतः

॥६३॥

इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे द्वात्रिंशोऽध्यायः ॥ ३२ ॥