मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १८

3
पञ्चमस्कन्धः · 18

महिषासुरवधः

महिष उवाच

तस्यास्तु भगिनी कन्या नाम्ना चेंदुमती शुभा ।

विवाह योग्या संजाता सुरू पाऽवरजा यदा

॥१॥

तस्या विवाहः संवृत्तः सूजाताश्च स्वयंवरः ।

राजानो बहुदेशीयाः संगतास्तत्र मंडपे

॥२॥

तया वृतो नृपः कश्चिद्बलवान्रूपसंयुतः ।

कुलशीलसमायुक्तः सर्वलक्षणसंयुतः

॥३॥

तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ।

चकमे दैवयोगात्तु शठं चातुर्यभूषितम्

॥४॥

पितरं प्राह तन्वंगी विवाहं कुरु मे पितः ।

इच्छा मेऽद्य समुद्भूता दृष्ट्वा भद्राधिपं त्विह

॥५॥

चंद्रसेनोऽपि तच्छुत्वा पुत्र्या यद्भाषितं रहः ।

प्रहसन्नेव मनसा तत्कार्ये तत्परोऽभवत्

॥६॥

तमाहूय नृप गेहे विवाहविधिना ददौ ।

कन्यां मंदोदरीं तस्मै पारिबर्हं तथा बहु

॥७॥

चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ।

जगाम स्वगृहं तुष्टो राजाऽपि सहितः स्त्रिया

॥८॥

रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ।

कदाचिद्दासपत्न्या स रममाणो रहः किल

॥९॥

सैरंध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ।

उपलंभं ददौ तस्मै स्मितपूर्वं रुषाऽन्विता

॥१०॥

कदाचिदपि सामान्यां रहो रूपवतीं नृपः ।

क्रीडयंल्लालयन्दृष्टः खेदं प्राप तदैव सा

॥११॥

न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ।

किं कृतं तु मया मोहाद्वंचिताऽहं नृपेण ह

॥१२॥

किं करोम्यद्य संताप निर्लज्जे निर्घृणे शठे ।

का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम्

॥१३॥

अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ।

पतिसंभोगजं सर्वं संतोषोऽद्य मया कृतः

॥१४॥

अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ।

देहत्यागः क्रियते चेद्धत्याऽतीव दुरत्यया

॥१५॥

पितृगेहं व्रजाम्याशु तत्राऽपि न सुखं भवेत् ।

हास्ययोग्या सखीनां तु भवेयं नात्र संशयः

॥१६॥

तस्मादत्रैव संवासो वैराग्ययुतया मया ।

कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः

॥१७॥

महिष उवाच

इति संचिंत्य सा नारी दुःखशोक परायणा ।

स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः

॥१८॥

तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ।

अन्यं कापुरुषं मंदं कामार्ता संश्रयिष्यसि

॥१९॥

वचनं कुरु मे तथ्यं नारीणां परमं हितम् ।

अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः

॥२०॥

देव्युवाच

मदात्मन्गच्छ पातालं युद्धं वा कुरु सांप्रतम् ।

हत्वा त्वामसुरान्सर्वान्यमिष्यामि यथासुखम्

॥२१॥

यदा यदा हि साधूनां दुःखं भवति दानव ।

तदा तेषां च रक्षार्थं देहं संधारया म्यहम्

॥२२॥

अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ।

सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम्

॥२३॥

सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरै किल ।

त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला

॥२४॥

तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ।

सवर्था त्वां हनिष्यामि सत्यमेतद्ब्रवीम्यहम

॥२५॥

व्यास उवाच

इत्युक्तः स तया देव्या धनुरादाय दानवः ।

युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु

॥२६॥

मुमोच तरसा बाणान्कर्णाऽऽकृष्टाञ्छिलाशितान् ।

देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तै रयोमुखैः

॥२७॥

तयोः परस्परं युद्धं संबभूव भयप्रदम् ।

देवानां दानवानां च परस्परजयैषिणाम्

॥२८॥

मध्ये दुर्धर आगत्य मुमोच शिलीमुखान् ।

देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान्

॥२९॥

ततो भगवती क्रुद्धा तं जघान शितैः शरैः ।

दुर्धरस्तु पपातोर्व्यां गतासुगिरिशृंगवत्

॥३०॥

तं तया निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् ।

आगत्य सप्तभिर्बाणैर्जघान पर मेश्वरिम्

॥३१॥

अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् ।

त्रिशूलेन त्रिनेत्रं तु जघान जगदंबिका

॥३२॥

अन्धकस्त्वाज गामाशु हतं दृष्ट्वा त्रिलोचनम् ।

गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके

॥३३॥

सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् ।

चखाद तरसा मांसमंधकस्य रुषाऽन्वितः

॥३४॥

तान्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः ।

चिक्षेप तरसा बाणानतितीक्ष्णाञ्छि लाशितान्

॥३५॥

द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः ।

गदया ताडयामास दैत्यं वक्षसि चांबिका

॥३६॥

स गदाभिहतो मूर्छामवापामरबाधकः ।

विषह्य पीडां पापात्मा पुनरागत्य सत्वरः

॥३७॥

जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः ।

सिंहोऽपि नखघातेन तं ददार महासुरम्

॥३८॥

विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह ।

नखैर्विदारयामास देवीसिंहं मदोत्कटम्

॥३९॥

तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः ।

शरैरवाकिरत्तीक्ष्णैः शरैराशीविषैरिव

॥४०॥

त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः ।

शैल शृंगं करे कृत्वा चिक्षेप चंडिकां प्रति

॥४१॥

आगच्छंतं गिरेः शृंगं देवी बाणैः शिलाशितैः ।

चकार तिलशः खण्डाञ्जहास जगदंबिका

॥४२॥

उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः ।

नखैर्विदारयामास महिषं गजरूपिणम्

॥४३॥

विहाय गजरूपं च बभूवाष्टापदी तथा ।

हंतुकामो हरिकोपाद्दारुणो बलवत्तरः

॥४४॥

तं वीक्ष्य शरभं देवी खड्गेन सा रुषाऽन्विता ।

उत्तमांगे जघानाशु सोऽपि तां प्राहरत्तदा

॥४५॥

तयोः परस्परं युद्धं बभूवाति भयप्रदम् ।

माहिषं रूपमास्थाय शृंगाभ्यां प्राहरत्तदा

॥४६॥

पुच्छप्रभ्रमणेनाशु शृंगघातैर्महासुरः ।

ताडयामास तन्वंगी घोररूपो भयानकः

॥४७॥

पुच्छेन पर्वताञ्छृंगे गृहीत्वा भ्रामयन्बलात् ।

प्रेषयामास पापात्मा प्रहसन्परया मुदा

॥४८॥

तामुवाच बलोन्मत्तस्तिष्ठ देवि रणांगणे ।

अद्याहं त्वां हनिष्यामि रूप यौवनभूषिताम्

॥४९॥

मूर्खाऽसि मदमत्ताऽद्य यन्मया सह संगरम् ।

करोषि मोहिताऽतीव मृषा बलवती खरा

॥५०॥

हत्वा त्वां निहनिष्यामि देवान्कपटपं डितान् ।

ये नारीं पुरतः कृत्वा जेतुमिच्छंति मां शठाः

॥५१॥

देव्युवाच

मा गर्वं कुरु मंदात्मंस्तिष्ठ तिष्ठ रणांगणे ।

करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान्

॥५२॥

पीत्वाऽद्य माधवीमिष्टां शातयामि रणेऽधम ।

देवानां दुःखदं पापं मुनीनां भय कारकम्

॥५३॥

व्यास उवाच

इत्युक्त्वा चषकं हैमं गृहीत्वा सुरया युतम् ।

पपौ पुनः पुनः क्रोधाद्धंतुकामा महासुरम्

॥५४॥

पीत्वा द्राक्षासवं मिष्टं शलूमादाय सत्वरा ।

दुद्राव दानवं देवी हर्षयन्देवतागणान्

॥५५॥

देवास्तां तुष्टुवुः प्रेम्णा चक्रुः कुसुम वर्षणम् ।

जयजीवेति ते प्रोचुर्दुंदुभीनां च निःस्वनैः

॥५६॥

ऋषयः सिद्धगंधर्वाः पिशाचोरगचारणाः ।

किन्नराः प्रेक्ष्य संग्रामं मुदिता गगने स्थिताः

॥५७॥

सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः ।

मायामयाञ्जघानाजौ देवी कपटपंडितः

॥५८॥

चंडिकाऽपि च तं पापं त्रिशूलेन बलादधृदि ।

ताडयामास तीक्ष्णेन क्रोधादरुणलोचना

॥५९॥

ताडितोऽसौ पपातोर्व्यां मूर्छांमाप मुहूर्तकम् ।

पुनरुत्थाय चामुंडां पद्भ्यां वेगादताडयत्

॥६०॥

विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः ।

रुराव दारुणं शब्दं देवानां भयकारकम्

॥६१॥

ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् ।

करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम्

॥६२॥

पश्य चक्रं मदांधाद्य तव कंठनिकृंतनम् ।

क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना

॥६३॥

इत्युक्त्वा दारुणं चक्रं मुमोच जगदंबिका ।

शिरश्छिन्नं रथांगेन दानवस्य तदा रणे

॥६४॥

सुस्राव रुधिरं चोष्णं कंठनालाद्गिरेर्यथा ।

गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम्

॥६५॥

कबंधस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ ।

जयशब्दश्च देवानां बभूव सुखवर्धनः

॥६६॥

सिंहस्त्वतिबलास्तत्र पलायनपरानथ ।

दानवान्भक्षयामास क्षुधार्तं इव संगरे

॥६७॥

मृते च महिषे क्रूरे दानवा भयपीडिताः ।

मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप

॥६८॥

आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते ।

मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ

॥६९॥

चंडिकाऽपि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता ।

देवास्तत्राऽऽययुः शीघ्रं स्तोतुकामाः सुखप्रदाम्

॥७०॥

इति श्रीदेवीभागवते पञ्चमस्कंधे महिषाऽसुरवधो नामाऽष्टादशोऽध्यायः ॥ १८ ॥