मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय २०

3
पञ्चमस्कन्धः · 20

महिषवधानन्तरं पृथिवीसुखवर्णनम्

जनमेजय उवाच

अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च ।

न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम्

॥१॥

अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते ।

देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम्

॥२॥

कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः ।

पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम्

॥३॥

लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् ।

संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः

॥४॥

मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् ।

तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति

॥५॥

तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् ।

मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः

॥६॥

यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च ।

बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम्

॥७॥

ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे ।

यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च

॥८॥

भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः ।

दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम्

॥९॥

अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः ।

तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी

॥१०॥

ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः ।

दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव

॥११॥

तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् ।

कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम्

॥१२॥

हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः ।

क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा

॥१३॥

कथितं ते महाभाग गतान्तर्धानमाशु सा ।

स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी

॥१४॥

लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता ।

अथवा हेमशैले सा तत्त्वतो मे वदाधुना

॥१५॥

व्यास उवाच

पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् ।

क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम्

॥१६॥

यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे ।

पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे

॥१७॥

यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः ।

नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका

॥१८॥

स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा ।

यत्र संक्रीडते नित्यं मायाशक्तिः सनातनी

॥१९॥

देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा ।

रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम्

॥२०॥

अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् ।

सर्वलक्षणसम्पन्नं महिषस्यासने शुभे

॥२१॥

दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः ।

स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते

॥२२॥

गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते ।

धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा

॥२३॥

पर्जन्यः कालवर्षी च धरा धान्यगुणावृता ।

पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा

॥२४॥

गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् ।

नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः

॥२५॥

ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा ।

क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः

॥२६॥

शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः ।

न्यायदण्डधराः सर्वे राजानः शमसंयुताः

॥२७॥

अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह ।

आकरा धनदा नृणां व्रजा गोयूथसंयुताः

॥२८॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।

देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले

॥२९॥

सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः ।

मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः

॥३०॥

पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः ।

पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः

॥३१॥

न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले ।

वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन्

॥३२॥

कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः ।

सर्वत्र सुखिनो लोकाः काले च मरणं तथा

॥३३॥

सुहृदां न वियोगश्च नापदश्च कदाचन ।

नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम्

॥३४॥

न रोगो न च मात्सर्यं न विरोधः परस्परम् ।

सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः

॥३५॥

क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव ।

न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा

॥३६॥

पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप ।

न वेदद्वेषिणः पापा मानवाः पृथिवीपते

॥३७॥

सर्वधर्मरता नित्यं द्विजसेवापरायणाः ।

त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः

॥३८॥

सात्त्विका राजसाश्चैव तामसाश्च तथापरे ।

सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः

॥३९॥

प्रतिग्रहविहीनाश्च दयादमपरायणाः ।

यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः

॥४०॥

पुरोडाशविधानैश्च पशुभिर्न कदाचन ।

दानमध्ययनञ्चैव यजनं तु तृतीयकम्

॥४१॥

त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप ।

राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः

॥४२॥

षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः ।

यजनं याजनं दानं तथैव च प्रतिग्रहः

॥४३॥

अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् ।

तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः

॥४४॥

राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः ।

महिषे निहते सर्वे सुखिनो वेदतत्पराः

॥४५॥

बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा ।

क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः

॥४६॥

कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे ।

एवं प्रमुदितो लोको महिषे विनिपातिते

॥४७॥

अनुद्वेगः प्रजानां वै सम्बभूव धनागमः ।

बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः

॥४८॥

वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः ।

नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः

॥४९॥

न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव ।

निगमविहितधर्मे तत्पराश्चण्डिकाया- श्चरणसरसिजानां सेवने दत्तचित्ताः

॥५०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाह्स्र्यां संहितायां पञ्चमस्कन्धे महिषवधानन्तरं पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ २० ॥