मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय २१

3
पञ्चमस्कन्धः · 21

शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम्

व्यास उवाच

शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।

सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम्

॥१॥

यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ ।

बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल

॥२॥

बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ

॥३॥

हतावम्बिकया तौ तु संग्रामेऽतीव दारुणे ।

देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह

॥४॥

चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः ।

धूम्रलोचननामा च निहतास्ते रणाङ्गणे

॥५॥

तान्निहत्य सुराणां सा जहार भयमुत्तमम् ।

स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे

॥६॥

राजोवाच

कावेतावसुरावादौ कथं तौ बलिनां वरौ ।

केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ

॥७॥

तपसा वरदानेन कस्य जातौ महाबलौ ।

कथञ्च निहतौ सर्वं कथयस्व सविस्तरम्

॥८॥

व्यास उवाच

शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।

देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम्

॥९॥

पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले ।

पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ

॥१०॥

तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् ।

अन्नोदकं परित्यज्य पुष्करे लोकपावने

॥११॥

वर्षाणामयुतं यावद्योगविद्यापरायणौ ।

एकत्रैवासनं कृत्वा तेपाते परमं तपः

॥१२॥

तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः ।

तत्रागतश्च भगवानारुह्य वरटापतिम्

॥१३॥

तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ ।

उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल

॥१४॥

वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह ।

कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम्

॥१५॥

व्यास उवाच

इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ ।

प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा

॥१६॥

दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती ।

ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा

॥१७॥

देवदेव दयासिन्धो भक्तानामभयप्रद ।

अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो

॥१८॥

मरणादपरं किञ्चिद्भयं नास्ति धरातले ।

तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ

॥१९॥

त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे ।

परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम्

॥२०॥

ब्रह्मोवाच

किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा ।

अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये

॥२१॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

मर्यादा विहिता लोके पूर्वं विश्वकृता किल

॥२२॥

मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः ।

अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम्

॥२३॥

व्यास उवाच

तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ ।

ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम्

॥२४॥

पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः ।

अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम्

॥२५॥

नारी बलवती कास्ति या नौ नाशं करिष्यति ।

न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे

॥२६॥

अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव ।

भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा

॥२७॥

व्यास उवाच

इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् ।

ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम्

॥२८॥

गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ ।

भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा

॥२९॥

शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् ।

कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः

॥३०॥

शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् ।

सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः

॥३१॥

चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ ।

सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ

॥३२॥

धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः ।

शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः

॥३३॥

रक्तबीजस्तथा शूरो वरदानबलाधिकः ।

अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः

॥३४॥

तस्यैकं कारणं राजन् संग्रामे युध्यतः सदा ।

देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च

॥३५॥

जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः ।

तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः

॥३६॥

सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः ।

युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः

॥३७॥

अतः सोऽपि महावीर्यः संग्रामेऽतीव दुर्जयः ।

अवध्यः सर्वभूतानां रक्तबीजो महासुरः

॥३८॥

अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः ।

शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः

॥३९॥

असंख्याता तदा जाता सेना शुम्भनिशुम्भयोः ।

पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया

॥४०॥

सेनायोगं तदा कृत्वा निशुम्भः परवीरहा ।

जगाम तरसा स्वर्गे शचीपतिजयाय च

॥४१॥

चकारासौ महायुद्धं लोकपालैः समन्ततः ।

वृत्रहा वज्रपातेन ताडयामास वक्षसि

॥४२॥

स वज्राभिहतो भूमौ पपात दानवानुजः ।

भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः

॥४३॥

भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः ।

तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः

॥४४॥

कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा ।

निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः

॥४५॥

ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया ।

कल्पपादपसंयुक्तं कामधेनुसमन्वितम्

॥४६॥

त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना ।

नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः

॥४७॥

सुधायाश्चैव पानेन सुखमाप महासुरः ।

कुबेरं स च निर्जित्य तस्य राज्यं चकार ह

॥४८॥

अधिकारं तथा भानोः शशिनश्च चकार ह ।

यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा

॥४९॥

वरुणस्य तथा राज्यं चकार वह्निकर्म च ।

वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः

॥५०॥

ततो देवा विनिर्धूता हृतराज्या हृतश्रियः ।

सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे

॥५१॥

हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने ।

निरालम्बा निराधारा निस्तेजस्का निरायुधाः

॥५२॥

विचेरुरमराः सर्वे पर्वतानां गुहासु च ।

उद्यानेषु च शून्येषु नदीनां गह्वरेषु च

॥५३॥

न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः ।

लोकपाला महाराज दैवाधीनं सुखं किल

॥५४॥

बलवन्तो महाभागा बहुज्ञा धनसंयुताः ।

काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप

॥५५॥

चित्रमेतन्महाराज कालस्यैव विचेष्टितम् ।

यः करोति नरं तावद्राजानं भिक्षुकं ततः

॥५६॥

दातारं याचकं चैव बलवन्तं तथाबलम् ।

पण्डितं विकलं कामं शूरं चातीव कातरम्

॥५७॥

मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् ।

पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी

॥५८॥

कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् ।

तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम्

॥५९॥

न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते ।

ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम्

॥६०॥

विष्णुर्जननमाप्नोति सूकरादिषु योनिषु ।

हरः कपाली सञ्जातः कालेनैव बलीयसा

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनं नामकविंशोऽध्यायः ॥ २१ ॥