मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १०

3
पञ्चमस्कन्धः · 10

मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः

व्यास उवाच

इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा ।

तमुवाच महाराज मेघगम्भीरया गिरा

॥१॥

देव्युवाच

मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल ।

महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम्

॥२॥

प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च ।

पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः

॥३॥

तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा ।

एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम

॥४॥

यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् ।

उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ

॥५॥

नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल ।

कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु

॥६॥

गच्छ तं महिषं पापं वद मद्वचनादिदम् ।

गच्छ पातालमधुना जीवितेच्छा यदस्ति ते

॥७॥

नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे ।

मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम्

॥८॥

दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् ।

हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम्

॥९॥

तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् ।

पातालं तरसा मन्द यावद् बाणा न मेऽपतन्

॥१०॥

युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर ।

वीरैर्महाबलैः सर्वैर्नयामि यमसादनम्

॥११॥

युगे युगे महामूढ हतास्त्वत्सदृशाः किल ।

असंख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे

॥१२॥

साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा ।

तद्युध्यस्व मया सार्धं समरे स्मरपीडितः

॥१३॥

मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः ।

स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः

॥१४॥

कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता ।

स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम्

॥१५॥

यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् ।

हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते

॥१६॥

व्यास उवाच

इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः ।

प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम्

॥१७॥

देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता ।

क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल

॥१८॥

एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः ।

महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम्

॥१९॥

सैन्यं बहुविधं तस्य हस्त्यश्वरथसंकुलम् ।

पदातिगणसंविद्धं नानायुधविराजितम्

॥२०॥

कः श्रमः करिराजस्य मालतीपुष्पमर्दने ।

मारणे तव वामोरु महिषस्य तथा रणे

॥२१॥

यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् ।

शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम्

॥२२॥

राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् ।

साममेव मया वाच्यं दानयुक्तं तथा वचः

॥२३॥

नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् ।

मिथ्याभिमानचतुरां रूपयौवनगर्विताम्

॥२४॥

स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् ।

तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया

॥२५॥

राज्यं तव धनं सर्वं दासस्ते महिषः किल ।

कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम्

॥२६॥

पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि ।

पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते

॥२७॥

त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् ।

सुखं संसारजं सर्वं महिषस्य परिग्रहात्

॥२८॥

देव्युवाच

शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् ।

शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च

॥२९॥

महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल ।

पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम्

॥३०॥

मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् ।

उभयोः सदृशो योगः कृतोऽयं विधिना किल

॥३१॥

यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् ।

पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी

॥३२॥

याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा ।

तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः

॥३३॥

कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् ।

प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना

॥३४॥

तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता ।

कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः

॥३५॥

विपरीतं यदा दैवं तृणं वज्रसमं भवेत् ।

विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा

॥३६॥

किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः ।

मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम्

॥३७॥

यदायं देहसम्बन्धो जीवस्य कालयोगतः ।

तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः

॥३८॥

यस्य येन प्रकारेण मरणं दैवनिर्मितम् ।

तस्य तेनैव जायेत नान्यथेति विनिश्चयः

॥३९॥

ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते ।

तथैव भवतः कामं किमन्येषां विचार्यते

॥४०॥

ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः ।

मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः

॥४१॥

तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् ।

यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल

॥४२॥

मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः ।

यूयं प्रयात पातालं यदि जीवितुमिच्छथ

॥४३॥

अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः ।

तद्युध्यस्व मया सार्धं मरणाय कृतादरः

॥४४॥

मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः ।

दैवं हि कारणं तत्र वरदानं प्रजापतेः

॥४५॥

व्यास उवाच

इति देव्या वचः श्रुत्वा चिन्तयामास दानवः ।

किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति

॥४६॥

विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै ।

तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ

॥४७॥

इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना ।

यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम्

॥४८॥

स प्रमाणं पुनः कार्ये राजा मतिमतां वरः ।

करिष्यति विचार्यैव सचिवैर्निपुणैः सह

॥४९॥

सहसा न मया युद्धं कर्तव्यमनया सह ।

जये पराजये वापि भूपतेरप्रियं भवेत्

॥५०॥

यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः ।

येन केनाप्युपायेन स कुप्येत्पार्थिवः किल

॥५१॥

तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् ।

यथाद्याभिहितं देव्या यथारुचि करोतु सः

॥५२॥

व्यास उवाच

इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ ।

प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः

॥५३॥

मन्त्र्युवाच

राजन् देवी वरारोहा सिंहस्योपरि संस्थिता ।

अष्टादशभुजा रम्या वरायुधधरा परा

॥५४॥

सा मयोक्ता महाराज महिषं भज भामिनि ।

महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया

॥५५॥

पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः ।

स तवाज्ञाकरो जातो वशवर्ती भविष्यति

॥५६॥

त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने ।

महिषं पतिमासाद्य योषितां सुभगा भव

॥५७॥

इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता ।

मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः

॥५८॥

महिषीगर्भसम्भूतं पशूनामधमं किल ।

बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया

॥५९॥

का मूढा कामिनी लोके महिषं वै पतिं भजेत् ।

मादृशी मन्दबुद्धे किं पशुभावं भजेदिह

॥६०॥

महिषी महिषं नाथं सशृङ्गा शृङ्गसंयुतम् ।

कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा

॥६१॥

करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् ।

गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते

॥६२॥

परुषं तु तया वाक्यमित्युक्तं नृप मत्तया ।

तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः

॥६३॥

रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् ।

आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम्

॥६४॥

सातीव च बलोन्मत्ता वर्तते भूप भामिनी ।

भवितव्यं न जानामि किं वा भावि भविष्यति

॥६५॥

कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः ।

युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम्

॥६६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ १० ॥