मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय २४

3
पञ्चमस्कन्धः · 24

देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम्

व्यास उवाच

देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः ।

किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात्

॥१॥

इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे ।

तं कथं समरे देवि जेतुमिच्छसि भामिनि

॥२॥

त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् ।

का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम्

॥३॥

अविचार्य न वक्तव्यं वचनं चापि सुन्दरि ।

बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम्

॥४॥

त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः ।

त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये

॥५॥

त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम ।

भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते

॥६॥

शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा ।

सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः

॥७॥

नागमिष्यसि चेद् बाले संक्रुद्धः पृथिवीपतिः ।

अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम्

॥८॥

केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः ।

त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ

॥९॥

स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज ।

मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै

॥१०॥

क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् ।

सारासारं परिच्छेद्य कुरु मे वचनं पटु

॥११॥

भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् ।

देव्युवाच ।

सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि

॥१२॥

निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् ।

प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत्

॥१३॥

तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् ।

विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात्

॥१४॥

जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् ।

युद्धेच्छया समायातां विद्धि मामबलां नृप

॥१५॥

युद्धं देहि समर्थोऽसि वीरधर्मं समाचर ।

बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम्

॥१६॥

त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते ।

इति दूत वदाशु त्वं गत्वा स्वपतिमादरात्

॥१७॥

स विचार्य यथायुक्तं करिष्यति महाबलः ।

संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल

॥१८॥

शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् ।

व्यास उवाच ।

अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम्

॥१९॥

हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा ।

गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः

॥२०॥

प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् ।

राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः

॥२१॥

दूत उवाच

सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् ।

सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल

॥२२॥

अप्रियं वदतां कामं राजा कुप्यति सर्वथा ।

साक्षात्कुतः समायाता कस्य वा किंबलाबला

॥२३॥

न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् ।

युद्धकामा मया दृष्टा गर्विता कटुभाषिणी

॥२४॥

तया यत्कथितं सम्यक् तच्छृणुष्व महामते ।

मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः

॥२५॥

सखीनां पुरतः कामं विवाहं प्रति सर्वथा ।

यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै

॥२६॥

तं वरिष्याम्यहं कामं पतिं समबलं किल ।

न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम

॥२७॥

तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु ।

तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः

॥२८॥

यथेच्छसि महाराज तथा कुरु तव प्रियम् ।

सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी

॥२९॥

निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् ।

व्यास उवाच ।

इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः

॥३०॥

पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् ।

शुम्भ उवाच ।

भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते

॥३१॥

नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् ।

अहं गच्छामि संग्रामे त्वं वा गच्छ बलान्वितः

॥३२॥

यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल ।

निशुम्भ उवाच ।

न मया न त्वया वीर गन्तव्यं रणमूर्धनि

॥३३॥

प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् ।

स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम्

॥३४॥

आगमिष्यति शुम्भात्र विवाहः संविधीयताम् ।

व्यास उवाच ।

तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ।

३५ कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् ।

शुम्भ उवाच ।

धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः

॥३६॥

गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् ।

देवो वा दानवो वापि मनुष्यो वा महाबलः

॥३७॥

तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया ।

तत्पार्श्ववर्तिनीं कालीं हत्वा संगृह्य तां पुनः

॥३८॥

शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् ।

रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान्

॥३९॥

यत्नेन महता वीर मृदुदेहा कृशोदरी ।

तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः

॥४०॥

सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः ।

व्यास उवाच ।

इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः

॥४१॥

प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे ।

असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा

॥४२॥

स ददर्श ततो देवीं रम्योपवनसंस्थिताम् ।

दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः

॥४३॥

उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् ।

शृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः

॥४४॥

दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः ।

रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम्

॥४५॥

तेनागत्य वचः प्रोक्तं विपरीतं वरानने ।

वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः

॥४६॥

बभूव रसमार्गज्ञे शुम्भः कामविमोहितः ।

दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव

॥४७॥

यो मां जयति संग्रामे यदुक्तं कठिनं वचः ।

न ज्ञातस्तेन संग्रामो द्विविधः खलु मानिनि

॥४८॥

रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः ।

रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः

॥४९॥

सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः ।

जानाम्यहं वरारोहे भवत्या मानसं किल

॥५०॥

रतिसंग्रामभावस्ते हृदये परिवर्तते ।

इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः

॥५१॥

प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् ।

चतुरासि महाभागे शृणु मे वचनं मृदु

॥५२॥

भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् ।

पट्टराज्ञी प्रिया भूत्वा भुंक्ष्व भोगाननुत्तमान्

॥५३॥

जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् ।

विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति

॥५४॥

भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी ।

एवं सङ्गरयोगेन पतिर्मे परमार्थवित्

॥५५॥

जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति ।

रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम्

॥५६॥

स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः ।

भविता मानसः कामो रतिसंग्रामजस्तव

॥५७॥

दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये ।

वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम्

॥५८॥

भज शुम्भं गणाध्यक्षं माननीयातिमानिनी ।

मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये

॥५९॥

न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे ।

अशोकं कुरु राजानं पादाघातविकासितम्

॥६०॥

बकुलं सीधुसेकेन तथा कुरबकं कुरु

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥