मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय १९

3
पञ्चमस्कन्धः · 19

देवीसान्त्वनम्

व्यास उवाच

अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः ।

महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम्

॥१॥

देवा ऊचुः

ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले ।

ईशा न तेऽपि च भवन्ति तया विहीना- स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री

॥२॥

कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च ।

पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च

॥३॥

विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् ।

आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे

॥४॥

त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् ।

पृथ्वी न चेत्त्वमसि वा गगने कथं स्था- स्यत्येतदम्ब निखिलं बहुभारयुक्तम्

॥५॥

ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् ।

शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये

॥६॥

ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् ।

स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः

॥७॥

भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् ।

स्वीयान्सुराञ्जननि पोषयसीह यद्व- त्तद्वत्परानपि च पालयसीति हेतोः

॥८॥

मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् ।

नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान्

॥९॥

यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा ।

देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय

॥१०॥

चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः ।

येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः

॥११॥

प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते ।

धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम्

॥१२॥

ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् ।

धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे

॥१३॥

विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् ।

मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः

॥१४॥

ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये ।

तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते

॥१५॥

चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ ।

शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ

॥१६॥

वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः ।

त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः

॥१७॥

शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु ।

पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात्

॥१८॥

शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य ।

तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः

॥१९॥

योऽभूद् गजाननगणाधिपतिर्महेशा- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः ।

जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम्

॥२०॥

चित्रं त्वयारिजनतापि दयार्द्रभावा- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् ।

नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा

॥२१॥

ब्रह्मा हरश्च हरिरप्युत गर्वभावा- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् ।

केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः

॥२२॥

क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः ।

सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम्

॥२३॥

मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् ।

लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय

॥२४॥

कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः ।

तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च

॥२५॥

तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि ।

त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति

॥२६॥

ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः ।

ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः

॥२७॥

चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता ।

कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या

॥२८॥

तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि ।

किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम्

॥२९॥

देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् ।

स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम्

॥३०॥

सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् ।

कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः

॥३१॥

हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् ।

कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः

॥३२॥

कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः ।

कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे

॥३३॥

व्यास उवाच

एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा ।

अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः

॥३४॥

यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् ।

स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम्

॥३५॥

देवा ऊचुः

सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् ।

यदयं निहतः शत्रुरस्माकं महिषासुरः

॥३६॥

स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् ।

तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम्

॥३७॥

अपराधसहस्राणि मातैव सहते सदा ।

इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः

॥३८॥

द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् ।

नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि

॥३९॥

तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति ।

पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु

॥४०॥

प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः ।

मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः

॥४१॥

सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् ।

पाहि नः सततं देवि सर्वैस्तव वरायुधैः

॥४२॥

अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः ।

व्यास उवाच ।

एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत ।

विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम्

॥४३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ १९ ॥