मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ३३

3
पञ्चमस्कन्धः · 33

मुने वैश्योऽयमधुना वने मे मित्रतां गतः

राजोवाच

मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।

पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम संगमम्

॥१॥

"कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः ।

न शान्तिमुपयात्येष तथैव मम साम्प्रतम् ।

गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते”

॥१॥

निष्कारणं च मे चिंता हृदयान्न निवर्तते ।

हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः

॥२॥

भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना ।

कोशक्षयं करिष्यंति रिपवोऽतिबलात्क्षणात्

॥३॥

इत्येवं चिंतयानस्य च मे निद्रा तनौ सुखम् ।

जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि

॥४॥

जानतोऽपि मनो भ्रांतं न स्थिरं भवति प्रभो ।

कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ।

न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् ।

भ्रमोऽयमिति जानामि तथापि मम मानसः

॥६॥

मोहो नैवापसरति किं तत्कारणमद्भुतम् ।

स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत्

॥७॥

कारणं ब्रूहि मोहस्य ममास्य च दयानिधे ।

व्यास उवाच ।

इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः

॥८॥

तमुवाच परं ज्ञानं शोकमोहविनाशनम् ।

ऋषिरुवाच ।

शृणु राजन्प्रवक्ष्यामि कारणं बन्धमोक्षयोः

॥९॥

महामायेति विख्याता सर्वेषां प्राणिनामिह ।

ब्रह्मा विष्णुस्तथेशानस्तुराषाड्वरुणोऽनिलः

॥१०॥

सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः ।

वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः

॥११॥

मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः ।

तया सृष्टमिदं सर्वं जगत्स्थावरजंगमम्

॥१२॥

तद्वशे वर्तते नूनं मोहजालेन यंत्रितम् ।

त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाऽऽविलः

॥१३॥

ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा ।

ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः

॥१४॥

तेऽपि रागवशाल्लोके भ्रमति परिमोहिताः ।

पुरा सत्ययुगे राजन्विष्णुर्नारायणः स्वयम्

॥१५॥

श्वेतद्वीपं समासाद्य चकार विपुलं तपः ।

वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये

॥१६॥

अनश्वरसुखायासी चिंतयानस्ततः परम् ।

एकस्मिन्निर्जने देशे ब्रह्माऽपि परमाद्भुते

॥१७॥

स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये ।

कदाचिद्वासुदेवोऽसौ स्थलांतरमतिर्हरिः

॥१८॥

तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया ।

चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात्

॥१९॥

मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ ।

अन्योन्यं पृष्टवंतौ तौ कस्त्वं कस्त्वमिति स्म ह

॥२०॥

ब्रह्मा प्रोवाच तं देवं कर्ताऽहं जगतः किल ।

विष्णुस्तमाह भो मूर्ख जगत्कर्ताऽहमच्युतः

॥२१॥

त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः ।

सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम्

॥२२॥

मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् ।

शरणं मे समायातो दानवाभ्यां प्रपीडितः

॥२३॥

मया तौ निहतौ कामं दानवौ मधुकैटभौ ।

कथं गर्वायसे मंद मोहोऽयं त्यज सांप्रतम्

॥२४॥

न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते ।

ऋषिरुवाच ।

एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम्

॥२५॥

स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः ।

प्रादुर्बभूव सहसा तयोर्विवदमानयोः

॥२६॥

मध्ये लिंगं सुधाश्वेतं विपुलं दीर्घमद्भुतम् ।

आकाशे तरसा तत्र वागुवाचाशरीरिणी

॥२७॥

तौ संबोध्य महाभागौ विवदन्तौ परस्परम् ।

ब्रह्मन्विष्णो विवादं मा कुरुतां वां परस्परम्

॥२८॥

लिंगस्यास्य परं पारमधस्तादुपरि ध्रुवम् ।

यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि

॥२९॥

एक: प्रयातु पातालमाकाशमपरोऽधुना ।

प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम्

॥३०॥

मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह ।

ऋषिरुवाच ।

तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ

॥३१॥

जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् ।

पातालमगमद्विष्णुर्ब्रह्माऽप्याकाशमेव च

॥३२॥

परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये ।

विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः

॥३३॥

न प्रापांतं स लिंगस्य परिवृत्य ययौ स्थलम् ।

ब्रह्माऽगच्छत्ततश्चोर्ध्वं पतितं केतकीदलम्

॥३४॥

शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः ।

आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम

॥३५॥

दर्शयित्वा च वितथमुवाच मदमोहितः ।

लिङ्गस्य मस्तकादेतद्गृहीतं केतकीदलम्

॥३६॥

अभिज्ञानाय चानीतं तव चित्तप्रशान्तये ।

श्रुत्वा तद्ब्रह्मणो वाक्यं दृष्ट्वा च केतकीदलम्

॥३७॥

हरिस्तं प्रत्युवाचेदं साक्षी क: कथयाधुना ।

यथार्थवादी मेधावी सदाचारः शुचिः समः

॥३८॥

साक्षी भवति सर्वत्र विवादे समुपस्थिते ।

ब्रह्मोवाच ।

दूरदेशात्समायाति साक्षी कः समयेऽधुना

॥३९॥

यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति ।

इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम्

॥४०॥

वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् ।

शिवमूर्ध्नि स्थितां ब्रह्मा गृहीत्वा मां समागतः

॥४१॥

सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन ।

मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह

॥४२॥

गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् ।

केतक्या वचनं श्रुत्वा हरिराह स्मयनिव

॥४३॥

महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् ।

ऋषिरुवाच ।

तदाकर्ण्य हरेर्वाक्यं महादेव: सनातनः

॥४४॥

कुपितः केतकीं प्राह मिथ्यावादिनि मा वद ।

गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम

॥४५॥

मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदेव हि ।

ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम्

॥४६॥

शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै ।

एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम्

॥४७॥

अन्येषां प्राणिनां राजन्का वार्ता विभ्रमं प्रति ।

देवानां कार्यसिद्ध्यर्थं सर्वदेव रमापतिः

॥४८॥

दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः ।

अवतारकरो देवो नानायोनिषु माधवः

॥४९॥

त्यक्त्वाऽऽनन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः ।

नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ

॥५०॥

सर्वज्ञे देवकार्यांशे का वार्ताऽन्यस्य भूपते ।

ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल

॥५१॥

बलादाकृष्य मोहाय प्रयच्छति महीपते ।

यया व्याप्तमिदं सर्वं भगवत्या चराचरम्

॥५२॥

मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा ।

राजोवाच ।

भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम्

॥५३॥

उत्पत्तिकारणं चापि स्थानं परमकं च यत् ।

ऋषिरुवाच ।

न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन

॥५४॥

नित्यैव सा परा देवी कारणानां च कारणम् ।

वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप

॥५५॥

शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा ।

चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि

॥५६॥

आविर्भावतिरोभावौ देवानां कार्यसिद्धये ।

यदा स्तुवंति तां देवा मनुजाश्च विशांपते

॥५७॥

प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका ।

नानारूपधरा देवी नानाशक्तिसमन्विता

॥५८॥

आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी ।

दैवाधीना न सा देवी यथा सर्वे सुरा नृप

॥५९॥

न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी ।

अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत्

॥६०॥

दृश्यस्य जननी सैव देवी सदसदात्मिका ।

पुरुषं रंजयत्येका कृत्वा ब्रह्माण्डनाटकम्

॥६१॥

रंजिते पुरुषे सर्वं संहरत्यतिरंहसा ।

तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः

॥६२॥

कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी ।

स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः

॥६३॥

दत्ताश्व शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा ।

ते तां ध्यायंति देवेशाः पूजयंति परां मुदा

॥६४॥

ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् ।

एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् ।

मम बुद्ध्यनुसारेण नान्तं जानामि भूपते

॥६५॥

इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥