मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ७

3
पञ्चमस्कन्धः · 7

शङ्करशरणगमनवर्णनम्

व्यास उवाच

असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा ।

त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ

॥१॥

कृत्वा नादं महाघोरं विस्तार्य च महासटाम् ।

पपात सुरसेनायां त्रासयन्नखदर्शनैः

॥२॥

गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् ।

जघान च भुजे विष्णुं नखाघातेन केसरी

॥३॥

वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् ।

हन्तुकामो हरिः काममवापाशु क्रुधान्वितः

॥४॥

यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् ।

तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम्

॥५॥

वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः ।

पलायनपरो वेगाज्जगाम भुवनं निजम्

॥६॥

गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः ।

अवध्यं तं परं मत्वा ययौ कैलासपर्वतम्

॥७॥

ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् ।

मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः

॥८॥

वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः ।

यमोऽपि दण्डमादाय यत्तः समरतत्परः

॥९॥

ततो यक्षाधिपः कामं बभूव रणतत्परः ।

पावकः शक्तिमादाय तत्राभूद्युद्धमानसः

॥१०॥

नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ ।

वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ

॥११॥

एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् ।

विसृजन्बाणजालानि क्रूराहिसदृशानि च

॥१२॥

कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा ।

देवदानवयोधानां निनादस्तुमुलोऽभवत्

॥१३॥

ज्याघातश्च तलाघातो मेघनादसमोऽभवत् ।

संग्रामे सुमहाघोरे देवदानवसेनयोः

॥१४॥

शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः ।

जघान सुरसङ्घांश्च दानवो मदगर्वितः

॥१५॥

खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च ।

स जघान रुषाविष्टो महिषः परमाद्भुतः

॥१६॥

ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः ।

मघवा महिषं दृष्ट्वा पलायनपरोऽभवत्

॥१७॥

सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ ।

यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः

॥१८॥

महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः ।

ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता

॥१९॥

तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् ।

स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे

॥२०॥

तरसा देवसदनं गत्वा स महिषासुरः ।

जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः

॥२१॥

इन्द्रासने तथा रम्ये दानवः समुपाविशत् ।

दानवान्स्थापयामास देवानां स्थानकेषु सः

॥२२॥

एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् ।

अवापैन्द्रपदं कामं दानवो मदगर्वितः

॥२३॥

निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः ।

एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे

॥२४॥

श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः ।

प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम्

॥२५॥

पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः ।

मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः

॥२६॥

किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः ।

तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम्

॥२७॥

देवा ऊचुः

धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् ।

सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान्

॥२८॥

पुत्रान्पिता किमपराधशतैः समेता- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् ।

यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य

॥२९॥

अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति ।

सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम्

॥३०॥

किं वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम् ।

ज्ञानेन सर्वं त्वमशेषकार्यवि- त्तस्मात्प्रभो ते प्रणताः स्म पादयोः

॥३१॥

यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः ।

पीडां करोत्येव स दुष्टचेष्टित- स्त्रातासि देवेश विधेहि शं विभो

॥३२॥

नो चेद्वयं दावमहाग्निपीडिताः कं शान्तिकर्तारमनन्ततेजसम् ।

यामः प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य कं शिवम्

॥३३॥

व्यास उवाच

इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् ।

बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम्

॥३४॥

तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः ।

उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव

॥३५॥

ब्रह्मोवाच

किं करोमि सुराः कामं दानवो वरदर्पितः ।

स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः

॥३६॥

व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् ।

शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम्

॥३७॥

ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः ।

मिलित्वा देवकार्यञ्च विमृशामो विशेषतः

॥३८॥

इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये ।

देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ

॥३९॥

तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् ।

आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः

॥४०॥

दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् ।

प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः

॥४१॥

आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः ।

उपविष्टेषु तेष्वेव निषसादासने स्वके

॥४२॥

कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः ।

पप्रच्छ कारणं देवान्कैलासागमने विभुः

॥४३॥

शिव उवाच

किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः ।

भवता च महाभाग ब्रूहि तत्कारणं किल

॥४४॥

ब्रह्मोवाच

महिषेण सुरेशान पीडिताः स्वर्निवासिनः ।

भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः

॥४५॥

यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः ।

पीडिता लोकपालाश्च त्वामद्य शरणं गताः

॥४६॥

मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् ।

यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर

॥४७॥

त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन ।

व्यास उवाच ।

इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव

॥४८॥

वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति ।

शिव उवाच ।

भवतैव कृतं कार्यं वरदानात्पुरा विभो

॥४९॥

अनर्थदञ्च देवानां किं कर्तव्यमतः परम् ।

ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः

॥५०॥

का समर्था वरा नारी तं हन्तुं मददर्पितम् ।

न मे भार्या न ते भार्या संग्रामं गन्तुमर्हति

॥५१॥

गत्वैव ते महाभागे युयुधाते कथं पुनः ।

इन्द्राणी च महाभागा न युद्धकुशलास्ति हि

॥५२॥

कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् ।

ममेदं मतमद्यैव गत्वा देवं जनार्दनम्

॥५३॥

स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् ।

सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने

॥५४॥

मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् ।

प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम्

॥५५॥

व्यास उवाच

इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः ।

उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः

॥५६॥

स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति ।

मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान्

॥५७॥

ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः ।

पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः

॥५८॥

निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा ।

गमने तत्र देवानां सर्वं शुभमिवाभवत्

॥५९॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥