मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — पञ्चमस्कन्धः, अध्याय ३०

3
पञ्चमस्कन्धः · 30

युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम्

व्यास उवाच

निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।

सोद्यमः सबलः शूरो रणे देवीमुपाययौ

॥१॥

तमाजगाम शुम्भोऽपि स्वबलेन समावृतः ।

प्रेक्षकोऽभूद्रणे राजा संग्रामरसपण्डितः

॥२॥

गगने संस्थिता देवास्तदाभ्रपटलावृताः ।

दिदृक्षवस्तु संग्रामे सेन्द्रा यक्षगणास्तथा

॥३॥

निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् ।

चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम्

॥४॥

मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे ।

वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः

॥५॥

उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः ।

मरणायागतौ कालि मत्समीपमिहाधुना

॥६॥

दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा ।

जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया

॥७॥

आशा बलवती ह्येषा न जहाति नरं क्वचित् ।

भग्नं हृतबलं नष्टं गतपक्षं विचेतनम्

॥८॥

आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ ।

निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ

॥९॥

आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ ।

पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ

॥१०॥

व्यास उवाच

इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः ।

छादयामास तरसा निशुम्भं पुरतः स्थितम्

॥११॥

दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः ।

तयोः परस्परं युद्धं बभूवातिभयानकम्

॥१२॥

केसरी केशजालानि धुन्वानः सैन्यसागरम् ।

गाहयामास बलवान्सरसीं वारणो यथा

॥१३॥

नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् ।

चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान्

॥१४॥

एवं विमथ्यमाने तु सैन्ये केसरिणा तदा ।

अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः

॥१५॥

अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः ।

सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः

॥१६॥

तत्राजगाम तरसा शुम्भः सैन्यसमावृतः ।

निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम्

॥१७॥

तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् ।

रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम्

॥१८॥

तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् ।

सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा

॥१९॥

विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा ।

मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः

॥२०॥

तं तथा दानवं देवी स्मितपूर्वमिदं वचः ।

बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके

॥२१॥

गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् ।

जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च

॥२२॥

अथवा मच्छराघातहतप्राणा रणाजिरे ।

प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः

॥२३॥

कातरत्वं च शूरत्वं न भवत्येव सर्वथा ।

ददाम्यभयदानं वै यान्तु सर्वे यथासुखम्

॥२४॥

व्यास उवाच

इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः ।

निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम्

॥२५॥

धावमानस्तु तरसासिना सिंहं मदोत्कटम् ।

जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम्

॥२६॥

ततो देवी स्वगदया वञ्चयित्वासिपातनम् ।

ताडयामास तं बाहोर्मूले परशुना तदा

॥२७॥

खड्गेन निहतः सोऽपि बाहुमूले महामदः ।

संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा

॥२८॥

सापि घण्टास्वनं घोरं चकार भयदं नृणाम् ।

पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती

॥२९॥

एवं परस्परं युद्धं बभूवातिभयप्रदम् ।

देवानां दानवानाञ्च परस्परजयैषिणाम्

॥३०॥

पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः ।

ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः

॥३१॥

रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः ।

रुधिरस्रावसंयुक्तैर्गजाश्वदेहसंकुला

॥३२॥

पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः ।

प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम्

॥३३॥

सिंहं जघान गदया मस्तके मदगर्वितः ।

प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत्

॥३४॥

सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् ।

प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत्

॥३५॥

देव्युवाच

तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव ।

ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम्

॥३६॥

व्यास उवाच

इत्युक्त्वा तरसा देवी कृपाणेन समाहिता ।

चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका

॥३७॥

सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः ।

बभ्राम च गदापाणिस्त्रासयन्देवतागणान्

॥३८॥

देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ ।

पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः

॥३९॥

तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे ।

हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते

॥४०॥

त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः ।

जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम्

॥४१॥

तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः ।

पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ।

४२ तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् ।

राजंस्ते निहतो भ्राता शेते समरमूर्धनि

॥४३॥

तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः ।

वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः

॥४४॥

निशुम्भो निहतस्तत्र तया चण्डिकयाधुना ।

न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे

॥४५॥

देवकार्यं समुद्दिश्य कापीयं परमाङ्गना ।

हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय

॥४६॥

नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा ।

अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि

॥४७॥

नानारूपधरातीव मायामूलविशारदा ।

विचित्रभूषणा देवी सर्वायुधधरा शुभा

॥४८॥

गहना गूढचरिता कालरात्रिरिवापरा ।

अपारपारगा पूर्णा सर्वलक्षणसंयुता

॥४९॥

अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः ।

देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम्

॥५०॥

पलायनं परो धर्मः सर्वथा देहरक्षणम् ।

रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते

॥५१॥

संग्रामे विजयो राजन् भविता ते न संशयः ।

कालः करोति बलिनं समये निर्बलं क्वचित्

॥५२॥

तं पुनः सबलं कृत्वा जयायोपदधाति हि ।

दातारं याचकं कालः करोति समये क्वचित्

॥५३॥

भिक्षुकं धनदातारं करोति समयान्तरे ।

विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः

॥५४॥

इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् ।

तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना

॥५५॥

सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः ।

एकैव च गतिर्नास्ति कालस्य किल भूपते

॥५६॥

नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् ।

कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा

॥५७॥

उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः ।

प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः

॥५८॥

करदास्ते कृताः पूर्वं कालेन सम्मुखेन च ।

तेनैव विमुखेनाद्य बलिनोऽबलयासुराः

॥५९॥

निहता नितरां कालः करोति च शुभाशुभम् ।

नैवात्र कारणं काली नैव देवाः सनातनाः

॥६०॥

यथा ते रोचते राजंस्तथा कुरु विमृश्य च ।

कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः

॥६१॥

त्वदग्रतो गतः शक्रो भग्नः संख्ये निरायुधः ।

तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः

॥६२॥

तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् ।

पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि

॥६३॥

मृते त्वयि महाराज शत्रवस्ते मुदान्विताः ।

मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः

॥६४॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥