ताम्रचिक्षुराख्यवधवर्णनम्
व्यास उवाच
दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः ।
उवाच दानवान्सर्वान्किं जातमिति चासकृत्
॥१॥निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ ।
तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम्
॥२॥कालो हि बलवान्कर्ता सततं सुखदुःखयोः ।
नराणां परतन्त्राणां पुण्यपापानुयोगतः
॥३॥निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् ।
ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे
॥४॥व्यास उवाच
एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते ।
चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः
॥५॥राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने ।
इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः
॥६॥द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् ।
महता सैन्यघोषेण पूरयन्गगनं दिशः
॥७॥तमागच्छन्तमालोक्य देवी भगवती शिवा ।
चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम्
॥८॥तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः ।
किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः
॥९॥चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् ।
उवाचातीव संकुद्धः किं भयं वः समागतम्
॥१०॥अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् ।
तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि
॥११॥इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः ।
आगत्य सङ्गरे देवीमित्युवाच गतव्यथः
॥१२॥किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् ।
नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम्
॥१३॥स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् ।
उपेक्षां कुरुते चित्तं मदीयं वामलोचने
॥१४॥स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि ।
न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन
॥१५॥पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
भवादृशीनां देहेषु दुनोति मालतीदलम्
॥१६॥धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् ।
लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः
॥१७॥तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः ।
पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः
॥१८॥देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः ।
धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत्
॥१९॥त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः ।
सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे
॥२०॥खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः ।
मरणान्ते तु संस्कारो गोमायुमुखकर्षणम्
॥२१॥तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् ।
रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः
॥२२॥तस्माद् गच्छ वरारोहे यत्र ते रमते मनः ।
भज वा भूपतिं नाथं हयारिं सुरमर्दनम्
॥२३॥व्यास उवाच
एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका ।
किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः
॥२४॥नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा ।
न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते
॥२५॥मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि ।
राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः
॥२६॥संग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् ।
यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम्
॥२७॥देवानां दुःखदातारं दानवं मदगर्वितम् ।
हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव
॥२८॥जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव ।
तदा गच्छन्तु पातालं दानवाः सर्व एव ते
॥२९॥मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः ।
सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना
॥३०॥व्यास उवाच
तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः ।
मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम्
॥३१॥चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा ।
जघान तं तथा घोरैराशीविषसमैः शरैः
॥३२॥युद्धं परस्परं तत्र बभूव विस्मयप्रदम् ।
गदया घातयामास तं रथाज्जगदम्बिका
॥३३॥मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् ।
मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः
॥३४॥तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः ।
आजगाम रणे योद्धुं चण्डिकां प्रति चापलात्
॥३५॥आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका ।
एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम्
॥३६॥किं भवद्भिः समायातैरबलैश्च गतायुषैः ।
महिषः किं गृहे मूढः करोति जीवनोद्यमम्
॥३७॥किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः ।
अहते महिषे पापे सुरशत्रौ दुरात्मनि
॥३८॥तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह ।
पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम्
॥३९॥ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह ।
चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः
॥४०॥भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् ।
बाणान्मुमोच तरसा हन्तुकामा सुराहितम्
॥४१॥चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः ।
गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात्
॥४२॥चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ ।
युयुधाते महावीरौ सह देव्या रणाङ्गणे
॥४३॥कुपिता च महामाया ववर्ष शरसन्ततिम् ।
चकार दानवान् सर्वान् बाणक्षततनुच्छदान्
॥४४॥असुराः क्रोधसम्मूढा बभूवुः शरताडिताः ।
चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः
॥४५॥बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः ।
शिलीमुखक्षताः सर्वे वसन्ते च वने रणे
॥४६॥बभूव तुमुलं युद्धं ताम्रेण सह संयुगे ।
विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः
॥४७॥ताम्रो मुसलमादाय लोहजं दारुणं दृढम् ।
जघान मस्तके सिंहं जहास च ननर्द च
॥४८॥नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता ।
खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा
॥४९॥छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली ।
बभ्राम क्षणमात्रं तु पपात रणमस्तके
॥५०॥पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः ।
खड्गमादाय तरसा दुद्राव चण्डिकां प्रति
॥५१॥भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् ।
दानवं पञ्चभिर्बाणैर्जघान तरसा रणे
॥५२॥एकेन पातितं खड्गं द्वितीयेन तु तत्करः ।
कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः
॥५३॥एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ ।
भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम्
॥५४॥देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे ।
पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः
॥५५॥ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः ।
ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः
॥५६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रचिक्षुराख्यवधवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥