त्रिशिरसस्तपोभङ्गाय देवराजेन्द्रद्वारा नानोपायचिन्तनवर्णनम्
ऋषय ऊचुः
सूत सूत महाभाग मिष्टं ते वचनामृतम् ।
न तृप्ताः स्मो वयं पीत्वा द्वैपायनकृतं शुभम्
॥१॥पुनस्त्वां प्रष्टुमिच्छामः कथां पौराणिकीं शुभाम् ।
वेदेऽपि कथितां रम्यां प्रसिद्धां पापनाशिनीम्
॥२॥वृत्रासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः ।
स कथं निहतः संख्ये वासवेन महात्मना
॥३॥त्वष्टा वै सुरपक्षीयस्तत्पुत्रो बलवत्तरः ।
शक्रेण घातितः कस्माद्ब्रह्मयोनिर्महाबलः
॥४॥देवाः सत्त्वगुणोत्पना मानुषा राजसाः स्मृताः ।
तिर्यञ्चस्तामसाः प्रोक्ताः पुराणागमवादिभिः
॥५॥विरोधोऽत्र महान् भाति नूनं शतमखेन ह ।
छलेन बलवान् वृत्रः शक्रेण विनिपातितः
॥६॥विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः ।
प्रविष्टः पविमध्ये स छद्मना भगवान् प्रभुः
॥७॥सन्धिं विधाय स ह्येवं मन्त्रितोऽसौ महाबलः ।
हरिभ्यां सत्यमुत्सृज्य जलफेनेन शातितः
॥८॥कृतमिन्द्रेण हरिणा किमेतत्सूत साहसम् ।
महान्तोऽपि च मोहेन वञ्चिताः पापबुद्धयः
॥९॥अन्यायवर्तिनोऽत्यर्थं भवन्ति सुरसत्तमाः ।
सदाचारेण युक्तेन देवाः शिष्टत्वमागताः
॥१०॥एवं विशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः ।
हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः
॥११॥प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्भवम् ।
किं च त्वया पुरा प्रोक्तं वृत्रासुरवधः कृतः
॥१२॥श्रीदेव्या इति तच्चापि चित्तं मोहयतीह नः ।
सूत उवाच ।
शृण्वन्तु मुनयो वृत्तं वृत्रासुरवधाश्रयम्
॥१३॥यथेन्द्रेण च सम्प्राप्तं दुःखं हत्यासमुद्भवम् ।
एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः
॥१४॥पारीक्षितेन राज्ञापि स यदाह च तद्ब्रुवे ।
जनमेजय उवाच ।
कथं वृत्रासुरः पूर्वं हतो मघवता मुने
॥१५॥सहायं विष्णुमासाद्य छद्मना सात्त्विकेन ह ।
कथं च देव्या निहतो दैत्योऽसौ केन हेतुना
॥१६॥कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुङ्गव ।
तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे
॥१७॥महतां चरितं शृण्वन् को विरज्येत मानवः ।
कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम्
॥१८॥व्यास उवाच
धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिसादरा ।
पीत्वामृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवन्ति वै पुनः
॥१९॥दिने दिने तेऽधिकभक्तिभावः कथासु राजन् महनीयकीर्तेः ।
श्रोता यदैकप्रवणः शृणोति वक्ता तदा प्रीतमना ब्रवीति
॥२०॥युद्धं पुरा वासववृत्रयोर्यद् वेदे प्रसिद्धं च तथा पुराणे ।
दुःखं सुरेन्द्रेण तथैव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव
॥२१॥चित्रं किमत्र नृपते हरिवज्रभृद्भ्यां यच्छद्मना विनिहतस्त्रिशिरोऽथ वृत्रः ।
मायाबलेन मुनयोऽपि विमोहितास्ते चक्रुश्च निन्द्यमनिशं किल पापभीताः
॥२२॥विष्णुः सदैव कपटेन जघान दैत्यान् सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् ।
कोऽन्योऽस्ति तां भगवतीं मनसापि जेतुं शक्तः समस्तजनमोहकरीं भवानीम्
॥२३॥मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षाद्भवत्यपि यया विनियोजितोऽत्र ।
नारायणो नरसखो भगवाननन्तः कार्यं करोति विहिताविहितं कदाचित्
॥२४॥देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः ।
पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैर्विकलीकृतो यत्
॥२५॥न जातु मोहं क्षपितुं नरः क्षमः कश्चिद्भवेद्भूप परावरार्थवित् ।
विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम्
॥२६॥अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् ।
जघ्नतुश्छद्मना वृत्रं स्वार्थसाधनतत्परौ
॥२७॥तदहं सम्प्रवक्ष्यामि वृत्तान्तमवनीपते ।
कारणं पूर्ववैरस्य वृत्रवासवयोर्मिथः
॥२८॥त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः
॥२९॥स पुत्रं वै त्रिशिरसमिन्द्रद्वेषात्किलासृजत् ।
विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम्
॥३०॥त्रिभिः स वदनैः श्रेष्ठैर्व्यरोचत मनोहरैः ।
त्रिभिर्भिन्नानि कार्याणि मुखैः समकरोन्मुनिः
॥३१॥वेदानेकेन सोऽधीते सुरां चैकेन सोऽपिबत् ।
तृतीयेन दिशः सर्वा युगपच्च निरीक्षते
॥३२॥त्रिशिरा भोगमुत्सृज्य तपश्चक्रे सुदुष्करम् ।
तपस्वी स मृदुर्दान्तो धर्ममेव समाश्रितः
॥३३॥पञ्चाग्निसाधनं काले पादपाग्रे निवेशनम् ।
जलमध्ये निवासं च हेमन्ते शिशिरे तथा
॥३४॥निराहारो जितात्मासौ त्यक्तसर्वपरिग्रहः ।
तपश्चचार मेधावी दुष्करं मन्दबुद्धिभिः
॥३५॥तं च दृष्ट्वा तपस्यन्तं खेदमाप शचीपतिः ।
विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति
॥३६॥दृष्ट्वा तस्य तपो वीर्यं सत्यं चामिततेजसः ।
चिन्तां च महतीं प्राप ह्यनिशं पाकशासनः
॥३७॥विवर्धमानस्त्रिशिरा मामयं शातयिष्यति ।
नोपेक्ष्यः सर्वथा शत्रुर्वर्धमानबलो बुधैः
॥३८॥तस्मादुपायः कर्तव्यस्तपोनाशाय साम्प्रतम् ।
कामस्तु तपसां शत्रुः कामान्नश्यति वै तपः
॥३९॥तथैवाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा ।
इति सञ्चिन्त्य मनसा बुद्धिमान्बलमर्दनः
॥४०॥आज्ञापयत्सोऽप्सरसस्त्वाष्ट्रपुत्रप्रलोभने ।
उर्वशीं मेनकां रम्भां घृताचीं च तिलोत्तमाम्
॥४१॥समाहूयाब्रवीच्छक्रस्तास्तदा रूपगर्विताः ।
प्रियं कुरुध्वं मे सर्वाः कार्येऽद्य समुपस्थिते
॥४२॥यत्तो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः ।
कार्यं कुरुत गच्छध्वं प्रलोभयत माचिरम्
॥४३॥शृङ्गारवेषैर्विविधैर्हावैर्देहसमुद्भवैः ।
प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम
॥४४॥अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम् ।
बलवानासनं मेऽद्य ग्रहीष्यत्यविलम्बितः
॥४५॥भयं मे समुपायातं क्षिप्रं नाशयताबलाः ।
उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते
॥४६॥तच्छ्रुत्वा वचनं नार्य ऊचुस्तं प्रणताः पुरः ।
मा भयं कुरु देवेश यतिष्यामः प्रलोभने
॥४७॥यथा न स्याद्भयं तस्मात्तथा कार्यं महाद्युते ।
नृत्यगीतविहारैश्च मुनेस्तस्य प्रलोभने
॥४८॥कटाक्षैरङ्गभेदैश्च मोहयित्वा मुनिं विभो ।
लोलुपं वशमस्माकं करिष्यामो नियन्त्रितम्
॥४९॥व्यास उवाच
इत्याभाष्य हरिं नार्यो ययुस्त्रिशिरसोऽन्तिकम् ।
कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि
॥५०॥गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो मुनेः ।
तं प्रलोभयितुं चक्रुर्नानाभावान्वराङ्गनाः
॥५१॥नापश्यत्स तपोराशिरङ्गनानां विडम्बनम् ।
इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः
॥५२॥दिनानि कतिचित्तस्थुर्नार्यस्तस्याश्रमे वरे ।
कुर्वन्त्यो गाननृत्यादिप्रपञ्चानतिमोहदान्
॥५३॥न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः ।
परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः
॥५४॥कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
श्रान्ता दीना भयत्रस्ता विवर्णवदना भृशम्
॥५५॥देवदेव महाराज यत्नश्च परमः कृतः ।
न स शक्यो दुराधर्षो धैर्याच्चालयितुं विभो
॥५६॥उपायोऽन्यः प्रकर्तव्यः सर्वथा पाकशासन ।
नास्माकं बलमेतस्मिंस्तापसे विजितेन्द्रिये
॥५७॥दिष्ट्या वयं न शप्ताः स्म यदनेन महात्मना ।
मुनिना वह्नितुल्येन तपसा द्योतितेन हि
॥५८॥विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः ।
तस्यैव च वधोपायं पापबुद्धिरसाम्प्रतम्
॥५९॥विसृज्य लोकलज्जां स तथा पापभयं भृशम् ।
चकार पापबुद्धिं तु तद्वधाय महीपते
॥६०॥