नारदस्य पुनः स्वरूपप्राप्तिवर्णनम्
नारद उवाच
इत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च ।
विमृश्य मनसात्यर्थं तमुवाच विशाम्पते
॥१॥राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् ।
पितरौ क्व च मे केन स्थापिता च सरोवरे
॥२॥किं करोमि क्व गच्छामि कथं मे सुकृतं भवेत् ।
निराधारास्मि राजेन्द्र चिन्तयामि चिकीर्षितम्
॥३॥दैवमेव परं राजन्नास्त्यत्र पौरुषं मम ।
धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु
॥४॥तवाधीनास्म्यहं भूप न मे कोऽप्यस्ति पालकः ।
न पिता न च माता च न स्थानं न च बान्धवाः
॥५॥इत्युक्तोऽसौ मया राजा बभूव मदनातुरः ।
मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह
॥६॥नरयानमानयध्वं चतुर्वाह्यं मनोहरम् ।
आरोहणार्थमस्यास्तु कौशेयाम्बरवेष्टितम्
॥७॥मृद्वास्तरणसंयुक्तं मुक्ताजालविभूषितम् ।
चतुरस्रं विशालं च सुवर्णरचितं शुभम्
॥८॥तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः ।
आनिन्युः शिबिकां दिव्यां मदर्थे वस्त्रवेष्टिताम्
॥९॥आरूढाऽहं तदा तस्यां तस्य प्रियचिकीर्षया ।
मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः
॥१०॥विवाहविधिना राजा शुभे लग्ने शुभे दिने ।
उपयेमे च मां तत्र हुतभुक्सन्निधौ ततः
॥११॥तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी ।
सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम
॥१२॥रममाणो मया सार्धं सुखमाप महीपतिः ।
नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा
॥१३॥राजकार्याणि सन्त्यज्य क्रीडासक्तो दिवानिशम् ।
नासौ विवेद गच्छन्तं कालं कामकलारतः
॥१४॥उद्यानेषु च रम्येषु वापीषु च गृहेषु च ।
हर्म्येषु वरशैलेषु दीर्घिकासु वरासु च
॥१५॥वारुणीमदमत्तोऽसौ विहरन्कानने शुभे ।
विसृज्य सर्वकार्याणि मदधीनो बभूव ह
॥१६॥व्यासाहं तेन संसक्ता क्रीडारसवशीकृता ।
स्मृतवान्पूर्वदेहं न पुंभावं मुनिजन्म च
॥१७॥ममैवायं पतिर्योषाहं पत्नीषु प्रिया सती ।
पट्टराज्ञी विलासज्ञा सफलं जीवितं मम
॥१८॥इति चिन्तयती तस्मिन्प्रेमबद्धा दिवानिशम् ।
क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी
॥१९॥विस्मृतं ब्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् ।
धर्मशास्त्रपरिज्ञानं तदासक्तमना स्थिता
॥२०॥एवं विहरतस्तत्र वर्षाणि द्वादशैव तु ।
गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने
॥२१॥जाता गर्भवती चाहं मुदं प्राप नृपस्तदा ।
कारयामास विधिवद्गर्भसंस्कारकर्म च
॥२२॥अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः ।
नाब्रवं लज्जमानाहं नृपं प्रीतमना भृशम्
॥२३॥सम्पूर्णे दशमे मासि पुत्रो जातस्ततो मम ।
शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते
॥२४॥बभूव नृपतेर्गेहे पुत्रजन्ममहोत्सवः ।
राजा परमसन्तुष्टो बभूव सुतजन्मतः
॥२५॥सूतकान्ते सुतं वीक्ष्य राजा मुदमवाप ह ।
अहं भूमिपतेश्चासं प्रिया भार्या परन्तप
॥२६॥ततो वर्षद्वयान्ते वै पुनर्गर्भो मया धृतः ।
द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः
॥२७॥सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा ।
वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम्
॥२८॥एवं द्वादश पुत्राश्च प्रसूता भूपसम्मताः ।
मोहितोऽहं तदा तेषां प्रीत्या पालनलालने
॥२९॥पुनरष्ट सुताः काले काले जाताः स्वरूपिणः ।
गार्हस्थ्यं मे ततः पूर्णं सम्पन्नं सुखसाधनम्
॥३०॥तेषां दारक्रियाः काले कृता राज्ञा यथोचिताः ।
स्नुषाभिश्च तथा पुत्रैः परिवारो महानभूत्
॥३१॥ततः पौत्रादिसम्भूतास्तेऽपि क्रीडारसान्विताः ।
आसन्नानारसोपेता मोहवृद्धिकरा भृशम्
॥३२॥कदाचित्सुखमैश्वर्यं कदाचिद्दुःखमद्भुतम् ।
पुत्रेषु रोगजनितं देहसन्तापकारकम्
॥३३॥परस्परं कदाचित्तु विरोधोऽभूत्सुदारुणः ।
पुत्राणां वा वधूनां च तेन सन्तापसम्भवः
॥३४॥सुखदुःखात्मके घोरे मिथ्याचारकरे भृशम् ।
सङ्कल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम
॥३५॥विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् ।
योषाभावे विलीनोऽहं गृहकार्येषु सर्वथा
॥३६॥अहङ्कारस्तु सञ्जातो भृशं मोहविवर्धकः ।
एते मे बलिनः पुत्राः स्नुषाः सुकुलसम्भवाः
॥३७॥एते पुत्राः सुसन्नद्धाः क्रीडन्ति मम वेश्मसु ।
धन्याहं खलु नारीणां संसारेऽस्मिन्नहो भृशम्
॥३८॥नारदोऽहं भगवता वञ्चितो मायया किल ।
न कदाचिन्मयाप्येवं चिन्तितं मनसा किल
॥३९॥राजपत्नी शुभाचारा बहुपुत्रा पतिव्रता ।
धन्याहं किल संसारे कृष्णैवं मोहितस्त्वहम्
॥४०॥अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान् ।
अरातिभावमापन्नः पतिना सह मानद
॥४१॥कृत्वा सैन्यसमायोगं रथैश्च वारणैर्युतम् ।
आजगाम कान्यकुब्जे पुरे युद्धमचिन्तयत्
॥४२॥वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च ।
मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा
॥४३॥संग्रामस्तुमुलस्तत्र कृतस्तैस्तेन पुत्रकैः ।
हता रणे सुताः सर्वे वैरिणा कालयोगतः
॥४४॥राजा भग्नस्तु संग्रामादागतः स्वगृहं पुनः ।
श्रुतं मया मृताः पुत्राः संग्रामे भृशदारुणे
॥४५॥स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः ।
क्रन्दमाना ह्यहं तत्र गता समरमण्डले
॥४६॥दृष्ट्वा तान्पतितान्पुत्रान्पौत्रांश्चदुःखपीडिता ।
विललापाहमायुष्मञ्छोकसागरसंप्लवे
॥४७॥हा पुत्राः क्व गता मेऽद्य हा हतास्मि दुरात्मना ।
दैवेनातिबलिष्ठेन दुर्वारेणातिपापिना
॥४८॥एतस्मिन्नन्तरे तत्र भगवान्मधुसूदनः ।
कृत्वा रूपं द्विजस्यागाद्वृद्धः परमशोभनः
॥४९॥सुवासा वेदवित्कामं मत्समीपं समागतः ।
मामुवाचातिदीनां स क्रन्दमानां रणाजिरे
॥५०॥ब्राह्मण उवाच
किं विषीदसि तन्वङ्गि भ्रमोऽयं प्रकटीकृतः ।
मोहेन कोकिलालापे पतिपुत्रगृहात्मके
॥५१॥का त्वं कस्याः सुताः केऽमी चिन्तयात्मगतिं पराम् ।
उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने
॥५२॥स्नानं च तिलदानं च पुत्राणां कुरु कामिनि ।
परलोकगतानां च मर्यादारक्षणाय वै
॥५३॥कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे क्वचित् ।
मृतानां किल बन्धूनां धर्मशास्त्रविनिर्णयः
॥५४॥नारद उवाच
इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिबोधिता ।
उत्थिताहं नृपेणाथ युक्ता बन्धुभिरावृता
॥५५॥अग्रतो द्विजरूपेण भगवान्भूतभावनः ।
चलिताहं ततस्तूर्णं तीर्थं परमपावनम्
॥५६॥हरिर्मां कृपया तत्र पुंतीर्थे सरसि प्रभुः ।
नीत्वाह भगवान्विष्णुर्द्विजरूपी जनार्दनः
॥५७॥स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि ।
त्यज शोकं क्रियाकालः पुत्राणां च निरर्थकम्
॥५८॥कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्भवाः ।
पितरः पतयश्चैव भ्रातरो जामयस्तथा
॥५९॥केषां दुःखं त्वया कार्यं भ्रमेऽस्मिन्मानसोद्भवे ।
वितथे स्वप्नसदृशे तापदे देहिनामिह
॥६०॥नारद उवाच
इति तस्य वचः श्रुत्वा तीर्थे पुरुषसंज्ञके ।
प्रविष्टा स्नातुकामाहं प्रेरिता तत्र विष्णुना
॥६१॥मज्जनादेव तीर्थेषु पुमाञ्जातः क्षणादपि ।
हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान्
॥६२॥उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः ।
प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम
॥६३॥सञ्चिन्तितं मया तत्र नारदोऽहमिहागतः ।
हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः
॥६४॥इति चिन्तापरश्चाहं यदा जातस्तदा हरिः ।
मामाह नारदागच्छ किं करोषि जले स्थितः
॥६५॥विस्मितोऽहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् ।
पुनः पुरुषभावश्च सम्पन्नः केन हेतुना
॥६६॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे नारदस्य पुनः स्वरूपप्राप्तिवर्णनं नामेकोनत्रिंशोऽध्यायः ॥ २९ ॥